________________ धम्मप्पवाइ(ण) 2724 - अभिधानराजेन्द्रः - भाग 4 धम्मफल धम्मप्पवाइ(ण)-पुं०(धर्मप्रवादिन) धर्म प्रवदितु शीलं यस्य स धर्मप्रवादी। धर्मप्रावादुके, आचाराङ्गचतुर्थाध्ययनस्य द्वितीयोद्देशकार्थाधिकारमधिकृत्य-"विइए धम्मप्पवाइयपरिक्खा।" धर्म प्रवदितुशील येषां ते धर्मप्रवादिनः, त एव धर्मप्रवादिकाः, धर्मप्रावादुका इत्यर्थः / तेषां परीक्षा युक्तायुक्तविचारणम्। आचा०१ श्रु०४ अ०२३०॥ धम्मप्पसंसा-स्त्री०(धर्मप्रशंसा) दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः, तस्य प्रशंसाधर्मप्रशंसा। सकलपुरुषार्थानामेवधर्मः प्रधानमित्येवरूपे धर्मस्य स्तवे, तथाऽन्यैरप्युक्तम्- "रैदो धनार्थिनां धर्मः कामिना सर्वकामदः / धर्म एवापवर्गस्य, पारम्पर्येण साधकः" / / 1 / / दश०१ अ०। षो। धम्मप्पावाउय-पुं०(धर्मप्रावादुक) धर्मप्रवादिनि, आचा०१ श्रु० १४अ०१उ० धम्मप्पिय-त्रि०(धर्मप्रिय) धर्ममित्रे, आचा०२ श्रु०१ चू०४ अ०१ उ०। धम्मफल-न०(धर्मफल) धर्मस्य फलं धर्मफलम्, धर्मेण वा फलं धर्मफलम्। धर्मप्रयोजने, दश०१अ०॥ धर्मफलमाहजया जीवमजीवा य, दो वि एए वियाणइ। तया गइं बहुविहं, सव्वजीवाण जाणइ // 14 // यदा यस्मिन् काले, जीवानजीवाश्च द्वावप्येतौ विजानाति विविध जानाति, तदा तस्मिन् काले, गतिं नरकगत्यादिरूपा, बहुविधां स्वपरगतभेदेनानेकप्रकारा, सर्वजीवानां जानाति / यथा-ऽवस्थितजीवाजीवपरिज्ञानमन्तरेण गतिपरिज्ञानाभावात् // 14 // उत्तरोत्तरां फलवृद्धिमाहजया गई बहुविहं, सव्वजीवाण जाणइ। तया पुन्नं च पावं च, बंधं मोक्खं च जाणइ / / 15 / / यदि गतिं बहुविधा सर्वजीवानां जानाति, तदा पुण्यं च पाप च बहुविधगतिनिबन्धनं, तथा बन्धं जीवकर्मयोगदुःखलक्षणं, मोक्ष च | तद्वियोगसुखलक्षणं जानाति / / 15 / / जया पुन्नं च पावं च, बंधं मोक्खं च जाणइ। तया निव्यिंदए भोए, जे दिव्वे जे य माणुसे // 16|| जया निव्विंदए भोए, जे दिव्वे जे य माणुसे / तया चयइ संजोगं, सटिभंतरं च वाहिरं // 17 // यदा पुण्यं च पापं च बन्धं मोक्ष च जानाति, तदा निर्विन्ते मोहाभावात्सम्यग्विचारयत्यसारदुःखरूपतया भोगान् शब्दाऽऽदीन यान् दिव्यान् याँश्च मानुषान्, शेषास्तु वस्तुतो भोगा एव न भवन्ति / / 16 / / (जया इत्यादि) यदा निर्विन्ते भोगान् यान् दिव्यान् , याश्च मानु-पान्, तदा त्यजति संयोग संबन्धं द्रव्यतो भावतः साभ्यन्तरं बाह्यं क्रोधाऽऽदिहिरण्याऽऽदिसंबन्धमित्यर्थः / / 17 / / जया चयइ संजोगं, सभिंतरं च बाहिरं। तया मुंडे भवित्ता णं, पव्वइए अणगारियं / / 18|| यदा त्यजति संयोगसाभ्यन्तरं बाह्यम्, तदा मुण्डो भूत्वा द्रव्यतो भावतश्च / प्रव्रजति प्रकर्षेण व्रजत्यपवर्ग प्रत्यनमारं द्रव्यतो भावतश्वाविद्यमानागारमिति भावः / / 18 // जया मुंडे भविता णं, पव्वइए अणगारियं / तया संवरमुक्किट्ठ, धम्मं फासे अणुत्तरं / / 16 / / यदा मुण्डो भृत्वा प्रव्रजत्यनगारम् (तया संवरमुक्झिट्ट ति) प्राकृतशैल्या उत्कृष्ट संवरं धर्म सर्वप्राणातिपाताऽऽदिविनिवृत्तिरूपं, चारित्रधर्ममित्यर्थः / स्पृशत्यनुत्तरं सम्यगासेवत इत्यर्थः / / 16 / / जया संवरमुक्किट्ठ, धम्मं फासे अणुत्तरं / तया धूणइ कम्मरयं, अबोहिकलुसं कडं / / 20 / / यदोत्कृष्टसंवरं धर्म स्पृशत्यनुत्तरं तदाधुनाति–अनेकार्थत्वात्पातयति कमरजः कम्मवाऽऽत्मरञ्जनाद्रज इव रजः / किंविशिष्ट-मित्याहअबोधिकलुषं कृतम्-अबोधिकलुषेण मिथ्यादृष्टिनोपात्तमित्यर्थः / / 20 / / जया धूणइ कम्मरयं, अबोहिकलुसं कम। तया सव्वत्तगं नाणं, दंसणं चाभिगच्छ।।२१।। यदा धुनाति कर्मरजः अबोधिकलुषं कृतम्, तदा सर्वत्रगं ज्ञानमशेषज्ञेयविषयं, दर्शनं चाशेषदृश्यविषयम्, अधिगच्छत्यावरणाभावादाधिक्येन प्राप्नोतीत्यर्थः / / 21 / / जया सव्वत्तगं नाणं, दंसणं चाभिगच्छद। तया लोगमलोगं च, जिणो जाणइ केवली // 22 / / यदा सर्वत्रग ज्ञानं दर्शनं चाधिगच्छति, तदा लोकं चतुर्दशरज्ज्वात्मकमलोक चानन्तं जिनो जानाति केवली, लोकौ च सर्व, नान्यतरमेवेत्यर्थः / / 22 // जया लोगमलोगं च, जिणो जाणइ केवली। तया जोगे निरुभित्ता, सेलेसिंपडिवज्जइ / / 23 / / यदा लोकमलोकं च जिनो जानाति के वली, तदोचितसमयेन योगान्निरुध्य मनोयोगाऽऽदीन शैलेशी प्रतिपद्यते भवोपग्राहिकर्माशक्षयाय / / 23 / / जया जोगे निलंभित्ता सेलेसिं पडिवज्जइ। तया कम्मं खवित्ता णं, सिद्धिं गच्छइ नीरओ / / 2 / / यदा योगान्निरुध्य शैलेशी प्रतिपद्यते, तदा कर्मक्षपयित्वा भवोपग्राह्यपि सिद्धिंगच्छति लोकान्तक्षेत्ररूपां. नीरजाः सकलकर्मरजोविनिर्मुक्तः // 24 // जया कम्मं खवित्ता णं, सिद्धिं गच्छद नीरओ। तया लोगमत्थयत्थो, सिद्धो हवइ सासओ // 25 / / यदा कर्म क्षपयित्वा, सिद्धिं गच्छति नीरजाः, तदा लोकमस्तकस्थः त्रैलोक्योपरिवर्ती, सिद्धो भवति शाश्वतः कर्मबीजाभावादनुत्पत्तिधमेति भावः। उक्तो धर्मफलाऽऽख्यः षष्ठोऽधिकारः।।२५॥ __ साम्प्रतमिदं धर्मफलं यस्य दुर्लभं तमभिधित्सुराहसुहसायगस्स समण-स्स सायाउलस्स निगामसाइस्स। उच्छोलणापहाविस्स, दुलहा सुगइ तारिसगस्स।२६।। सुखाऽऽस्वादकस्याभिष्वङ्गेण प्राप्तसुखमोक्तुः, श्रमणस्य द्रव्यप्रव्र