________________ धावण 2752 - अभिधानराजेन्द्रः - भाग 4 धावण स्वप्राकृतलक्षणे- "लिङ्ग व्यभिचार्यपीति।" प्रस्तुतेऽर्थे कारणमाह मा भवतु, हुनिश्चितं, गुरूणां मलिनवस्त्रपरिधाने लोकेऽवर्णोऽश्लाघा--राथा निराकृतयोऽमी मलदुरभिगन्धोपदिग्धदेहाः, ततः किमेतेषामुपकण्ठ गतैररमाभिरिति? तथा इतरस्मिन् ग्लाने मा भवत्वजीर्णमिति भूयो भुयो मलिनानि तेषां प्रक्षाल्यन्ते। सम्प्रति ये उपधिविशेषा न विश्रम्यन्ति तन्नामग्राहं गृहीत्वा तेषां धावने विधिमाहपायस्स पडोयारी, दुनिसिज तिपट्ट पोत्ति रयहरणं। एए उन वीसामे, जयणा संकामणा धुवणं / / 30 / / प्रत्यवतीति पात्रमरिमन्निति प्रत्यवतार उपकरणम, पात्रस्य प्रत्यवतार: पावर्जः पात्रनिर्योगः षड्डिधः, तथा रजोहरणेऽस्य सत्के व निषध / तद्यथा-बाहाऽऽभ्यन्तराच। इह संप्रति दशिकाऽऽदिभिः सह यादण्डिका क्रियते, सा सूत्रनीत्या केवलेव भवति, न सदशिका, तस्या निषधात्रयम्, तत्र या दण्डिकाया उपरि एकहस्तप्रमाणाऽऽयामा तिर्यग्वेष्टकत्रयपृथुत्वा कम्बलीखण्डरूपा सा आद्या निषद्या, तस्याश्चाग्रे दशिकाःसंबध्यन्ते, ता च सदशिकामगे रजोहरणशब्देनाऽऽचार्यो ग्रहीष्यति / ततो नासाविह ग्राहा। द्वितीया त्वेनामेव निषद्या तिर्यक् बहुभिर्वेष्टकरावेष्टयन्ती किञ्चिदधिकहस्तप्रमाणाऽऽयामा हस्तप्रमाणमात्रपृथुत्वा वस्त्रमयी निषद्या सा अभ्यन्तरा निषद्योच्यते। तृतीया तु तस्या एवाऽऽभ्यन्तरनिपद्यायास्तिर्यग्वेष्टकान कुर्वती चतुरङ्गुलाधिकैकहस्तमाना चतुरस्रा कम्बलमयी भवति। सा च उपवेशनोपकारित्वादधुना पादप्रोञ्छनकमिति नढा, सा बाह्या निषद्येत्यभिधीयते / मिलितं च निषधात्रयं दण्डिकासहित रजोहरणमुच्यते। ततो रजोहरणस्य सत्के द्वे निषधे, इति न विरुद्यते। तथा त्रयः पट्टाः, तद्यथा-संस्तारपट्टः, उत्तरपट्टः, चोलपट्टश्च / एते च सुप्रतीताः। तथा (पोत्ति ति) मुखपोतिकामुखपिधानाय पोतं वर गुखपोतम, मुखपोतमेव ह्रस्वं चतुरङ्गुलात्मिकावितरितमात्रप्रमाणत्वात मुखपोतिका, मुखवस्तिकेत्यर्थः / "अतिवर्तन्ते स्वार्थिप्रत्ययकाः प्रकृतिलिङ्ग वचनानि।" इति वचनाच्च प्रथमतो नपुसकत्येऽपि प्रत्यये समानीते स्वीत्वम् / तथा-(रयहरण त्ति) दण्डिका वेष्टकत्रयप्रमाणप्रथुत्वा एकहस्ताऽऽयामा हस्तत्रिभागाऽऽयामदशापरिकलिता प्रथमा या निषद्या प्रागुक्ता सा रजोहरणम् / तथा च भाष्यद्वक्ष्यति- ''एगनिसेज च रयहरणं / '' बाह्याऽऽभ्यन्तरनिषद्यारहितमेकनिषद्यं सदश रजोहरणमिति / एतानुपधिविशेषान्न विश्रमयेत् नापरिभोग्यान स्थापयेत। करमादिति चेत्? उच्यते-प्रतिवासरमवश्यमेतेषां विनियोगभावात् / ततो यतनया वस्त्रान्तरितेन हस्तन ग्रहणरूपया संक्रमणा षटापटकानामप्रक्षालनीयेषु वस्त्रेषु संक्रमणं ततो धावनं प्रक्षालनमिति। एतामेव गाथा भाष्यकृद् गाथात्रयेण व्याख्यानयति... पायस्स पडोयारो, पत्तगवञ्जो य पायनिजोगी। दोन्नि निसिजाओ पुण, अमिंतर बाहिरा चेव / / 32|| संथारुत्तरचोलग, पट्टा तिन्नि य हवंति नायव्वा। मुहपोत्ति त्ति पोत्ती, एगनिसिजंच रयहरणं / / 33 / / एए उन वीसामे, पइदिणमुवओगओ य जयणाए। संकामिऊण धावं-ति छप्पंया तत्थ विहिणाए।।३४।। एतास्तिस्रोऽपि व्याख्यातार्थाः, नवरं (संकामिऊण इत्यादि) तत्र | विश्रामाभावे सति यतनया षट्पदिका अन्यत्र संक्रमय्य विधिना धावयन्ति प्रक्षालयन्ति। तदेवमविश्रमणीय उपधिरुक्तः, तगणनाच शेषो विश्रमणीयोपधिर्गम्यते। ततस्तस्य विश्रमणे विधि बिभणिषुरिदमाहजो पुण वीसामिज्जइ, तं एवं वीयरायआणाए। पत्ते धावणकाले, उवहिं वीसामए साहू // 35 // यः पुनरुपधिः प्राप्ते धावनकाले प्रक्षालनकाले, अनेन अकालप्रक्षालनेन भगवदाज्ञाभङ्गलक्षणं दोषमुपदर्शयति; विश्रभ्यते नि:शेषषट्पदिकाविशोधनार्थमपरिभुक्तो ध्रियते, तमुपधिं वीतरागाऽऽज्ञया सर्वज्ञोपदेशन, सर्वज्ञोक्तमित्यवधार्यमिति भावः। एवं वक्ष्यमाणन प्रकारण साधुर्विश्रमयेत्। विश्रमणाप्रकारमेवाऽऽहअभिंतरपरिभोगं, उवरि पाउणइ नाइदूरे य। तिन्नि य तिन्नि य एगं, निसिं तु काउं परिच्छिज्जा / / 33 / / इह साधूनां द्वो कल्पा क्षौमौ। एकः कम्बलमयः। तत्र यदाते प्राव्रियन्ते, तदा एकः क्षोमाऽभ्यन्तरं प्राब्रियते, शरीरलगः प्राव्रियते इत्यर्थः। द्वितीयः क्षामस्तस्योपरि कम्बलमयः तस्याऽप्युपरि / ततः प्रक्षालनकाले विश्रमणाविधिप्रारम्भे रात्री स्वपने अभ्यन्तरपरिभोग सदैव शरीरेण सह संलग्नं परिभुज्यमानं क्षौमं कल्पमुपरि शेषकल्पद्वया बहिणीणि दिनानि यावत् प्रावृणोति / येन तत्थाः षट्पदिकाः क्षुधा पौड्यमाना आहारार्थम, अथवा शीताऽऽदिना पीड्यमानास्त बहिः प्राब्रियमाणं कल्पमपहायाऽऽन्तरे कल्पद्ये शरीरे वा लगन्ति। एष प्रथमो विश्रामणाविधिः / एवं त्रीणि दिनानि प्रावृत्य ततस्त्रीण्येव च दिनानि यावत् रात्री स्थापकाले नातिदूरे स्थापयति / किमुक्तं भवति? स्वापकाले सस्तारकतट एव स्थापयति, येन प्रथम विश्रमणविधिना या न निःसृताःषट्- पदिकास्ता अपि क्षुधा पीड्यमाना आहारार्थ ततो विनिर्गत्य संस्तारकाऽऽदी लगन्ति / एष द्वितीयो विश्रामणाविधिः। तत एकां निशां रात्रिम. तुः समुच्चये। स्वापस्थानस्योपरि लम्बमानमधोमुखं शरीरलग्नप्राय पर्यन्ते प्रसारितं कृत्वा स्थापयेत् / संस्थाप्य च पश्वात्परीक्षेत, दृष्ट्या, प्रावरणेन च षट्पदिकां निभालयेत् / तद्यथाप्रथम तावद् दृष्ट्या, निभालयेत्, दृष्ट्या निभालिता अपि यदि न दृष्टास्ततः सूक्ष्मषट्पदिकारक्षणार्थ भूयः शरीरे प्रावृणोति; येन ता आहारार्थ शरीरे लगन्तिा एवं परीक्षणे कृते यदिता न स्युस्तदा प्रक्षालयेत्। अथ स्युस्तर्हि पुनः पुनर्निभाल्य यदा न सन्तीति निश्चितं भवति तदा प्रक्षालयेत्। एवं सप्तभिर्दिनः कल्पशोधना / एतदनुसारेण शेषस्याप्युपधेः शोधना भावनीया / इह विश्रमणा प्रक्षालनीयस्यापरिभोगरूपा उक्ता, ततो यस्तस्य बहिः प्रावरणाऽऽदिरूपः परिभोगः स परमार्थतोऽपरिभोग इति न तदापि विश्रमणा विरुद्धयते। एतामेव गाथा भाष्यकृयाख्यानयतिधोवत्थं तिन्नि दिणे, उवरि पाउणइ तह य आसन्न / धारेइ तिन्नि दियहे, एगदिणं उवरि लंबतं / / इयं व्याख्यातार्था। अत्रैव विश्रमणाविधी मतान्तरमाहकेई एकेक्क-निसिं, संवासेउं तिहा परीच्छंति।