________________ धम्मवीय 2732 - अभिधानराजेन्द्रः - भाग 4 धम्मसड्ढा चिन्तासच्छुत्यनुष्ठान, देवमानुषसंपदः। क्रमेणाडकरसत्काण्ड-नालपुष्पसमा मताः॥३॥ फलं प्रधानमेवाऽऽहु-र्नानुषङ्गिकमित्यपि। पलालाऽऽदिपरित्यागात्,कृषौ धान्याऽऽप्तिवद् बुधाः / / 4 / / अत एव च मन्यन्ते, तत्त्वभावितबुद्धयः। मोक्षमार्गक्रियामेका, पर्यन्तफलदायिनीम् // 5 // " ल०। धम्मवीरिय-पुं०(धर्मवीर्य) सुपार्श्वजिनसमकालिके स्वनामख्याते चक्रवर्तिनि, ति०। धम्मवुड्डि-स्त्री०(धर्मवृद्धि) धर्मसमृद्धौ,पञ्चा० २विव०। धम्मसंगह-पुं०(धर्मसंग्रह) संगृह्यतेऽनेनेति संग्रहः,धर्मस्य संग्रहो धर्मसंग्रहः / यद्वा-धर्मस्य संग्रहो यत्र स धर्मसंग्रहः / मानविजयगणिविरचिते स्वनामख्याते ग्रन्थभेदे, तथाच ग्रन्थकृत्प्रथम श्लोकद्वयेन मङ्गलं समाचरन् श्रोतृप्रवृत्तये स्वाभिधेयं प्रतिजानीते"प्रणम्य प्रणताशेष-सुरासुरनरेश्वरम्। तत्त्वज्ञ तत्त्वदेष्टार, महावीरं जिनोत्तमम् / / 1 / / श्रुताब्धेः सम्प्रदायाच्च, ज्ञात्वा स्वानुभवादपि। सिद्धान्तसारं ग्रथ्नामि, धर्मसंग्रहमुत्तमम् / / 2 / / " ध०१ अधि० साम्प्रत सकलशास्त्रार्थपरिसमाप्तिमुपदर्शयन्नाह"इत्थेष यतिधर्मोऽत्र, द्विविधोऽपि निरूपितः / तत्कात्स्न्ये न हि धर्मस्य, सिद्धिमाप निरूपणम् / / 54 // " इति पूर्वोक्तप्रकारेण, अत्र शास्त्रे, एष प्रत्यक्षः द्विविधः-सापेक्षनिरपेक्षभेदवान, न पुनरेक एवेत्यपिशब्दार्थः। यतिधर्म उक्तलक्षणो निरूपितो निरूपणविषयीकृतः, ततो द्विविधपतिधर्मनिरूपणाद द्विविधगृहिधर्मस्य च प्रागेव निरूपणात्कात्स्न्येन सर्वप्रकारेण धर्मस्य निरुपणं शास्त्राऽऽदौ प्रतिज्ञातं सिद्धिमाप सम्पूर्णतां प्राप। ध०४अधि०) (विशेषस्त्वत्र 'अणगारधम्म' शब्दे प्रथमभागे 276 पृष्ठे गतः) "प्रत्यक्षरं गणनया, ग्रन्थेऽत्र स्युरनुष्टुभाम्। चतुर्दशसहस्राणि, षट्शती चाष्टकोत्तरा // 1 // इत्थं शान्तिविजयसूरिवर्णन प्रतिपाद्य"तेषा विनेय उदिताऽऽदरतो विबने, ग्रन्थं च मानविजयाभिधवाचकोऽमुम्। सूण यदत्र मतिमन्दतया भवेत्तन्मेधाविभिर्मयि कृपां प्रणिधाय शोध्यम् / / 6 / / सत्तर्ककर्कशधियाऽखिलदर्शनेषु, मूर्धन्यतामधिगतास्तपगच्छधुर्याः। काश्यां विजित्य परयूथिकपर्षदोग्याः, विस्तारितप्रवरजैनमतप्रभावाः / / 10 / / तर्कप्रमाणनयमुख्यविवेचनेन, प्रोद्रोधिताऽऽदिममुनिश्रुतकेवलित्वाः / चकुर्यशोविजयवाचकराजिमुख्याः , ग्रन्थऽत्र मप्युपकृति परिशोधनाऽऽद्यैः / / 11 / / बाल इव मन्दगतिरपि, सामाचारीविचारदुर्गम्ये। अत्राभूवं गतिमा-स्तेषा हस्तावलम्चेन // 12 // वर्षे दिग्गजमुनिरस-चन्द्र 1678 प्रमिते च माधवे मासे। शुद्धतृतीयादिवसे, यत्नः सफलोऽयमजनिष्ट // 13 // अहम्मदावादपुरे रसाग्रे, देशे रफुरदगुर्जरदेशमण्डने। श्रीवशजन्मा मनिआऽभिधानो, वणिग्वरोऽभूच्छुभकर्मकर्ता // 14 // नित्यं गेहे दानशाला विशाला, प्रौढोन्नत्या तीर्थराजाऽऽदियात्रा। सप्तक्षेत्र्यां वित्तवापश्च यस्य, ख्यातुं प्रायो हरमदाद्यैरशक्यः // 15 // साधुः श्रीशान्तिदासः प्रवरगुणनिधिस्तत्सुतोऽभूदुदारो, धात्र्यां विख्यातनामा जगडुसमधिकानेकसत्कृत्यकर्मा / रानामन्नवस्त्रौषधसुवितरणादोन दुष्कालनाम्, विध्वस्तं शस्तभूत्या बहुविधि महिता ज्ञातिसाधम्मिकाच // 12 // पुत्रन्यस्तसमस्तगेहकरणीयस्य स्फुट वा के, सिद्धान्तश्रवणाऽऽदिधर्मकरणे बद्धवस्पृहस्थानिशम्। सद्धर्मद्वयसंविधानरचनाशुश्रूषणोत्कण्ठिनस्तस्य प्रार्थनयाऽस्य गुम्फनविधौ जातः प्रयत्नो मम / 17|| ज्ञानाऽऽराधनमतिना, ज्ञानाऽऽदिगुणान्वितेन वृत्तिरियम्। प्रथमाऽऽदर्श लिखिता, गणिना कान्त्यादिविजयेन // 18 // धात्री संपद्विधात्री भुजगपतिधृता सार्णवा यावदास्ते, प्रोचेः सौवर्णशृङ्गोल्लिखितसुरपथो मन्दराद्रिश्च यावत्। विश्वे विद्योतयन्तौ तमनु शशिरवी भ्राम्यतश्चेह यावत्, ग्रन्थो व्याख्यायमानो विबुधजनवरैनन्दतादेष तावत् // 16 // ये ग्रन्थार्थविभावनातिनिपुणाः सम्यगुणग्राहिणः, सन्तः सन्तु मयि प्रसन्नहृदयास्ते किं खलैस्तैरिह। येषां शुद्धसुभाषितामृतरसासिक्तेऽपि चित्ते भृशं, ग्रीष्मत्तौ मरुभूमिकास्विव परं लेशो न संलक्ष्यते / / 20 / / विलोक्यानेकशास्त्राणि, विहिताद् ग्रन्थतस्त्विह। प्रेत्यापि बोधिलाभोऽस्तु, परमानन्दकारणम् ।२१।"ध० ४अधिका धम्मसंहिया-स्त्री०(धर्मसंहिता) धर्मवृद्धयर्थ संहिता बद्धा रचिता सम्-धाक्तः / भनुयाज्ञवल्क्यप्रभृतिप्रणीते धमप्रतिपादनार्थे शास्त्रे, वाचन अनु०। धम्मसड्डा-स्त्री०(धर्मश्रद्धा) धर्मः श्रुतधर्माऽऽदिस्तत्र तत्करणाभिलाषरूपा श्रद्धा धर्मश्रद्धा। धर्मकरणाभिलाषे, उत्त० 26 अ०॥ धर्मश्रद्वैव सकलकल्याणनिबन्धनमिति तामाहधम्मसद्धाए गं भंते ! जीवे किं जणयइ? धम्मसद्धाए णं सायासोक्खेसु रजमाणे विरज्जइ, अगारधम्मं च णं चयइ। अणगारे णं जीवे सारीरमाणसाणं दुक्खाणं छेयणभेयणसंजोगाईणं वोच्छेयं करेइ, अव्वावाहं च सुहं निवत्तेइ / / 3 / / धर्मश्रद्धयोक्तरूपया, सातं सातवेदनीयं, तजनितानि सौख्यानि सातसौख्यानि। प्राग्वन्मध्यपदलोपी समासः, तेषु, वैषयिकसुखेष्विपि यावत् / रज्यमानः पूर्व राग कुर्वन् विरज्यते विरक्तिं गच्छति। अगारधर्म च गृहाऽऽचार, गार्हस्थ्यमिति यावत् / चशब्दश्चैह वाक्यालङ्कारे / त्यजते परिहरति / तदत्यागस्य वैषयिकसुखानुरागनिबन्धनत्वात् / ततश्व "अणगारे त्ति" प्राकृतत्वादनगारो यतिः सन् शारीरमानसाना दुःखानाम, किरूपाणा मित्याह- छेदनभेदनसंयोगाऽऽदीनामिति, छेदनं खङ्गादिना द्विधा करणं, भेदन कुन्ताऽऽदिना विदारणम्, आदिशब्दस्येहापि संब