________________ धम्मसारहि 2734 - अभिधानराजेन्द्रः - भाग 4 धम्मसेण रिप्राप्तेरनुबन्धप्रधानत्वादतीचारभीरुत्वोपपत्तेः / एतेन पालनायोगः प्रत्युक्तः, सम्यकप्रवर्तनस्य निर्वहणफलत्वात, नान्यथा सम्यक्त्वनिति समयविदः / एवं दमनयोगेन दान्तो ह्येवं धर्मः कर्मवशितया कृतो व्यभिचारी अनिवर्त्तकभावेन नियुक्तः स्वकार्ये स्वागोपचयकारितया नीतः स्वात्मीभावं तत्प्रकर्षस्थाऽऽत्मरूपत्वेन। भावधर्माप्तौ हि भवत्येवैतदेवं, तदाद्यस्थानस्याप्येवं प्रवृत्तेरबन्ध्यबीजत्वात् सुसंवृत्तकाश्चनरत्नकरण्डकप्राप्तितुल्या हि प्रथमधर्मस्थानप्राप्तिरित्यन्यैरप्यभ्युपगमात्, तदेवं धर्मस्य सारथयो धर्मसारथयः / / 23 / ल01 ध। धर्ममार्गप्रवर्त्तयितरि तीर्थकरे, "धिइमं धम्मसारही।"(१५) उत्त० १६अ। कल्प०। यथा सारथिरुन्मार्गे गच्छन्तं रथं मार्गमानयति, एवं भगवन्तोऽपि मार्गभ्रष्ट जन मार्गे आनयन्ति। अत्र च मेधकुमारदृष्टान्तः। कल्प०१ अधि०१ क्षण। (मेघकुमारकथा 'मेधकुमार' शब्द) धम्मसासण-न०(धर्मशासन) धर्मज्ञाने, दश० 1 चू०। धर्मशास्त्रे च। दशा "साहित्यस्य विशारदो यदि परं जानाति सल्लक्षणं, तर्के कर्कशमानसोऽतिविभुता यद्यस्ति सा ज्योतिषि। किशानेककलाऽऽलयोऽपि विकलः प्राणी पर गीयते, यो जानाति न स्वर्गमोक्षसुखदं धर्मानुगं शासनम्।१।" दश०६अ। धम्मसाहण-न०(धर्मसाधन) धर्मस्य कर्मानुपादाननिर्जरणलक्षणस्य साधनं हेतुरहिंसाऽऽदिर्धर्मसाधनम्।धर्महेतावहिंसादिके, हा०१२ अष्ट। धम्मसिद्धि-स्त्री० (धर्मसिद्धि) धर्मनिष्पत्ती, "लिङ्गानि धर्मसिद्धेः।" पो०४ विव०॥ धम्मसिरी-पुं०(धर्मश्री) अस्याश्चतुर्विंशतिकायाः प्रागनन्तकालेनातीतायां चतुर्विशतिकायां भवे चरमतीर्थकरे, ग०। अस्याः ऋषभाऽऽदिचतुर्विशतिकायाः प्रागनन्तकालेन याऽतीता चतुर्विशतिका तस्यां मत्सदृशः सप्तहस्ततनुर्धर्मश्रीनामा चरमतीर्थकरो बभूव / ग०१ अधि०। (तत्कथा 'सावज्जायरिय' शब्दे) धम्मसील-त्रि०(धर्मशील) धर्मःशील सततमनुष्ठेयं यस्य सधर्मशीलः। धार्मिक, वाचा धर्मस्वभावे च / सूत्र०२ श्रु०२ अ०। धम्मसीलसमुयायार-त्रि०(धर्मशीलसमुदाचार) धर्मशीलो धर्मस्वभावो धर्माऽऽत्मकः समुदाचारो यत्किञ्चनानुष्ठानं यस्य सः। धर्मस्वभावाऽऽत्मकानुष्ठाने, सूत्र०२ श्रु०२० धम्मसीह-पुं०(धर्मसिंह) अभिनन्दनजिनस्य पूर्वभवनामधेये, स० पाटलिपुत्रस्थे स्वनामख्याते क्षत्रियमुनौ, संथा० पाडलिपुत्तम्मि पुरे, चंदयपुत्तस्समे य आसी या नामेण धम्मसीहो, चंदसिरी सो पइहिऊणं / / 6 / / पाटलिपुत्रे नगरे (चन्दयपुत्तस्समे यत्ति) चन्द्रगुप्तपुत्रस्य समः सबन्धुः सुहृत, समः सुहृदभिधानेषुदर्शनात्। अथवा-चन्द्रगुप्तसमः मान्यत्वादासीदभूद नाम्ना धर्मसिंह इति। कथंभूतः? (चंदसिरी सो पइहिऊणं) चन्द्रगुप्तश्रीः चन्द्रगुप्तलक्ष्मीकः, (पइ-हिऊण ति) प्रस्तावात् तामेव लक्ष्मी परित्यज्य, चारित्रं गृहीत्वे-त्यर्थः / ततः किं कृतवानित्याहकुल्लयरम्मि पुरवरे, अह सो अब्भुडिओ ठिओ धम्मे। कासी य गद्धपिट्ठ, पञ्चक्खाणं विगयसोगो / / 7 / / अथ कोल्लयरपुरे स धर्मसिंहाभिधानः क्षत्रियमुनिः, अभ्युस्थितोऽभ्युद्यतः भरणाय, स्थितन धर्मे पर्यन्ताऽऽराधनाकृत्यरूपे, (कासी यत्ति) अकार्षीत, (गद्धपिट्ट ति) गृद्धपृष्ठाभिधानमनाथपतितगोकलेवराऽऽदिमध्ये निपतनरूप (पचवखाणं विगयसोगो त्ति) प्रत्याख्यानमनशनाङ्गीकाररूपं, विगतशोको विगतदैन्य इति गाथार्थः // 70 / / अह सो वि चत्तदेहो, तिरियसहस्सेहिँ खायमाणो य। सो वि तह खजमाणो, पडिवन्नो उत्तमं अटुं // 71 / / अथ स त्यक्तदेहो व्युत्सृष्टशरीरस्तिर्यक्सहस्त्रैः श्ववृकशृगालगृद्धाऽऽदिभिः खाद्यमानश्च, सोऽपि तथा खाद्यमानः प्रतिपन्न उत्तमार्थ सम्यगाराधनामित्यर्थः // 71 / / संथा। धर्मजिनस्य प्रथमभिक्षादायक च। सन धम्मसुअक्खायभावणा-स्त्री०(धर्मस्वाख्यातभावना) भावनाभेदे, सा यथा"स्वाऽऽख्यातः खलु धर्मोऽयं, भगवद्भिर्जिनोत्तमैः / यं समालम्बमानो हि, न मजेद्भवसागरे / / 1 / / " स्वाख्याततामेवाऽऽह"संयमः सूनूतं शौचं, ब्रह्माकिञ्चनता तपः। क्षान्तिर्दिवमृजुता, शान्तिश्च दशधा ननु // 2 // " अत्राय भावः-संयमाऽऽदिदशविधधर्मप्रतिपादनप्रकारेण भगवतामहतां स्वाख्यातधर्मत्वानुप्रेक्षणमेवेति / धर्माणां गुगभावना तदाख्यातॄणां भगवतामनुप्रेक्षानिमित्तं स्तुतिरिति / तथा च धर्मकथकोऽहन्निति भावनेत्येव प्रत्यासन्नम्। तथा पूर्वापरविरुद्धानि, हिंसाऽऽदेः कारकाणि च / वासि चित्ररूपाणि, व्याकुर्वद्भिर्निजेच्छया।।३।। कुतीर्थिकः प्रणीतस्य, सद्गतिप्रतिपन्थिनः / धर्मस्य सकलस्यापि, कथं स्वाख्यातता भवेत? ||4|| यच तत्समये कापि, दपासत्याऽऽदिपोषणम्। दृश्यते तद्वचर्चामात्र, बुधैज्ञेयं न तत्त्वतः // 5 // यत्प्रोद्दाममदान्धसिन्धुरघट साम्राज्यमासाद्यते, यन्निःशेषजनप्रमोदजनकं संपद्यते वैभवम्। यत्पूर्णेन्दुसमद्युतिर्गुणगणः संप्राप्यते यत्पर, सौभाग्यं च विजृम्भते तदखिलं धर्मस्य लीलायितम्।।६।। यन्न प्लावयति क्षितिं जलनिधिः कल्लोलमालाऽऽकुलो , यत्पृथ्वीमखिला धिनोति सलिलाऽऽसारेण धाराधरः / यचन्द्रोष्णरुची जगत्युदयतः सर्वान्धकारच्छिदे, तन्निःशेषमपि ध्रुवं विजयते धर्मस्य विस्फूर्जितम्॥७॥ अर्हता कथितो धर्मः, सत्योऽयमिति भावयन्। सर्वसंपत्करे धर्मे धीमान् दृढतरो भवेत्॥८॥" ध०३ अधि०। धम्मसुइ-स्त्री०(धर्मश्रुति) अर्हत्प्रणीतधर्माऽऽकर्णन, उत्त० ३अ०। "किन्नरगेयश्रवणादधिको धर्मश्रुतौ रागः।" षो०११ विव०। आ०का धम्मसेण-पुं०(धर्मसेन) भगवत ऋषभदेवस्य शतपुत्रेषु स्वनामख्यातेऽन्यतमे पुत्रे, कल्प०१ अधि०७क्षणका नन्दनस्य सप्तमबलदेवस्य पूर्वभवनामधेये, सल। ति०।