________________ धुयवाय 2760- अभिधानराजेन्द्रः - भाग 4 धुयवाय चारास्तत्त्यजेयुः। तत्त्यागश्च धर्मोपकरणपरित्यागाद्भवतीत्यतस्तद्दर्श - यतिवस्त्रमित्यनेन क्षीमिककल्पो गृहीतः, तथा पतद्ग्रहः पात्रं, कम्बलमौर्णिक कल्प, पात्रनिर्योगं वा / पाद प्रोज्छनकं रजोहरणम् / एतानि निरपेक्षतया व्युत्सृज्य, कश्चिद्देशविरतिमभ्युपगच्छति, कश्चिद्दर्शनमेवाऽऽलम्बते, कश्चित्ततोऽपिभ्रस्यति, कथं पुनदुर्लभ चारित्रमवाप्य पुनस्तत्यजेदित्याह-परीषहान दुरधिसहनीयाननुक्रमेण परिपाट्या योगपद्येन वोदीर्णानविसहमानाः परीषदर्भग्नमोहपरवशतया पुरस्कृतदुर्गतयो मोक्षमार्ग परित्यजन्ति / भोगार्थ त्यक्तवतामपि पापोदयाद्यत्स्यात्तदाह(कामे इत्यादि) कामान् विरूपानपि (ममायमाणस्स त्ति) स्वीकृर्वतो भोगाध्यवसायिनोऽन्तरायोदयादिदानीं तत्क्षणमेव प्रव्रज्यापरित्यागानन्तरमेव, भोगप्राप्तिसमनन्तरमेवान्तर्मुहूर्तेन वा, कण्डरीकस्येवाहोरात्रेण वा,ततोऽप्यूर्द्ध शरीरभेदो भवत्यपरिमाणाय, एवंभूत आत्मना सार्द्ध विवक्षितशरीरभेदो भवति / येनानन्तेनापि कालेन पुनः पञ्चेन्द्रियत्वं नावाप्नोति / एतदेवोपसंजिहीर्षुराह-एवं पूर्वोक्तप्रकारेण, स भोगाभिलाषी, आन्तरायिकैः कामैर्बहुप्रत्यपातैर्न केवलं तत्रभवा अकेवलिकाः सद्वन्द्वाः सप्रतिपक्षा इति यावदसंपूर्णा वा, तैः सद्भिरवितीर्णाः संसारं तीवा, द्वितीयार्थे तृतीया / चः समुच्चये / एत इति भोगाभिलाषिणः कामैरतृप्ता एव शरीरभेदमवाप्नुवन्तीति तात्पर्यार्थः // 18 // अपरे त्वासन्नतया मोक्षस्य कथश्चित् कुत्रचित्कदाचिदवाप्य चरणपरिणामं प्रतिक्षण लघुकर्मतया प्रवर्द्ध मानाध्यवसायिनो भवन्तीति दर्शयितुमाह अहेगे धम्ममादाय आदाणप्पभितिसु पणिहिए चरे अपली-- यमाणे दढे // 183 / / सव्वं गिद्धिं परिणाय एस पणते महामुणी / / 154 // अइयच सव्वतो संगंण महं अस्थि ति इति एगो अहमस्सिं जयमाणे एत्थ विरते, अणगारे, सव्वसो मुंडे रीयंते, जे अचेले परिवुसिए संचिट्ठति ओमोयरियाए॥१८५|| से आकुठे वा, हए वा, लुंचिते वा, पलियं पकंथे, अदुवा पकंथे, अतहेहिं सद्दफासेहिं इति संखाए एगतरे अण्णतरे अभिण्णाय तितिक्खमाणे परिव्वए / जे य हिरी जे य अहिरीमाणे चिचा सव्वं विसोत्तियं फासे समियदंसणे॥१८६।। (अहेगे इत्यादि) अथानन्तरमेके विशुद्धपरिणामतया आसन्नापवर्गतया धर्म श्रुतचारित्राऽऽख्यमादाय गृहीत्या वस्त्रपतगृहाssदिधर्मोपकरणसमन्विता धर्मकरणेषु प्रणिहिताः परीषहसहिष्णवः सर्वज्ञोपदिष्ट धर्म चरेयुरिति / अत्र च पूर्वाणि प्रमादसूत्राण्यप्रमादाभिप्रायेण्ण पठितव्यानीति / उक्तं च - "यत्र प्रमादेन तिरोऽप्रमादः, स्याद्वाऽपि यत्नेन पुनः प्रमादः / विपर्ययेणाऽपि पठन्ति तत्र, सूत्राण्यधीकारवशाद्विधिज्ञाः / / 1 / / '' किंभूताः पुनर्धर्म चरेयु रित्याह-(अपलीय इत्यादि) कामेषु मातापित्रादिके वा लोके न प्रलीयमाना अप्रलीयमाना अनभिसक्ता धर्मचरणे दृढास्तपः-- संयमाऽऽदी द्रढिमानमालम्बमाना धर्म चरन्तीति / / 183 // किश-(सव्वं इत्यादि) सर्वा गृद्धि भोगकाशा दुःखरूपतया, परिज्ञाय, प्रत्याख्यानपरिज्ञया परित्यजेत, परित्यागे गुणमाह-(एस इत्यादि) (एस इति) कामपिपासापरित्यागी,प्रकर्षेण नतः प्रहः संयमे, कर्मधूननायां वा महामुनिर्भवति नापर इति 184 / / किञ्च(अइयच इत्यादि) अतिगत्याऽतिक्रम्य सर्वतः सर्वैः प्रकारैः सङ्गसंबन्धं पुत्रकलबाऽऽदिजनितं, कामानुषङ्ग वा, किं भावयेदित्या-ह-(ण मह अस्थि इत्यादि) न मम किमप्यस्तीति यत्संसारे एतत् आलम्बनाय स्यादिति, तदभावाचेत्युक्तक मेणैकोऽहमस्मिन् संसारोदरे, न चाहमन्यस्य कस्यचिदित्येतद्भावनाभावितश्च यत् कुर्यात्तदाह-(जयमाणे इत्यादि) अत्राऽरिमन्मौनीन्द्र प्रवचने विरतः सन्सावद्यानुष्ठानाद्दशविधचक्रवालसामाचार्या यतमानः, कोऽसावनगारः प्रव्रजितः, एकत्वभावनां भावयन्नवमौदर्य सन्तिष्ठत इत्युत्तरसूत्रेण संबन्धः / इयमेव क्रियाऽनन्तर सूत्रेष्वपि लगयितव्येति / किञ्च-(सव्वओ इत्यादि) सर्वतोद्रव्यतो भावतश्च मुण्डो रीयमाणः संयमानुष्ठाने गच्छन्, किंभूत इत्याह-(जे इत्यादि) योऽचेलोऽल्पचेलो जिनकल्पिको वा पर्युषितः संयमे उद्युक्तविहारी अन्तप्रान्तभोजी तदपि न प्रकाममित्याह (संचिट्ठइ) संतिष्टते अवमौदर्ये न्यूनोदरतायां वर्तमानः सन् // 18 // कदाचित्प्रत्यनीकतया ग्रामकण्टकैस्तुद्यतेत्येतद्दर्शयितुमाह-(से इत्यादि) स मुनिर्वाग्भिराक्रुष्टो वा, दण्डाऽऽदिभिर्हतो वा, लुञ्चितो वा केशोत्पाटनतः, पूर्वकृतकर्मपरिणत्युदयादेतदवगच्छन् सम्यक् तितिक्षमाणः परिव्रजेदित्येतच भावयेत्। तद्यथा- "पावाणं च खलु भो कडाणं कम्माणं पुट्विं दुचिण्णाणं दुप्परिक ताणं वेइयत्ता मोक्खो णस्थि अवेयइत्ता तवसा वा झोसइत्ता।'' इत्यादि / कथं पुनर्वाग– भिराक्रुश्यत इत्याह-(पलियं इत्यादि) पलियं त्ति) कर्म जुगुप्सितमनुष्ठानं, तेन पूर्वाऽऽवरितेन कुविन्दाऽऽदिना प्रकथ्य जुगुप्स्यते / तद्यथा-भोः कोलिक ! प्रव्रजत त्वमपि मया सार्द्धमेवं जल्पसीति? अथवा-जकारचकाराऽऽदिभिरपरैः प्रकारैर्निन्दा विधत्ते एभिर्वा वक्ष्यमाणैः प्रकारैरित्याह- (अतहेहि इत्यादि) अतथ्पैविंत थैरसद्भूतैः शब्दैश्चौरस्त्वं पारदारिक इत्येवमादिकः, स्पर्शश्च असद्-भूतैः साधोः कर्तुमयुक्तैः करचरणच्छेदनाऽऽदिभिः, स्वकृतादृष्टफलमित्येतत् संख्याय ज्ञात्वा तितिक्षमाणः परिव्रजेदिति। यदि वैतत् संख्याय (अत्रस्थः पाटः परीसहोपसर्गसहनविषयः 'परीसह' शब्द द्रष्टव्यः) परीषहाश्चानुकूलप्रतिकूलतया भिन्ना इत्येतदर्शयितु-माह--(एगयरे इत्यादि) एकतराननुकूलानन्यतरान् प्रतिकूलान् परीषहानुदीर्णानभिज्ञाय, सम्यक् तितिक्षमाणः परिव्रजेदिति। यदिवा-अन्यथा परीषहाणां द्वैविध्यमित्याह-(जे इत्यादि)येच परीषहाः सत्कारपुरस्काराऽऽदयः साधोरेरिणो मनआह्लादकारिणो, ये तु प्रतिकूलतया अहारिणो मनसोऽनिष्टाः। यदि वा-हीरूपा याचनाऽचेलाऽऽदय अहीमनसश्चालज्जाकारिणः शीतोष्णाऽऽदय इत्येतान् द्विरूपानपि परीषहान् सम्यक् तितिक्षमाणः परिव्रजेदिति। किञ्च-(चिचा इत्यादि) त्यक्त्वा सर्वां परीषहकृतां विश्रोतसिकाम्। परीषहाऽऽपादितान स्पर्शान दुःखानुभवान् स्पृशेदनुभवेत् सम्यगतिसहेत / स किंभूतः? सम्यगितं गतं दर्शनं यस्य स समितदर्शनः, सम्यग्दृष्टिरित्यर्थः / / 186 // तत्सहिष्णवश्व किंभूताः स्युरित्याहएते भोणगिणा वुत्ता, जे लोगंसि अणागमणधम्मिणो // 187 / /