________________ धुयवाय 2762 - अभिधानराजेन्द्रः - भाग 4 धुयवाय यत्सन्धानाय समुत्थित इति? अत्रोच्यते-यथाऽसौ द्वीपोऽसन्दीनः सलिलप्लुतो वरुगूवहनानामितरेषां च बहूनां जन्तूनां शरण्यतयाऽऽश्वासहेतुर्भवति / / 166 / / एवं से धम्मे आरियपदेसिए।।१९७|| एवमसावपि धर्म आर्यप्रदेशितस्तीर्थङ्करप्रणीतः कषतापच्छेदनर्वण्टितोऽसन्दीनः,यदि वा कुतर्काप्रधृष्यतया संदीनोऽक्षोभ्यः प्राणिना त्राणायाऽऽश्वासभूमिर्भवति, तस्य चाऽऽर्यदेशितस्य धर्मस्य किं सम्यगनुष्ठायिनः केचन सन्ति? ओमित्युच्यते॥१६७|| यदि सन्ति, किंभूतास्त इत्यत आहते अणवकंखमाणा पाणे अणातिवातेमाणा दतिआ मेहाविणो पंडिया / / 198|| एवं तेसिं भगवओ अणुट्ठाणे जहा से दियपोए। एवं ते सिस्सा दियाय राओ य अणुपुव्वेणं वाइय त्ति बेमि॥१६६।। (ते इत्यादि) ते साधवो भावसंधानोद्यताः संयमारतेः प्रणोदका मोक्षनेदिष्ठाभोगाननवकासन्तो धर्मे सम्यगुत्थानवन्तः स्युरित्येतदुत्तरत्रापि योज्यम् / तथा प्राणिनोऽनतिवातयन्त उपलक्षणार्थत्वाच्छेषमहाव्रतग्रहणमायोज्यम्। तथा कुशलानुष्ठानप्रवृत्तत्वाद्दयिताः सर्वलोकानाम् / तथा मेधाविनो मर्यादाव्यवस्थिताः, पण्डिताः पापोपादानपरिहारतया सम्यक् पदार्थज्ञा धर्मचरणाय समुत्थिता भवन्तीति॥१६८| ये पुनस्तथाभूतज्ञानाभावात्सम्यग् विवेकविकलतया नाद्यापि पूर्वोक्तसमुत्थानवन्तः स्युस्ते तथाभूता आचार्याऽऽदिभिः सम्यगनुपाल्य यावद्विवेकिनोऽभूवन्नित्येतद्दर्शयितुमाह-(एवं इत्यादि) एवमुक्तविधिना तेषामपरिकर्मितमतीनां भगवतो वीरवर्द्धमानस्वामिनो धर्मे सम्यगनुत्थाने सति तत्परिपालनतस्तथा सदुपदेशदानेन परिकर्मितमतित्वं विधेय-मिति। अत्रैव दृष्टान्तभाह-(जहा से इत्यादि) द्विजः पक्षी, तस्य पोतः शिशुद्धिजपोतः, स यथा तेन द्विजेन गर्भप्रसवात्प्रभृत्यण्डकोच्छूनोच्छूनतरभेदाऽऽदिकारववस्थासु यावन्निष्पन्नपक्षस्ताव-त्पाल्यते, एवमाचार्येणापि शिष्यकः प्रव्रज्यादानादारभ्य सामाचार्युपदेशदानेनाध्यापनेन तावदनुपाल्यते यावदगीतार्थोऽभूत् / यः पुनराचार्योपदेशमतिलघ्व स्वैरित्वाद्यथाकथञ्चित्क्रियामनुप्रवर्त्तत स उज्जयिनीराजपुत्रवद्विनश्यदिति। तद्यथा-उज्जयिन्यां जितशत्रो राज्ञो द्वी पुत्री, तत्रज्येष्ठो धर्मघोषाऽऽचार्यसमीपे संसारासारतामवगम्य प्रवद्वाज, क्रमेण चाधीताऽऽचाराऽऽदिशास्त्रोऽवगततदर्थश्व जिनकल्पं प्रतिपत्सुद्वितीयां सत्त्वभावनां भावयति। सा च पञ्चधातत्र प्रथमोपाश्रये, द्वितीया तबहिः तृतीया चतुष्के चतुर्थी शून्यगृहे, पञ्चमी श्मशाने / तत्र पञ्चमी भावनां भावयतः स कनिष्ठो भ्राता तदनुरागादाचार्यान्तिकमागत्योवाचमम ज्यायान् भ्राता काऽऽस्ते? साधुभिरभाणि-किं तेन?: स आहप्रव्रजाम्यहम्। आचार्येणोक्तोगृहाण तावत् पुनर्द्रक्ष्यसि। स तु तथैव चक्रे। पुनरप्यपृच्छत् / आचार्याऊचुः-किं तेन दृष्टन? नासौ कस्य चिदुल्लापमपि ददाति जिनकल्पं प्रतिपत्तुकाम इति / असावाह-तथापि पश्यामि तावदिति निर्बन्धे दर्शितस्तूष्णीं भावस्थित एव वन्दितः, तदनुरागाच निषिद्धोऽप्याचार्येण निवार्यमाणोऽप्युपाध्यायन ध्रियमाणोऽपि साधुभिरसाम्प्रतमेतद्भवतो दुष्करं दुरध्ययसेयमित्येवं कथ्यमानेऽप्यहमपि तेनैव पित्रा जात इत्यवष्टाभेन मोहात्तथैव तस्थौ, यथा ज्येष्ठ भ्रातेति। इतरो देवतयाऽऽगत्य वन्दितः। शिक्षकस्तुरवन्दितः। ततोऽसावपरिकर्मितमतित्वात् कुपितः। अविधिरिति कृत्वा देवताऽपि तस्योपरि कुपिता सती तलप्रहारे-णाक्षिगोलको बहिनिश्चिक्षेप / ततस्तद्ज्यायान् हृदयेनैव देवातामाह-किमित्ययमन्यस्त्वया कदर्थितः, तदस्याक्षिणी पुनर्नवी कुरु। सा त्ववादीजीवप्रदेशैमुक्ताविमौ गोलको, न शक्यौ पुनर्नवीकर्तुम् / इत्युत्वा ऋषिवचनमलव नीयमित्यवधार्य तत्क्षणश्च पाकव्यापादितैलाक्षिगोलको गृहीत्वा तदक्षिणी चकारेति / एवं सदुपदेशप्रवर्त्तनं सापायमित्यवधार्य शिष्येण सदाऽऽचार्योपदेशवर्तिना भाव्यम्, आचार्येणाऽपि सदा स्वपरोपकारवृत्तिना सम्यक स्वशिष्या यथोक्तविधिना प्रतिपालनीया इति स्थितमिति / / 168 // तदेवोपसंहरन्नाह-(एवं इत्यादि) यथा द्विजपोतो मातृपितृभ्यामनुपाल्यते, एवमाचार्येणापि शिष्या अहर्निशमनुपूर्वण क्रमेण वाचिताः पाठिताः, शिक्षा ग्राहिताः, समस्तकार्यसहिष्णवः संसारोत्तरणसमर्थाश्च भवन्तीति / इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् / आचा०। साम्प्रतं चतुर्थ आरभ्यते / अस्य चायमभिसंबन्धः-इहानन्तराद्देशके शरीरोपकरणधूननाऽभिहिता, सा च परिपूर्णा, न गौर वत्रि-कसमन्वितस्येत्यतस्त धूननार्थमिदमुपक्रम्यत इत्यनेन संबन्धेनाऽऽयातस्यास्योद्देशकस्यास्खलिताऽऽदिगुणोपेतं सूत्रमुचारणीयम्। तचेदम् एवं ते सिस्सा दिया य राओ य अणुपुव्वेणं वाइया तेहिं महावीरेहिं पण्णाणमंतेहिं, तेसंतिए पण्णाणमुवलब्भहेचा उवसमं फारुसियं समादियंति॥१००। वसित्ता बंभचेरंसि आणं तं णो त्ति मण्णमाणा।।१०१॥ (एवं ते सिस्सा इत्यादि) एवमिति द्विजपोतसंवर्द्धनक्रमेणैव, ते शिष्याः स्वहस्तप्रवाजिता उपसंपदागताः प्रातीच्छकाश्च, दिवा चरात्री चानुपूर्वेण क्रमेण वाचिताः पाठितास्तत्र कालिकमह्नः प्रथमचतुर्थपौरुष्योरवाप्यते, उत्कालिकं तु कालवेलावर्ज सकलमप्यहोरात्रमिति। तथाऽध्यापनाऽऽचाराऽऽदिक्रमेण क्रियते। आचारश्च त्रिवर्षपर्यायोऽध्याप्यत इत्यादि क्रमेणाध्यापिताः शिष्याश्चारित्र ग्राहिताः, तद्यथा--युगमात्रदृष्टिना गन्तव्यम् कूर्मवत्संकुचिताङ्गेन भाव्यमित्यादि। एवं शिक्षा ग्राहिता वाचिता अध्यापिताः। कैरिति दर्शयतितैर्महावीरैस्तीर्थकरगणधराऽऽचार्याऽsदिभिः / किम्भूतैः? प्रज्ञावद्भिानिभिरेवोपदेशाऽऽदिदत्तं लगतीत्यतो विशेषणम्, ते तु शिष्या द्विप्रकारा अपि प्रेक्षापूर्वकारिणस्तेषामाचार्याऽऽदीनामन्तिके समीपे, प्रकर्षण ज्ञायतेऽनेनेति प्रज्ञानं श्रुतज्ञानं, तस्यैवापरस्भादवाप्तिसद्भावादित्यतस्तदुपलभ्य लब्धबहुश्रुतीभूताः प्रबलमोहोदयापनीतसदुपदेशोत्कटमदत्वात् / त्यक्तोपशमम् / स च द्वेधाद्रव्यभावभेदात् / तत्र द्रव्योपशमः-कतकफलाऽऽद्यापादितः कलुषजलादेः भावोपशमस्तुज्ञानाऽऽदित्रयात् / तत्र यो येन ज्ञानेनोपशाम्यति स ज्ञानोपशमस्तद्यथा-आक्षेपण्याद्यन्यतरया धर्मकथया कश्चिदुपशाम्यतीत्यादि / दर्शनोपशमस्तु-यो हि शुद्देन सम्यग्दर्शनेनो परमुपशमयति, यथा श्रेणि के नाश्रद्दधानी देवः प्रतिबीधित इति, दर्शनप्रभावकैर्वा संमत्यादिभिः कश्चिदुपशाम्यति / चारित्रोपशमस्तुक्रोधाऽऽद्युपशमो विनयनम्रतेति / तत्र केचन क्षुद्रका ज्ञानोदन्वतोऽद्याप्युपर्यव प्लवमानास्तमेवंभूतमुपशमं त्यक्त्वा ज्ञानलवोत्तम्भितगर्वाऽऽध्नाताः पारुष्य परुषतां समाददति गृहन्ति। तद्यथा