________________ धुयवाय 2764 - अभिधानराजेन्द्रः - भाग 4 धुयवाय अप्यात्मानं नाशयन्तीत्याह-(णममाणा इत्यादि) नमन्तोऽप्याचार्याऽऽदेव्यतः श्रुतज्ञानार्थ ज्ञानाऽऽदिभावविनयाभावात्कर्मोदयादेके, न सर्वे संयमजीवितं विपरिणामयन्त्यपनयन्ति, सच्चरितादात्मानं ध्वंसयन्तीत्यर्थः / / 105 / / किं चापरमित्याह-(पुट्ठा वेगे इत्यादि) एके अपरिकर्मितमतयो गौरवत्रिक प्रतिबद्धाः स्पृष्टाः परीषहै निवर्तन्ते संयमाल्लिङ्गाद्वेति, किमर्थम्? जीवितस्यैवासंयमाऽऽख्यस्य, कारणान्निमित्तात्, सुखेन वयं जीविष्याम इति सावधानुष्ठानतया संयमान्निवर्तन्ते / तथा-भूतानां च यत्स्यात्त-दाह-(णिवखतं पि इत्यादि) तेषां गृहपाशान्निष्क्रान्तमपि ज्ञानदर्शनचारित्रमूलोत्तरगुणान्यतरोपघातान्निष्क्रान्तं दुनिष्क्रान्तं भवति / / 106 / / तद्धर्माणां च यत्स्यात्तदाहबालवयणिज्जा हु ते णरा, पुणो पुणो जातिं पगप्पंति, अहे संभवंता विद्यायमाणा अहमस्सि विउक्कसे, उदासीणे फरुसं वदंति पलियं पगंथे, अदुवा पगंथे अतहेहिं, तं मेहावी जाणिज्जा धर्म ||107 // (बाल इत्यादि) हुर्हेतौ / यस्मादसम्यगनुष्ठानादुर्निष्क्रान्तास्तस्माद् बालानां प्राकृतपुरुषाणामपि वचनीया गया बालवचनीयाः। (ते णरा इति) किञ्च-(पुणो पुणो इत्यादि) पौनः-पुन्येनारहट्टघटीयन्त्रन्यायेन जातिसत्पत्तिस्ता कल्पयन्ति / किम्भूतास्त इत्याह-(अहे इत्यादि) अधः संयमस्थानेषु सम्भवन्तो वर्तमाना विद्ययावाऽधो वर्तमानाः सन्तो विद्वांसो व्यमित्येवं मन्यमाना लघुतयाऽऽत्मानं व्युऽऽत्कर्षययुरात्मनः श्लाघां कुर्वते, यत् किश्चित् जानानोऽपि मानोत्तम्भितत्वाद्रससातागौरवबहुलोऽहमेवात्र बहुश्रुतो यदाचार्यो जानाति तन्मयाऽल्पेनैव कालेनाधीतमित्येवमात्मानं व्युत्कर्षयेदिति / नात्मा श्लाघ्यतयैवाऽऽसते परानप्यपवदेयुरित्याह-(उदासीणे इत्यादि) उदासीना रागद्वेषरहिता मध्यस्था बहुश्रुतत्वे सत्युपशान्ताः, तान् स्खलितान् चोदनोद्यतान् परुष वदन्ति / तद्यथा-स्वयमेव तावत्कृत्यमकृत्यं वा जानीहि, ततोऽन्येषामुपदेक्ष्यसीति / यथा च परुषं वदन्ति तथा सूत्रेणैव दशयितुमाह-(पलियं इत्यादि)(पलियं ति) अनुष्ठानं, तेन पूर्वाऽऽचरितेनानुष्ठानेन तृणऽऽहाराऽऽदिना प्रकथयेदेवम्भूतस्त्वमिति। अन्यथा वा कुण्टमण्टाऽऽदिभिर्गुणैर्मुखविकाराऽऽदिभिर्वा प्रकथयेदिति। किम्भूतैरतथ्यैरविद्यमानैरित्युपसंहरन्नाह (तं इत्यादि) तद्वाच्यमवाच्यं वा, तं वा धर्म श्रुतचारित्राऽऽख्यं, मेधावी मर्यादाव्यवस्थितो, जानीयात्सम्यक् परिच्छिन्द्यादिति।।१०७।। सोऽसभ्यवादप्रवृत्तो बालो गुर्वादिना यथाऽनुशास्यते, तथा दर्शयितुमाह अहम्मट्ठी तुमं सि णाम बाले, आरंभट्ठी, अणुवयमाणे हणमाणे घायमाणे, हणओ यावि समणुजाणमाणे, घोरे धम्मे उदीरिए उवेहइ, णं अणाणाए एस विसपणे वितद्दे वियाहिए ति बेमि॥१०८।। (अहम्मट्ठी इत्यादि) अर्थोऽस्यास्तीत्यर्थी, अधर्मेणार्थी, यतो नाम त्वमेवम्भूतोऽनुशास्यते, कुतोऽधार्थी , यतो बालोऽज्ञः, कुतो बालो यत आरम्भार्थी सावद्याऽऽरम्भप्रवृत्तः, कुत आरम्भार्थी , यतः प्राण्युप मर्दवादाननुवदन्नेतद् ब्रूषे / तद्यथा-जहि प्राणिनोऽपरैरेव धातयन् घ्नतश्चापि समनुजानासि गौरवत्रिकानुबद्धः पचनपाचनाऽऽदिक्रियाप्रवृत्तस्तत्पिण्डतर्की तत्समक्षं ताननुवदसिकोऽत्र दोषो? न ह्यशरीरैर्धर्मः कर्तुं पार्यत, अतो धाऽऽधारं शरीरं यत्नतः पालनीयमिति। उक्तं च'शरीरं धर्मसंयुक्तं, रक्षणीयं प्रयत्नतः। शरीराच्छ्रते धर्मो, यथा बीजात्सदकुरः / / 1 / / " इति। किञ्चैवं ब्रवीषि त्वं, तद्यथा--घोरो भयानको धर्मः सर्वाऽऽश्रवनिरोधाद् दुरनुचर उत्प्राबल्येनेरितः कथितः प्रतिपादितस्तीर्थकरगणधराऽऽदिभिरित्येवमध्यवसायी भवान्तरमनुष्ठानत उपेक्षते उपेक्षां विधत्ते, णमिति वाक्यालङ्कारे। नाना-ज्ञया तीर्थकरगणधरानुपदेशेन, स्वच्छया प्रवृत्त इति, क एवम्भूत इति दर्शयति-एष इत्यनन्तरोक्तोऽधर्थीि बाल आरम्भार्थी प्राणिनां हन्ता घातयिता नतोऽनुमन्ता धर्मोपेक्षक इति विषण्णः कामभोगेषु विविध तदर्शयतीति वि तर्दो हिंसकः, 'तर्द' हिंसायामित्यस्मात्कर्तरि पचाऽऽद्यत् / संयम वा प्रतिकूलो वितर्द इत्येवंरूपस्त्वमेष व्याख्यात इत्यतोऽहं ब्रवीमि, त्वं मेधावी धर्म जानीया इति / / 106|| एतच्च वक्ष्यमाणमहं ब्रवीमीत्यत आहकिमणेण भोजणेण करिस्सामि त्ति मण्णमाणा एवं एगे विदित्ता, मातरं पितरं हिचा णाइओ य परिग्गहं वीरायमाणे समुट्ठाय अविहिंसा सुव्वया दंतापास दीणे उप्पइए पडिवयमाणे / / 106 / / वसट्टा कायरा यजणा लूसगा भवंति।।११०।। अहमेगेसिं सिलोए पावए भवति, से समणविभंते समणविभंते // 111 // (किमणेणं इत्यादि) केचन विदितवेद्या धीरायमणाः सम्यगुत्थानेनोत्थाय पुनः प्राण्युपमईका भवन्तीति कथमुत्थाय किमहमनेन, भोरित्यामन्त्रणे, जनेन मातापितृपुत्रकलत्राऽऽदिना स्वार्थपरेण परमार्थतोऽनर्थरूपेण करिष्यामीति, न ममार्य कस्यचिदपि कार्यस्य रोगापनयनाऽऽदेरलमित्यनेन किमहं करिष्ये ? यदि वा-प्रव्रजिषुः केनचिदभिहितः किमनया सिकताकवलसन्निभया प्रव्रज्यया करिष्यति भवान्, अदृष्टवशाऽऽयातं तावदोजनाऽऽदिकं भुड् क्ष्वेत्यभिहितो विरागतामापन्नो ब्रवीतिकिमहमनेन भोजना-ऽऽदिना करिष्ये, भुक्तं मयाऽनेकशः संसारे पर्यटता, तथापि तृप्ति भूत्किमिदानीमनेन जन्मना भविष्यतीत्येवं मन्यमाना एके विदितसंसारस्वभावा विदित्वाऽप्येवं ततो मातर जननीं पितरं जनयितारं हित्वा त्यक्त्वा, ज्ञातयः पूर्वापरसंबन्धिनः स्वजना वा, परिगृह्यत इति परिग्रहो धनधान्यहिरण्यद्विपदचतुष्पदाऽऽदिस्तं, किम्भूताः? धीरमिवात्मानमाचरन्तो धीरायमाणाः, सम्यक् संयमानुष्ठानेनोत्थाय समुत्थाय विविधैरुपायैः, न विद्यते विहिंसा येषा ते अविहिंसाः, तथा शोभनं व्रतं येषां ते सुब्रताः, दान्ता इन्द्रियदमनाद्दान्ता इत्येवं समुत्थाय / नागार्जुनीयास्तु पठन्ति-- "समणा भविस्सामो अणगारा अकिंचणा अपुत्ता अपसू अहिंसगा सुव्वया दंता परदत्तभोइणो पावं कम्मंण करेस्सामो समुट्ठाए।" सुगमत्वान्न विवियत इति। एवं समुत्थाय पूर्वं पश्चात्पश्य निभालय दीनान शृगालत्वविहारिणो व्रतं जिघृक्षून् पूर्वमुत्पतिता न संयमाऽऽरोहणात्पश्चात्पापोदयात् प्रतिपतत इति / / 106 // किमिति दीना भवन्तीति दर्शयलियतो वशा इन्द्रिय--