________________ धावण 2753 - अभिधानराजेन्द्रः - भाग 4 धावण पाउणिऍ जइन लग्गं-ति छप्पया ताहें धोवंति // 37 / / के चेदेके सूरय एवमाहुः-एकैकां निशां रात्रि त्रिधा त्रिभिः प्रकारः पूर्वोक्तः सवास्य। तद्यथा-एकां निशां शोधनीय कल्प बहिः प्रावृणोति, द्वितीयां निशः संस्तारकतटे स्यापयति, तृतीयां तु निशा स्वपन स्वापस्थानस्योपरि लम्बमानमधोमुख प्रसारित शरीरलक्ष्मप्रायपर्यन्त स्थापयति / एवं त्रिधा। संवास्य परीक्षन्ते दृष्ट्या निभालयन्ति। निभालिताश्चेन्न दृष्टाः, ततः सूक्ष्मषट्पदिकाविशोधनार्थ प्रावृण्वन्ति, प्रावृतो च यदि न लगन्तिन लगाः प्रतिभासन्तेषट्पदिकास्ततः प्रक्षालयन्ति, लगन्ति चेत्तर्हि भूयो भूयस्तावद् दृष्ट्या, शरीरप्रावरणेन च परीक्षन्ते, यावन्न रान्तीति निश्चित भवति ततः प्रक्षालयन्तीति / एषोऽपि विधिरदूषणात्समीचीन इवाऽ5चार्यस्य प्रतिभासत इति मन्यामहे / वस्त्रप्रक्षालनं च जलेन भवत्यतो जलग्रहणे विशेषमाह . तिव्वोदगस्स गहणं, केई भाणेसु असुइपडिसेहो। गिहिभायणेसु गहणं, ठिऐं वासे मीसगं छारो॥३८|| वर्षासु गृहच्छादनप्रान्तगलितं जलं तीव्रोदकं, तस्य॑ह यदि वर्षाकालादर्वाक् सर्वोऽप्युपधिः कथञ्चित्सामाग्यभावतो न प्रक्षालितस्तर्हि प्राप्ते वर्षे सति साधुभिस्तीव्रोदकस्य गृहपटलान्तोत्तीपर्णस्य जलस्य वस्थप्रक्षालनार्थ ग्रहणमादानं कर्त्तव्यम्। तद्धिरजोगुण्ठितधूमधूम्रीकृतदिनकरतापसंपर्कसोष्मतीब्रसंस्पर्शतः परिणतत्त्वादचित्तम्, अतस्तद्ग्रहणे न काचिद्विराधना। तीव्रोदकस्य ग्रहणे केचिदाहुजिनेषु स्वपात्रेषु तीवोदकस्य ग्रहण कर्तव्यमिति / अत्राऽऽचार्य आह-(असुइपडिसेहो) 'असुइ त्ति' भावप्रधानोऽयं निर्देशः। ततोऽयमर्थः-अशुचित्वादपवित्रत्वारपरोक्तविधिना तीव्रोदकस्य प्रतिषेधः। तीव्रोदकं हि न मलिनत्वात् शुचि, लतः कथं येषु पात्रेषु भोजन विधीयते, तेषु तस्य ग्रहणमुपपन्नं भवति / मा भूत् लोके प्रवचनगर्दा, यथाऽमी अशुचय इति / ततो गृहीभाजनेषु गृहिसत्केषु कुण्डिकाऽऽदिषु, तस्य तीव्रोदकस्य ग्रहणम्। तच्च तीब्रोदकग्रहण स्थिते निवृत्ते वर्षे वृष्टावतमुहूर्तादू मिति गम्यते। अन्तर्मुहूर्तेन सर्वाऽऽत्मना परिणमनसंभवात् / अस्थिते किमित्याह(मीसगं ति) मिश्रकं निपतति वर्षे तत्तीव्रोदकं मिश्रं भवति / तथाहिपूर्वनिपतितमचित्तीभूत, तत्कालं तु निपतत्सचित्तमिति मिश्रम् / ततः स्थिते वर्षे तत्प्रतिग्राह्यं तम्मिश्च प्रतिगृहीते तन्मध्ये (छारो त्ति) क्षार: प्रक्षेपणीयो, येन भूयः सचित्तं न भवति। जलं हि केवलं प्रासुकीभूतमपि भूयः प्रहरत्रयादूर्द्ध सचित्तीभवति। ततः तन्मध्ये क्षारः प्रक्षिप्यते। अपि च-क्षारप्रक्षेपे समलमपि जलं प्रसन्नतामामजति, प्रसन्नेन च जलेन प्रक्षाल्यमानानि आचार्याऽऽदिवासांसि सुतेजांसि जायन्ते / तत एतदर्थभपि क्षारप्रक्षेपो न्याय्यः / संप्रति धावनगतमेव क्रमविशेषमाहगुरुपचक्खाणिगिला-णसेहमाईण धोवणं पुव्वं / तो अप्पणों पुव्वमहा-कडे य इयरे दुवे पच्छा / / 36 / / गुरुप्रत्याख्यानिग्लानशैक्षाऽऽदीनां पूर्व प्रथमं धावनं कुर्यात्ततः पश्चादात्मनः / इयमत्र भावना-इह साधुभिः परमहितमात्मनः समीक्षमाणेरवश्यं गुर्वादिषु विनयः प्रयोक्तव्यः, विनयबलादेव सम्यग्दर्शनज्ञान चारित्रवृद्धिसंभवात्। अन्यथा दुर्विनी तस्य सतो गच्छवासस्यैवासभवतः सकलमूलहानिप्रसक्तः। ततो धावनप्रवृत्तेन साधुना प्रथमतो गुरूणामाचार्याणां वासांसि प्रक्षालनीयानि, ततः प्रत्याख्यानिना क्षपकप्रवृत्तीनां तदनन्तरंग्लानानां, ततोऽप्यनन्तरं शैक्षकाऽऽदीनाम्। तत्र शैक्षाअभिनवप्रवजिताः। आदिशब्दाबालाऽऽदिग्रहः सूत्रे च- "सेहमाईण' इत्यत्र मकारोऽज्ञाक्षणिकः। ततस्तदनन्तरमात्मनः / इह सर्वेषामपि गुवादीनां यथायोगं त्रिविधान्यपि प्रक्षालनीयवस्वाणि संभवन्ति / तद्यथायथाकतानि, अल्पपरिकर्माणि, बहुपरिकर्माणि च। तत्र यानि परिकर्मरहितान्येव तथारूपाणि लब्धानि, तानि यथाकृतानि / यानि चैकं वार खण्डित्वा सीवितानि, तान्यल्पपरिकर्माणि / यानि च बहुधा खण्डित्वा सीवितानि, तानि बहुपरिकर्माणि / ततस्तत्रापि धावनक्रममाह(पुव्वमहागडे यत्ति) पूर्व प्रथमं सर्वेषामपि यथाकृतानि वासांसि धाववेत् / पश्चात्क्रमण इतरे द्वे। किमर्थमिति चेत्?उच्यते-विशुद्धाध्यवसायस्फीतिनिमित्तम् / तथाहि-यान्यल्पपरिकर्माणि तानि बहुकर्मापेक्षया स्तोक संरामध्याघातकारीणि भवन्तीति / तदपेक्षया शुद्धानि / तेभ्योऽपि यथाकृतान्यतिशुद्धानि, मनागपि पलिमन्थदोषकारित्वाभावात् / ततो यथा पूर्व पूर्व शुद्धानि प्रक्षाल्यन्ते, तथा संयमबहुमानवृद्धिभावतो विशुद्धाध्यवसायस्फीतिरिति पूर्व यथाकृतानीत्यादिक्रमः। संप्रति प्रक्षालनक्रियाविधिमुपदर्शयतिअच्छो डपिट्ट णासु य न धुवे धोए पयावणं न करे। परिभोग अपरिभोगे, छायाऽऽतवे च पेह कल्लाणं / / 4 / / इह वस्त्राणि धावत आच्छोटपिट्टनाभ्यां न धावेत् / तत्राऽऽच्छोटनंरजकरिव शिलायामास्फालनम् / पिट्टनंधनहीनरण्डारमणीभिरिव पुन पुनः पानीयप्रक्षेपपुरस्सरमुद्वयोस्पिट्टनेन कुट्टनम् / सूत्रे च सप्तमी तृतीयार्थे / यथा-"तिसु अलंकिया पुहवी" इत्यादौ / चशब्दोऽनुक्तसमुचयार्थः / स च पाणिपादेन प्रमृज्य प्रमृज्य यतनया प्रक्षालयेदिति समुचिनोति / ततो धौते प्रक्षालिते धावनजलस्पर्शजनितशीतापनोदाथाऽऽत्मनो वस्त्रस्य वा शीषणाय अग्नेः प्रतापनं न कुर्यात् / मा भूद्धावनक्षारजलाऽऽीभूतहस्ताऽऽदितो वस्त्रतो वा कथचिद्विन्दूपनिपातेनाग्निकायविराधना। यद्येवं तर्हि कथं वस्त्रस्य शोषणं कर्तव्यमिति। शोषणविधिमाह-परिभोग्यानि, अपरिभोग्यानि च यथाक्रम छायाऽऽतपयोः शोषयेत्। सूत्रे च विभक्तिलोप आर्षत्वात्। परिभोग्येषु हि वस्त्रेषु तथा पूर्वशोधितेष्वपि कथञ्चित् षट्पदिका संभवति। सा च प्रक्षालनकाले तथोपमर्दिताऽपि कथशिजीविता सती दिनकराऽऽतपसंपर्क म्रियते, ततस्तद्रक्षणार्थ तानि छायायां शोषयेत्। इतराणि त्वातपे, दोषाभावात्। तानि छायायामातपे च शोषार्थ विशारितानि निरन्तर (पेह त्ति) प्रेक्षत, येन परास्कन्दिनो नापहरन्ति / इह पूर्वोक्ताविधिना यतनापुरःसरमपि धाव्यमानेषु वस्त्रेषुकथशिद्वायुविराधनारूपः, षट्पदिकोपमर्दाऽऽदिरूपो वाऽरांयमोऽपि संभाव्यते / ततस्तच्छुद्ध्यर्थं तस्य साधोगुरुणा कल्याणसंज्ञ प्रायश्चित्त देयम्। पिं०। ओघ०। नि०चू० सचित्तेण उ धुवणे, मुहणंतगमादिए वि चउलहुया। अचित्ते, धोवणम्मि वि, अकारणे उवधिणिप्फण्णं / / 152|| सचित्ते ण उदगेण जइ वि मुहणं तग धुवति, तदा वि चउलहुयं /