________________ धुयवाय 2761 - अभिधानराजेन्द्रः - भाग 4 धुयवाय (एए भो इत्यादि) भोरित्यामन्त्रणे, एते परीषहसहिष्णवो निष्किशना निन्था भावनग्नाः, उक्ता अभिहिताः। यस्मिन् मनुष्यलोके, अनागमनं धर्मो येषां ते अनागमनधर्माणः, यथाऽऽरोपितप्रतिज्ञाभारवाहित्वान्न पुनर्गृहं प्रत्यागमनेप्सव इति // 187|| किञ्चआणाए मामगं धम्म (?) एस उत्तरवादे इह माणवाणं वियाहिते॥१५॥ (आणाए इत्यादि) आज्ञाप्यतेऽनयेत्याज्ञा तया मामकं धर्म सम्यगनुपालयेत्तीर्थकर एवमाहेति / यदि वा-धर्मानुष्ठानेऽप्येवमाहधर्म एवैको मामकोऽन्यतु सर्व पारक्यमित्यतस्तमहमाज्ञया तीर्थकरोपदेशेन सम्यक् करोमीति / किमित्याज्ञया धर्मोऽनुपाल्यत इत्यत आह(एस इत्यादि) एषोऽनन्तरोक्त उत्तरवाद उत्कृष्टवाद इह मानवानां व्याख्यात इति / / 188|| किञ्चएत्थोवरए तं झोसमाणे आयाणिज्जं परिणाय परियारणं विगिंचइ॥१८६ (एत्थोवरए इत्यादि) अत्राऽस्मिन् कर्मधूननोपाये संयमे उप सामीप्यन रत उपरतः, तदष्टप्रकारं कर्म शोषयन् क्षपयन् धर्म चरेदिति। किश्चापर कुर्यादित्याह-(आयाणिज्ज इत्यादि) आदीयत इत्यादानीयं कर्म, तत्परिज्ञाय मूलोत्तरप्रकृतिभेदतो ज्ञात्वा, पर्यायण श्रामण्येन विवेचयति, क्षपयतीत्यर्थः / अत्र वा शेषकर्मधूननासमर्थ तपस्तद् बाह्यमधिकृत्य व्याख्यातम् // 186 इहमेगेसिं एगचरिया होति / तत्थियरा इयरेहिं कुलेहिं सुद्धसणाए सव्वेसणाए सो मेहावी परिव्वए / सुन्भिं अदुवा दुभिं / अदुवा तत्थ भेरवा पाणा पाणे किलेसंति / ते फासे पुट्ठो धीरो अहियासिजासि त्ति बेमि।।१९।। (इहमेगेसिं इत्यादि) इहास्मिन् प्रवचने, एकेषां शिथिलकर्मणामेकचर्या भवत्येकाकिविहारप्रतिमाऽभ्युपगमो भवति। तत्र च नानारूपा अभिग्रहविशेषास्तपश्चरणविशेषाश्च भवन्तीत्यतस्तावत्प्राभृतिकामधिकृत्याऽऽह-(तत्थियरा इत्यादि)तस्मिन्नेकाकि-विहारे. इतरे सामान्यसाधुभ्यो विशिष्टतरा इतरेष्वन्तप्रान्तेषु कुलेषु शुद्धषणया दशैषणादोषरहितेनाऽऽहाराऽऽदिना, सर्वेषणयेति, सर्वा याऽऽहाराऽऽद्युद्गमोत्पादनग्रासैषणरूपा, तया सुपरिविशुद्धेन विधिना संयमे परिवजन्ति / बहुत्वेऽप्येक देशतामाह-(सो मेहावी इत्यादि) स मेधावी मर्यादाव्यवस्थितः संयम परिव्रजेदिति। किञ्च--(सुटिभं इत्यादि) स आहाररतेष्यितरेषु कुलेषु सुरभिर्वा स्याद् अथवा-दुर्गन्धः। न तत्र रागद्वेषौ विदध्यात्। किच-(अदुवा इत्यादि) अथवा तत्रैकाकिविहारित्वे पितृवनप्रतिमाप्रतिपन्नस्य सतो भैरवा भयानका यातुधानाऽऽदिकृताः शब्दाः प्रादुर्मवेयुः / यदि वा-भैरवा बीभत्साः प्राणाः प्राणिनो दीप्तजिह्वाऽऽदयोऽपरान् प्राणिनः क्लेशयन्त्युपतापयन्ति; त्वंतु पुनस्तैः स्पृष्टस्तान् स्पर्शन दुःख विशेषान् धीरोऽक्षोभ्यः सन्नतिसहस्व / इतिरधिकारपरिसमाप्तो, ब्रवीमीति पूर्ववद्धृताध्ययनद्वितीयोद्देशकः परिसमाप्तः / / 160|| उक्तो | द्वितीयोद्देशकः / आचा०१ श्रु०६ अ०२०। तदेवं संसार श्रेणि विश्लेषयित्वा यः संसारसागर तीर्णवत्ती! मुक्तवन्मुक्तो विरतो व्याख्यातस्तं च तथाभूतं किमरतिरभिभवेदुत न वेति अधिन्यसामर्थ्यात्कर्मणोऽभिभवेदित्यतदेवाऽऽहविरयं भिक्खु रीयंतं चिररातोसियं अरती तत्थ किं विधारए? संधेमाणे समुट्ठिए, जहा से दीये असंदीणे / / 196 / / (विरयं इत्यादि) विरतमसंयमाद्भिक्षणशीलं भिक्षू, रीयमाणं निश्चरन्तमप्रशरतेभ्योऽसंयमरथानेभ्यः प्रशस्तेष्वपि गुणोत्कर्षादुपर्युपरि वर्तमान चिररात्रं प्रभूतकाल संयमे उषितश्विररात्रोषितस्तमेवं गुणयुक्तमरतिः संयमोद्विग्नता, तत्र तस्मिन् संयमे वर्तमानं किंधारयेत् किं प्रतिस्खलेत ? किंशब्दः प्रश्रे, किं तथाभूतमपि मोक्षप्रस्थितं प्रणाय्यविषयमरतिर्विधारयेत्? ओमित्युच्यते / तथाहि- दुर्बलान्यविनयवन्ति चेन्द्रियाण्यचिन्त्या मोहशक्तिर्विचित्रा कर्मपरिणतिः किं न कुर्यादिति / उक्तं च"कम्माणि णूण घणचि-कणाइ गरुआइवइरसाराईणाणड्वियं पिपुरिस, पंथाओ उप्पहती णे / / 1 / / " यदि वा किं क्षेपे किं तथाभूत विधारयेदरतिनव विधारयेदित्यर्थः / तथा ह्यसौ क्षणे क्षणे विशुद्धतरचरणपरिणामतया विष्कम्भितमोहनीयोदयत्वाल्लघुकर्मा भवतीति कुतस्तमरतिर्विधारयेदित्याह-(संधेमाणे इत्यादि) क्षणे क्षणेऽव्यवच्छेदेनोत्तरोत्तर संयमस्थानकण्डक संदधानः स सम्यगुत्थितः समुत्थित उत्तरोत्तरगुणस्थानकं वा संदधानो यथाख्यातचारित्राभिमुखः समुत्थितोडसावतस्तमरतिं कथं विधारयोदिति। स चैवंभूतो न केवलमात्मनखाता, परेषामप्यरतिविधारकत्वात् त्राणायेत्येतदर्शयितुमाह-(जहा से इत्यादि) द्विर्गता आपोऽस्मिन्निति द्वीपः, स द्रव्यभावभेदाद् द्विधा, तत्र द्रव्यद्वीप आश्वासद्वीपः, आश्वास्यतेऽस्मिन्नित्याश्वासः, स चासो द्वीपश्चाऽऽश्वासदीपः / यदि वा-आश्वसनमाश्वासः, आश्वासाय द्वीप आश्वासदीपस्तत्र नदीसमुद्रबहुमध्यप्रदेशे भिन्नबोधिस्थाऽऽदयस्तमवाप्याऽऽश्वसन्त्यसावपि द्धासंदीनोऽसंदीनश्चेति यो हि पक्षमासावुदकेन प्लाध्यते स संदीनो, विपरीतस्त्वसन्दीनः सिंहलद्वीपाऽऽदिः / यथा हि सांयात्रिकास्तं द्वीपमसन्दीनमुदन्वदादेरुत्तितीर्षवः समवाप्याऽऽश्वसन्त्येवं तं भावसंधानायोत्थितं साधुमवाप्यापरे प्राणिनः समाश्वसन्ति / यदि वा-दीप इति प्रकाशद्वीपः, प्रकाशाय दीपः प्रकाशदीपः, स चादित्यचन्द्रमण्यादिरसन्दीनोऽपरस्तु विधुदुल्काऽऽदिः संदीनः / यदि वा प्रचुरेन्धनतया विवक्षितकालावस्थाय्यसन्दीनो, विपरीतस्तु संदीन इति / यथा ह्यसौ स्फु टावेदनतो हेयोपादेयहानोपादानवता निमितभाव-मुपयाति, तथा क्वचित्समुद्राऽऽधन्तर्वर्तिनामाश्वासकारी च भवत्येवं ज्ञानसन्धानायोत्थितः परीषहोपसर्गाक्षोभ्यतयाऽसन्दीनः साधुर्विशिष्टोपदेशदानतोऽपरेषामुपकारायेत्यपरे भावद्वीपं भावदीप वाऽन्यथा व्याचक्षते / तद्यथा-भावद्वीपः सम्यक्त्वं, तच प्रतिपातित्वादोपशमिक, क्षायोपशमिकं च सन्दीनो भावद्वीपः, क्षायिक त्वसंदीन इति / तं द्विविधभप्यपरतिसवसारत्वात्प्राणिन आश्वासन्ति, भावदीपस्तु सन्दीनः श्रुतज्ञानम्, असन्दीनस्तु केवलमिति, तचावाप्य प्राणिनोऽवश्यमाश्वासन्त्येवेति / अथवा-धर्म संदधानः समुत्थितः रान्नरते र्दुष्प्रधृष्यो भवतीत्युक्ते कश्चिचादयेत्-किंभूतोऽसौ धर्मो