________________ धम्मरयण 2726 - अभिधानराजेन्द्रः - भाग 4 धम्मरयण दशार्दूलनादसवादिना पदेनैकान्तनित्यानित्यवस्तुविस्तारवादिप्रवादिमृगयोर्मुखबन्धो व्यधायि, यतोऽनैकान्तेन नित्योऽनित्यो वा कर्ता क्रियाद्वयं कर्तुमीष्ट, क्रियाभेदे कर्तृभेदात्, ततो द्वितीयक्रियाक्षणे कर्तुरनित्यवाभावप्रसङ्गाभ्यां द्वयोरप्यपाकृतिरिति / सकलगुणरत्नकुलगृहमित्यनेन भगवतः श्रीमत्पश्चिमतीर्थाधिनाथन्य पूजातिशयः प्रकाश्यते। तथा च पूज्यन्त एवाहप्रथमिकाविधीयमानावनामवशसमुत्पन्नशिरः कोटीरकोटीविटङ्कसंघहैः सुरासुरनरनिकरनायकैरपि गुणवन्तः। उक्तंच"सव्वो गुणेहिं गण्णो, गुणाहियस्स जह लोगे वीरस्स। संभंतमउडविउओ, सहस्सनयणो सययमेइ।।१॥" इति। विमलकेवलमित्यमुना तु ज्ञानातिशयसंपन्नतया प्रसिद्धसिद्धार्थपार्थिवकुलविमलनभस्तलनिशीथिनीनाथस्य जिननाथस्य वचनातिशयः प्रपञ्च्यते / यतः केवलज्ञाने सत्यवश्यंभाविनी भगवतां तीर्थकृतां सद्देशनाप्रवृत्तिः, तीर्थकरनामकर्मण इत्थमेव वेद्यमानत्वात् / यदुक्त श्रीभद्रबाहुस्वामिपादैः- "तं च कहं वेइजइ, अगिलाए धम्मदेसणाईहिं।" इत्यादि। वीरमिति सान्वयपदेन च भगवतः समूतकाषंकषितनिःशेषापायनिबन्धनकर्मशत्रुसङ्घातस्य चरमजिनेश्वरस्यापायापगमातिशयः प्रस्पष्ट निष्टक्यते, यतोऽपायभूतं भवभ्रमणकारणत्वात्सर्वमपि कर्म / तथा चाऽऽगमः- "सव्वं पावं कम्म, भामिजइजेण संसारे।" इति। धर्मरत्नार्थिभ्य इत्यनेन श्रवणाधिकारिणामर्थित्वमेव मुख्यं लिङ्गमित्यभाणि / यदुक्तं परोपकारभूरिभिः श्रीहरिभद्रसूरिभिः-''तत्थऽहिगारी अत्थी, समत्थओ जो न सुत्तपडिकुट्ठो / अत्थी उ जो विणीओ, समुट्टिओ पुच्छमाणो य" // 1 / / इति / जनानामित्यनेन बहुवचनान्तेनेदमुदितं भवति यथा नैकमेवेश्वराऽऽदिकमाश्रित्योपदेशदाने प्रवर्तितव्य, किंतु सामान्येन सर्वसाधारणतया। तथा चाऽऽह भगवान सुधर्मस्वामी--"जहा पुन्नस्स कत्थइ, तहा तुच्छस्स कत्थइ। जहा तुच्छस्स कत्थइ, तहा पुन्नस्स कत्थई / / 1 / / " इति / वितराम्युपदेशमितीहायमाशयः-न निजप्रज्ञाभिमानेन, न परपरिभवाभिप्रायेण, न कस्यचिदुपार्जनीय प्रवर्तते, किं तर्हि कथं नु नामाऽमी जन्तक सद्धर्ममार्गमासाद्यपूर्यवसितं महानन्दामन्दाऽऽनन्दसंदोहमवाप्स्यन्तीत्यनुग्रहबुद्ध्या परेषामात्मनश्च। यदभाणि"शुद्धमार्गोपदेशेन, यः सत्त्वानामनुग्रहम्। करोति नितरां तेन, कृतः स्वस्याप्यसौ महान् / / 1 / / " तथा'न भवतिधर्मः श्रोतुः, सर्वस्यैकान्ततो हितश्रवणात्। ब्रुवतोऽनुग्रहबुद्धया, वतुस्त्वेकान्ततो भवति" ||1|| इत्युक्तः सभावार्थः सकलोऽपि गाथार्थः / / 1 / / अथ यथाप्रतिज्ञातं विभणिषुः प्रस्तावयन्नाहभवजलहिम्मि अपारे, दुलहं मणुयत्तणं पि जंतूणं। तत्थ वि अणत्थहरणं, दुलहं सद्धम्मवररयणं / / 2 / / भवन्त्यस्मिन् नारकतिर्यड्नरामररूपेण कर्मवशवर्तिनः प्राणिन इति भवः संसारः, स एव जन्मजरामरणादिजलधारणाजलधिः, तस्मिन्ननादिनिधनतयाऽपारेऽदृष्टपर्यन्ते, वम्भम्यमाणानामिति शेषः। दुर्लभं दुरापं, मनुजत्वमपि मनुष्यभावोऽपि, दूरे तावद्देशकुलजातिप्रभृतिसामग्रीत्यपेरर्थः / यजगदे जगदेकबन्धुना श्रीवर्द्धमानस्वामिनाऽष्टापदादागतं श्रीगौतममहामुनिं प्रति"दुलहे खलु माणुसे भवे, चिरकालेण वि सव्वपाणिणं। गाढा य विवागकम्मुणो, समयं गोयम ! मा पमायए // 4 // " इति। ध०र० (अस्या अर्थः 'दुमपत्तय' शब्देऽस्मिन्नेव भागे 2570 पृष्ठे उक्तः ) अन्यैरप्युक्तम्"संसारकान्तारमपास्तपारं, बम्भ्रम्यमाणो लभते शरीरी। कृच्छ्रेण नृत्वं सुखसस्यबीज, प्ररूढदुष्कर्मशमेन (भूतम्) नूनप।।१।। नरेषु चक्री त्रिदशेषु वज्री, मृगेषु सिंहः प्रशमो व्रतेषु। मतो महीभृत्सु सुवर्णशैलो, भवेषु मानुष्यभवःप्रधानः।।२।।" तथा"अनाण्यपि रत्नानि, लभ्यन्ते विभवैः सुखम्। दुर्लभ रत्नकोट्याऽपि, क्षणोऽपि मनुजाऽऽयुषः / / 1 / / " इति। जन्तूनां प्राणिनां तत्रापि मनुजत्वे सत्यपि। अनर्थहरणमितिनार्थ्यन्ते नाभिलष्यन्ते ये दारिद्र्यक्षुद्रोपद्रवाऽऽदयोऽपायास्ते ह्रियन्ते विध्वस्यन्ते येन तदनर्थहरणं दुर्लभं दुष्प्रापं, किं तदित्याह-सन् साधुः पूर्वापराविरोधप्रभृतिगुणगणालड्कृतत्वेन परप्रावादुकपरिकल्पितधर्मापेक्षया शोभनो धर्मः सद्धर्मः सम्यग्दर्शनाऽऽदिकः, स एवैहिकार्थमात्रप्रदायीतररत्नापेक्षया शास्वतानन्तमोक्षार्थदातृत्वेन वरं प्रधान रत्नं सद्धर्मवररत्नमिति। अथामुमेवार्थ दृष्टान्तविशिष्ट स्पष्टयन्नाहजह चिंतामणिरयणं, सुलह न हु होइ तुच्छविहवाणं / गुणविहववजियाणं, जियाण तह धम्मरयणं पि / / 3 / / यथा येन प्रकारेण, चिन्तामणिरत्नं सुप्रतीतं, सुलभं सुप्रापम्. (नहु) नैव भवति जायते, तुच्छविभवानाम्-तुच्छः स्वल्पो विभवः-कारणे कार्योपचाराद्विभवकारण पुण्यं येषां ते तुच्छविभवाः, स्वल्पपुण्या इत्यर्थः, तेषान्, तथाविधपशुपालवत् / तथा गुणा अक्षुद्रताऽऽदयो वक्ष्यमाणस्वरूपास्तेषां विशेषेण भवनं सत्ता गुणविभवः / अथवा-गुणा एव विभवो विभूतिर्गुणविभवः, तेन वर्जिताना रहितानां, जीवानां पञ्चेन्द्रियप्राणिनाम्। उक्तं च - ''प्राणां द्वित्रिचतुःप्रोक्ताः, भूतानि तरवः स्मृताः। जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा इतीरिताः / / 1 / / " अपिशब्दस्य वक्ष्यमाणस्येह संबन्धादेवं भावना कार्याएकेन्द्रियविकलेन्द्रियाणां तावद्धर्मप्राप्ति स्ति, पञ्चेन्द्रियजीवानामपि तत्तदयोग्यताहेतुगुणसामग्रीविकलानां तथा तेन प्रकारेण धर्मरत्नं सुलभं न भवतीति प्रकृते संबन्ध इति। पूर्वसूचितपशुपालदृष्टान्तश्चायम्"बहुविबुधजनोपेतं, हरिरक्षितमप्सरःशतसमेज्ञम्। इह अस्थि हत्थिणउरं, पुरं पुरन्दरपुरं व वरं / / 1 / / तत्र श्रेष्ठिगरिष्ठः, पुन्नागो नागदेवनामाऽऽसीत्। निम्मलसीलगुणधरा, वसुंधरा रोहिणी तस्स / / 2 / / तत्तनयो विनयोज्ज्वल-मतिविभवभरो बभूव जयदेवः। दक्खो रयणपरिक्ख, सिक्खइ सो वारस समा उ / / 3 / / विजितान्यहासममलं, वित्रासं चिन्तितार्थदानपटुम। चिन्तामणि पमुत्तु, सेसमणी गणइ उवलसमे / / 4 / / चिन्तामणिरत्नकृते, सुकृती स कृतोद्यमः पुरे सकले। हट्ट हट्टण घरं, घरेण भमिओ अपरितंतो।।५।।