________________ धारणा 2748 - अभिधानराजेन्द्रः - भाग 4 धारणाववहार अथ चतुर्थो मतिज्ञानभेदो धारणा, इयं धाविच्युतिवासनास्मृति- भेदात्रिधा भवति। अतः सभेदामपि तामाहतयणंतरं तयत्था-ऽविचवणं जो य वासणाजोगो। कालंतरे य जं पुण, अणुसरणं धारणा सा उ॥२६१|| तस्मादपायादनन्तरं तदनन्तरं, यत् तदर्थादविच्यवनम-उपयोगमाश्रित्याभ्रंशः। यश्च वासनया जीवेन सह योगः संबन्धः। यच तस्यार्थस्य कालान्तरे पुनरिन्द्रिय रुपलब्धस्थ, अनुपलब्धस्य वा एवमेव मनसाऽनुस्मरणं स्मृतिर्भवति, सेयं पुनस्त्रिविधाऽप्यर्थ-स्यावधारणरूपा धारणा विज्ञ येति गाथाऽक्षरघटना / भावार्थस्त्व-यम्-अवायेन निश्चितेऽर्थे तदनन्तरं यावदद्यापि तदर्थोपयोगः सातत्येन वर्तत, न तु तस्मान्निवर्त्तते, तावत्तदर्थोपयोगादविच्युतिर्नाम, साधारणायाः प्रथमभेदो भवति। ततस्तस्यार्थोपयोगस्य यदावरणं कर्म तस्य क्षयोपशमन जीवा युज्यते मेम कालान्तरे इन्द्रियव्यापाराऽऽदिसामग्रीवशात् पुनरपि तदर्थोपयोगः-स्मृतिरूपेण समुन्मीलति, सा चेयं तदावरणक्षयोपशमरूपा वासना नाम द्वितीयस्त दो भवति। कालान्तरे च वासनावशात्तदर्थस्येन्द्रियरुपलब्धस्य, अथवा तैरनुपलब्धस्याऽपि मनसि या स्मृतिराविर्भवति, सा तृतीयस्तदद इति / एवं त्रिभेदा धारणा विज्ञेया। तुशब्दोऽवग्रहाऽऽदिभ्यो विशेषद्योतनार्थः / विप्रतिपत्तयस्त्वेतद्विषया अपि प्रागेव निराकृता / इति गाथाऽर्थः / / 261 / / विशे० साऽपि मनःसहितेन्द्रियपञ्चकजन्यत्वात्षोढा / प्रव० 216 द्वार। से किं तं धारणा? धारणा छव्विहा पण्णत्ता / तं जहा-सोई-- दियधारणा, चक्खिदियधारणा, घाणिंदियधारणा, जिभिदियधारणा, फासिंदियधारणा, नोइंदियधारणा / / नं०। __ प्रकारान्तरेण धारणायाः षड् भेदानाहछविहा धारणा पण्णत्ता / तं जहा-बहुं धारेइ, बहुविहं धारेइ, पोराणं धारेइ, दुरुद्धरं धारेइ, अनिस्सडं धारेइ, असंदिद्धं धारेइ / सेत्तं धारणा। स्था०६ ठा० वहु धारयति 1 बहुविधंधारयतिर पुराणं धारयति 3 दुर्द्धर धारयति 4 अनिश्चित धारयति 5 असंदिग्धं धारयति 6 इति षडपिपदानि व्यक्तानि, नवरम् (पोराणं ति) पुराणं जीर्ण प्रभूतकालसंचितं, तदपि यथाश्रुतं धारयति, यदा पृच्छ्यते, तदा धारणासमर्थत्वात् सर्व वदति। (दुरुद्धर ति) दुर दुःखेन धर्तुं शक्यं नयाऽऽगमभङ्गगुपिलं (धारय त्ति"सेत्त" / इत्यादि निगमनवाक्यं व्यक्तम् / दशा०५ अ० धारणाया एकाथिकान्याहतीसे णं इमे एगट्ठिया णाणाघोसा,णाणावंजणा, पंचनामधिज्जा भवति / तं जहा-धरणा, धारणा, ठवणा, पइट्ठा कोठू। सेत्तं , धारणा। अत्रापि सामान्यत एकार्थिकानि, विशेषचिन्तायां पुनर्भिन्नार्थानि, तत्रापायानन्तरमवगतरणार्थस्याविच्युत्या अन्तर्मुहूर्त कालं यावत धरणं धरणा, ततस्तमेवार्थमुपयोगाद् युतं जघन्यतोऽन्तर्मुहूर्तादुत्कर्पतोऽसंख्ययात्कालात्परतो यत्स्मरण सा धारणा। तथा स्थापन स्थापना, अपायावधारितस्याऽर्थस्य हृदि स्थापन वासनेत्यर्थः / अन्य तु धारणास्थापनायोय॑त्यासेन स्वरूपमाचक्षते। तथा च प्रतिष्ठानं प्रतिष्ठा, अपायावधारितस्यैवार्थस्य हृदि प्रभेदेन प्रतिष्ठापनमित्यर्थः। काष्ठ इव कोष्ठः, अविनष्टसूत्रार्थधारणमित्यर्थः। (सेत्तं धारणा) सेयं धारणा। नं० न विधेयमित्येवरूपे (स्था०५ ठा०१3०1) निषेधविषयके आदेशे, "आणं वा धारणं वा सम्म पउंजित्ता भवइ।" स्था०७ टा०। धारणा विधेयेषु निवर्तनलक्षणेति / स्था० 5 ठा०२उ०। बहुशो निवेदितातिचारलब्धशुद्धीनामवधारणाऽऽत्मके व्यवहारभेदे, पञ्चा० 16 विव०॥ प्रव०। स्थाof (तद्वक्तव्यता 'धारणाववहार' शब्देऽनुपदभेव वक्ष्यते) बलहरणाऽऽधारभूते स्थूणे गृहावयवविशेषे, "अगारस्स णं झियायमाणस्स किंधारणा झियाइ।" भ०८ श०६उधृ-णिच् ल्युट्न ड्याम, श्रेणौ च / स्त्री०। वाच०। धारणाबल-न०(धारणाबल) प्रतिवादिनः शब्दतदर्थावधारणबले. व्य०१उन धारणाववहार-पुं०(धारणाव्यवहार) गीतार्थसंविग्रेन द्रव्याऽऽधपेक्षया यत्रापराधे यथा या विशुद्धिः कृता, तामवधार्य यदन्यस्त-त्रैव तथैव तामेव प्रयुक्ते सा धारणा, वैयावृत्यकराऽऽदेर्वा गच्छोपग्रहकारिणोऽशेषानुचितरयोचितप्रायश्चित्तपदानां प्रदर्शितानां धरणं धारणेति। स्था०५ टा० २उ० सा एव व्यवहारो धारणाव्य-वहारः। पञ्च व्यवहाराणां मध्ये चतुर्थे व्यवहारभेदे, भ०८ श०८ उ०। पञ्चा०ा जीत०। व्य०ा धारणाव्यवहारो नामगीतार्थेन संविग्नेनाऽऽचार्येण द्रव्यक्षेत्रकालभावपुरुषान् प्रतिसेवनाश्वावलोक्य यस्मिन्नपराधे यत्प्रायश्चित्तमदायि तत्सर्वमन्यो दृष्ट्वा तेष्वेव द्रव्याऽऽदिषु तादृश एवापराधे तदेव प्रायश्चित्तं ददाति / एष धारणाव्यवहारः। अथवा-वैयावृत्त्यकरस्य गच्छोपग्राहिणः स्पर्द्धकस्वामिनो वा देशदर्शनसहायस्य वा संविग्नस्योचितप्रायश्चित्तदानं धारणमेष धारणाव्यवहारः। व्य०१उ०। अथ धारणाव्यवहारमाहगीयत्थेणं दिन्नं, सुद्धिं अवराहिऊण तह चेव। दितस्स धारणा तह, उद्धियपयधरणरूवा वा // 865 / / इह गीतार्थेन संविग्रेनाऽऽचार्येण कस्याऽपि शिष्यस्य कचिदपराधे द्रव्यक्षेत्रकालभावपुरुषान् प्रतिसेवनाश्वावलोक्य या शुद्धिः प्रदत्ता, सा शुद्धिः तथैवावधार्य सोऽपि शिष्यो यदाऽन्यत्रापि तादृश एवापराधे च द्रव्यादिषु तथैव प्रायश्चित्तं ददाति, तदाऽसौ धारणा नाम चतुर्थो व्यवहारः / उद्धृतपदधरणरूपा वा धारणा / इदमुक्तं भवति–वैयावृत्त्यकरणाऽऽदिना कश्चिद् गच्छोपकारी साधुरद्याप्यशेषच्छे दश्रुतयोग्यो न भवति, ततस्तस्यानुग्रहं कृत्वा यदा गुरूद्धृतान्येव कानिचित्प्रायश्चित्तपदानि कथयति, तदा तस्य तेषां पदानां धरणं धारणाऽभिधीयत इति। 865|| प्रव०१२६द्वार। धारणववहारो पुण, वत्तव्वो तं जहक्कम वुच्छं / / 642 / / अत उर्द्ध धारणाव्यवहारो वक्तव्यः, तद्यथाक्रमममुं वक्ष्ये इति शृणु। उद्धारणा विधारण, संधारण संपधारणा चेव / नाऊण धीरपुरिसा, धारणववहार तं विति // 643 / / धारणाया श्चत्वार्य कार्थिकानि / तद्यथा-उद्धारणा, विधार