________________ धुयरय 2756 - अभिधानराजेन्द्रः - भाग 4 धुयवाय धुयरय-त्रि० [धु(धू)तरज] धूतमपनीतं रजः कर्म येन स धूतरजाः। सूत्र०१ श्रु०४ अ०२ अ०। धूतं कम्पितं स्फोटितं रजो बध्यमानं कर्म येन ल धूतरजाः। नं०। अपगतपापकर्मणि, बृ०६ उ०। धुयरागमग्ग-पुं० [धु(धू)तरागमार्ग] धूतोऽपनीतो रागमार्गो रागपन्था यस्मिन् / अपनीतरागपथे. सूत्र०१ श्रु०४ अ०२उ० धुयवाय-पुं० [धु(धू)तवाद] धूतमष्टप्रकारं कर्म,धूननं ज्ञातिपरित्यागो वा, तस्य वादो धूतवादः / कर्मपरित्यागकथने, आचा०। आयाण भो, सुस्सूस भो, धुयवायं पवेदइस्सामि / इह खलु अत्तत्ताए तेहिं तेहिं कुलेहिं अभिसेएणं अभिसंभूता, अभिसंजाता, अभिणिव्वट्टा, अभिसंवड्वा, अभिसंबुद्धा, अभिणिक्खंता, अणुपुट्वेणं महामुणी।।१७६|| भारिति शिष्याऽऽमन्त्रणे, यदहमुत्तरत्राऽऽवेदयिष्यामि भवतस्तद् आजानीहि अवधारय, शुश्रूषस्व श्रवणेच्छा विधेहि, भोरिति पुनरप्यामन्त्रणमर्थगरीयस्त्वख्यापनाय, नाऽत्र भवता प्रमादो विधेयो, धूतवाद कथयिष्याम्यहम् / धूतम्-अष्टप्रकारकर्मधूननं ज्ञातिपरित्यागो वा तस्य वादो धूतवादः, तं प्रवेदयिष्यामि, अवहितेन च भवता भाव्यमिति / नागार्जुनीयास्तु पठन्ति-(धूतोवायं पवेएतित्ति) अष्टप्रकारकर्मधूननोपाय, निजधूननोपायं वा प्रवेदयन्ति तीर्थङ्कराऽऽदयः। कोऽसावुपायः? इत्यत आह-इहास्मिन् संसारे, खलुक्यालकारे। आत्मनो भाव आत्मता-जीवास्तिता, स्व-कृतकर्मपरिणतिर्वा , तयाऽभिसंभूताः-संजाताः,न पुनः पृथिव्यादिभूतानां कायाऽऽकारपरि- | णामतया, ईश्वरप्रजापतिनियोगेन येति / तेषु तेषूचावचेषु कुलेषु यथास्वकर्मादयाऽऽपादितेष्वभिषेकेण शुक्रशोणितनिषेकाऽऽदिक्रमेणेति। तत्राऽयंक्रमः- "सप्ताह कललं विद्यात्, ततः सप्ताहमर्बुदम्। अर्बुदाजायते पेशी, पेशीतोऽपि धनं भवेत्" / / 1 / / इति। तत्र यावत् कललं तावदभिसंभूताः, पेशी यावदभिसंजाताः, ततः साङ्गोपाङ्गस्नायुशिरोरोमाऽऽदिक्रमाभिनिर्वर्तनादभिनिर्वृताः, ततः प्रसूताः सन्तोऽभिसंवृद्धा धर्मश्रवणयोग्यावस्थायां वर्तमाना धर्मकथाऽऽदिक निमित्तमासाद्योपलब्धपुण्यपापतयाउभिसंबुद्धाः, ततः सदसद्विवेकं जानाना अभिनिष्क्रान्ताः, ततोऽधीता चाराऽऽदिशास्त्रास्तदर्थभावनोपबृंहितचरणपरिणामा आनुपूर्येण शिक्षक-गीतार्थ-क्षपक-परिहारवि-शुद्धिकैकाकिविहारिजिनकल्पिकावसाना मुनयोऽभूयन्निति / / 17 / / अभिसंबुद्धं च प्रव्रजिषुमुपलभ्य यन्निजाः कुर्युस्तद्दर्शयितुमाहतं परिक्कमंतं परिदेवमाणा मा णे चयाहि इति ते वयंति छंदोवणीया अज्झोववण्णा अक्कंदकारी जणगा रुदंति, अतारिसे मुणी, ण ओहं तरए जणगा जेण विप्पजढा, सरणं तत्थ णो समेति, कहं णु णाय से तत्थ रमति? एयं णाणं सया समणुवासिज्जासित्ति बेमि!|१८०।। तमवगततत्त्वं गृहवासपराङ् मुख महापुरुषसेवितं पन्थानं पराक्रममाणमुपलभ्य मातापितृपुत्रकलत्राऽऽदयः परिदेवमाना माऽस्मान् परित्यज, इत्येतत्ते कृपामापादयन्तो वदन्ति, किं चापर वदन्तीत्याहछन्देनोपनीताः छन्दोपनीताः, तवाभिप्रायाऽनुवर्तिनः, त्वयि चाभ्युप- | पन्नाः, तदेवंभूतानस्मान्मान्माऽवमंस्था इत्येवमाक्रन्दकारिणो जनकाः मातापित्रादयो, जना वा रुदन्ति / एवं च घदेयुरित्याह- न तादृशो मुनिर्भवति, न चौघं संरग़रं तरति, येन पाषण्डविप्रलब्धेन जनका मातापित्रादयोऽपोढाः त्यक्ता इति / स चावगतसंसारस्वभावो यत्करोतीति तदाह-न ह्यसावनुरक्तमपि बन्धुवर्ग तत्र तस्मिन्नवसरेशरण समेति, न तदभ्युपगमं करोतीत्यर्थः / किमित्यसौ शरणं नैतीत्याह-कथं नु नामाऽसौ तत्र तस्मिन् गृहवासे सर्वनिकाराऽऽस्पदे नरकप्रतिनिधी शुभद्वारपरिधे रमते? कथं गृहवासे द्वन्द्वैकहेतौ विघटितमोहकपाटः सन् रतिं कुर्यादिति। उपसंहरन्नाह-एतत् पूर्वोक्तं ज्ञानं सदा आत्मनि सम्यगनुवासयेः व्यवस्थापथेः, इति' अधिकारपरिसमाप्तौ, धूताध्ययनस्य प्रथमोद्देशकः परिसमाप्तः / उक्तः प्रथमोद्देशकः। साम्प्रतं द्वितीय आरभ्यते। अस्य चायमभिसंबन्धः-इहानन्तरोद्देशके निजकविधूनना प्रतिपादिता, सा चैवं फलवती स्याद्यदि कर्मविधूननं स्यादतः कर्मविधूननार्थमिदमुपक्रम्यत इत्यनेन संबन्धेनाऽऽयातस्यास्योद्देशकस्याऽऽदिसूत्रम् आउरं लोयमायाए चइत्ता पुव्वसंजोगं हिचा उवसमं वसित्ता बंभचेरंसि वसु वा अणुवसु वा जाणित्तु धम्म अहा तहा अहेगे तमचाईति कुसीला ||181 / / (आउर इत्यादि) लोक मातापितृपुत्रकलाऽऽदिक तमातुरं स्नेहानुषङ्गतया वियोगात्कार्यावसादेन वा,यदि वा जन्तुलोकं कामरागाऽऽतुरम, आदाय ज्ञानेन परिगृहीत्वा परिच्छिद्य, तथा त्यक्त्वा च पूर्वसंयोग मातापित्रादिसंबन्धं, तथा हित्वोपशमम्। उषित्वाऽपि ब्रह्मचर्ये , किंभूतः सन्निति दर्शयति-वसु द्रव्यं, तद्भूतः कषायकालिकाऽऽदिमलापगमाद् वीतराग इत्यर्थः, तद्विपर्ययेणानुवसुः, सराग इत्यर्थः / यदि वा-वसुः साधुः, अनुवसुः श्रावकः। तदुक्तम्-''वीतरागो वसुज्ञेयो, जिनो वा संयतोऽथवा। सरागो ह्यनुवसुः प्रोक्तः, स्थविरः श्रावकोऽपि वा / / 1 / / " तथा ज्ञात्वा धर्म श्रुतचारित्राऽऽख्यं यथा तथावस्थितं धर्म प्रतिपद्याप्यथैके मोहोदयात्तथाविधभवितव्यतानियोगेन तं धर्म प्रतिपालयितु न शक्नुवन्ति। किंभूताः?कुत्सितं शील येषां ते कुशीला इति। यत एव धर्मपालनाशक्ता अत एव कुशीलाः / / 181 / / एवंभूताश्च सन्तः किं कुर्युरित्याहवत्थं पडिग्गहं कं बलं पायपुंछणं विउसेज्जा, अणुपुवेण अणहियासेमाणा परीसहे दुरहियासए, कामे ममायमाणस्स इयाणिं या मुहूत्तेण वा अपरिमाणाए भे दो, एवं से अंतराइएहिं कामेहिं अ केवलिएहिं अवितिण्णा चेए / / 182 // (वत्थं इत्यादि) के चिद्भवशतकोटिदुरापमवाप्य मानुषं जन्म समासाद्या-लब्धपूर्वा संसारार्णवोत्तरणप्रत्यलां बोधिद्रोणीमङ्गीकृत्य मोक्षतरुबीज सर्वविरतिलक्षणं चरणं पुनर्दुर्निवारतया मन्मथस्य, पारिप्लवतया मनसो, लोलुपतयेन्द्रियग्रामस्यानेकभवाभ्यासाऽऽपादितविषयमधुरतया प्रबलमोहनीयोदयादशुभवेदनीयोदयाऽऽसन्न प्रादुर्भावादयशः कीर्युत्कटतया अविगणय्यमतिमविचार्य कार्याकार्यमुररीकृत्य महाव्यसनसागरं साम्प्रतेक्षितया अधः कृतकुलक्रमाऽऽ