________________ धम्मदेसणा 2722 - अभिधानराजेन्द्रः - भाग 4 धम्मधण एतदेवाऽऽहअष्टौ साधुभिरनिशं, मातर इव मातरः प्रवचनस्य। नियमेन न मोक्तव्याः,परमं कल्याणमिच्छद्भिः / / 8 / / अष्टौ साधुभिरनिशं प्रवचनस्य मातरो न मोक्तव्या इति संबन्धः / ताश्च मातर इव, पुत्रस्येति गम्यते / प्रवचनस्य प्रसूतिहेतुत्वेन, हितकारित्वेन च मातृत्वमवरोयम् / नियमेनावश्यंभावेन / कीदृशः साधुभिः? परम कल्याणमिच्छदिरेहलौकिकपारलौकिकपरमकल्याणकामैः / / 8 / / एतच समाख्येयमएतत्सचिवस्य सदा, साधोर्नियमान्न भवभयं भवति। भवति च हितमत्यन्तं, फलदं विधिनाऽऽगमग्रहणम्।।। एतत्सचिवस्य प्रवचनमातृसहितस्य, सदा सर्वकालं, साधोर्यतर्नियमान्नियमेन, न भवभयं भवति संसारभयं न जायते, निःश्रेयसविषयेच्छानिष्पत्तेः। भवति च संपद्यते च / प्रवचनमातृविधानसंपन्नस्य हित भाव्यपायपरिहारसारत्वेनात्यन्त प्रकर्षवृत्त्या फलद फलहेतुर्विधिना विनयबहुमानाऽऽदराऽऽदिना, आगमग्रहणं वाचनाऽऽदिरूपेणेति / / 6 / / आगभग्रहणस्य गुर्वधीनत्वात् तद्गतमप्युपदेष्टव्यमित्याहगुरुपारतन्त्र्यमेव च, तद्बहुमानात्सदाशयानुगतम्। परमगुरुप्राप्तेरिह, बीजं तस्माच मोक्ष इति / / 10 / / गुरुपारतन्त्र्यमेव च गुर्वायत्तत्वम्, तद्बहुमानाद्गुरुविषयाऽऽन्तरप्रीतिविशेषात् / (न तु दृष्टिमात्रज्ञानात्) सदाशयानुगतम्- सदाशयः संसारक्षयहेतुर्गुरुश्यं ममेत्येवंभूतः कुशलपरिणामः, तेनानुगत गुरुपारसन्यम् / परमगुरुप्राप्तेरिह सर्वज्ञप्राप्तीजम्, गुरुबहुमानाजन्मान्तरे तथाविधपुण्योपादानेन सर्वज्ञदर्शनसंभवाद्गुरुपारतन्त्र्यं सर्वज्ञप्राप्तिबीज भवति। तस्माचैवं विधाद्गुरुपारतन्त्र्यान्मोक्षः (इति हेतोगुरुपारतन्त्र्यं साधुनाऽवश्यं विधेयमिति) // 10 // पूर्वोक्त एव वस्तुनि सदृत्ताऽऽदौ क्रियासंबन्ध दर्शयतिइत्यादि साधुवृत्तं, मध्यमबुद्धेः सदा समाख्येयम् / आगमतत्त्वं तु परं, बुधस्य भावप्रधानं तु // 11 // मध्यमबुद्धेरेवमादि साधुवृत्तं प्रस्तुतम्, सदा समाख्येय प्रकाशनीयम्, आगमतत्त्वं तुपूर्वोक्तं परं केवलमेव, बुधस्य प्रानिरूपितरय, भावप्रधान तु परमार्थसारं समाख्येयमिति // 11 // कृतसबन्धमेव बुधोपदेशमाहवचनाऽऽराधनया खलु, धर्मस्तद्बाधया त्वधर्म इति। इदमत्र धर्मगुह्यं, सर्वस्वं चैतदेवास्य / / 12 / / वचनाऽऽराधनया आगमाऽऽराधनयेव, खलुशब्द एवकारार्थः / धर्मः श्रुतचारित्ररूपः, संपद्यते। तबाधया तु वचनबाधया त्वधर्म इति। इदमत्र विधिप्रतिषेधरूपं वचनमागमाऽऽख्यं धर्मगुह्य धर्मरहस्यम, सर्वस्वं वेतदेवाऽस्य धर्मस्य, एतद्द्वचनमेव सर्वस्वं सर्वसारो वर्त्तत इति / / 12 / अथ किमर्थ बुधस्यैवमुपदेशः क्रियते सकलानुष्ठाभोपसर्जनीमावाऽऽपादानद्वारेणेत्याशङ्कय तन्मूलत्व सकलानुष्ठानानामुपदर्शयन्नाहयस्मात्प्रवर्तकं भुवि, निवर्तकं चान्तराऽऽत्मनो वचनम्। धर्मश्चैतत्संस्थो, मौनीन्द्रं चैतदिह परमम् // 13 // यस्मात् प्रवर्तकं स्वाध्यायध्यानाऽऽदिषु विधेयेषु, भुवि भव्यलोके, निवर्तकं च हिंसाऽनृताऽऽदिभ्यः सकाशादन्तराऽऽत्मनो मनसो वचनमागमरूपं,धर्मश्चैतत्सस्थो वचनसंस्थो वचने सतिष्ठत इति कृत्वा मीनीन्द्र चैतद्वचनमिह प्रक्रमे परमं प्रधानम् / एतदुक्तम्- "सर्वज्ञोक्तेन शास्त्रेण, विदित्वा योऽत्र तत्त्वतः / न्यायतः क्रियते धर्मः, स धर्मः स च सिद्धये // 1 // " ||13|| किमेवं वचनमाहात्म्यं ख्याप्यत इत्याहअस्मिन् हृदयस्थे सति, हृदयस्थस्तत्त्वतो मुनीन्द्र इति। हृदयस्थिते च तस्मि-नियमात्सर्वार्थसंसिद्धिः / / 14 / / अस्मिन् प्रवचने आगमे,हृदयन्थे सति हृदयप्रतिष्ठिते सति. हृदयस्थश्चित्तस्थरतत्त्वतः परमार्थेन, मुनीन्द्रः सर्वज्ञ इति कृत्वा, हृदयस्थिते च तस्मिन् भगवति मुनीन्द्रे नियमान्नियमेन, सर्वार्थ संसिद्धिः सर्वार्थनिष्पत्तिः / / 14 // किमेवं सर्वप्रयोजनसिद्धिद्वारेण भगवान् संस्तूयत इत्याहचिन्तामणिः परोऽसौ, तेनैवं भवति समरसाऽऽपत्तिः। सैवेह योगिमाता, निर्वाणफलप्रदा प्रोक्ता॥१५।। चिन्ता रत्नं चिन्तामणिः, परः प्रकृष्टोऽसौ भगवान् सर्वज्ञस्तेन भगवतैवमागमबहुमानद्वारेण, भवति जायते, समरसाऽऽपत्तिः समताऽऽपत्तिः / आगमाभिहितसर्वज्ञस्वरूपोपयोगोपयुक्तस्य तदुपयोगाऽनन्यवृत्तेः परमार्थतः सर्वज्ञरूपत्वाद् बाह्याऽऽलम्बनाऽऽकारोपरक्तत्वेन मनसः समापत्तिानविशेषरूपा, तत्फलभूता वा समरसाऽऽपत्तिरित्यभिधीयते। यथोक्त योगशास्त्रे 'क्षीणवृत्तेरभिजात्यस्येव मणेाह्यग्रहीतग्रहणेषु तत्स्थतदनुगता समापत्तिः।" सैषेह प्रस्तुता समापत्तिरभिसंबध्यते योगिमाता योगिजननी, योगी चेह सम्यक्त्वाऽऽदिगुणः पुरुषः। यथोक्तम्-- "सम्यक्त्वज्ञानचारित्रयोगः सद्योग उच्यते / एतद्योगाद्वियोगी स्यात्परमब्रहासा-धकः / / 1 / / " सैव विशिष्यते-निर्वाण-फलप्रदा निर्वाणकार्यप्र-साधनी प्रोक्ता तद्वेदिभि-राचार्यै : / / 15 / / बालाऽऽदीना सद्धर्मदेशनाविधिरधिकृतः, तमेव निगम्यन्नाह-- इति यः कथयति धर्म , विज्ञायौचित्ययोगमनघमति:। जनयति स एनमतुलं, श्रोतृषु निर्वाणफलदमलम् / / 16 / / इति यः कथयति धर्ममेवमुक्तनीत्या यो गुरुर्धर्म कथयति, विज्ञाय ज्ञात्वा, औचित्ययोगमौचित्यव्यापार, तत्संबन्धं या, अनघमतिर्निर्दोष - बुद्धिर्जनयति स गुरुरेनं धर्ममतुलमनन्यसदृशं श्रोतृषु शुश्रूषाप्रवृत्तेषु, निर्वाणफलद मोक्षफलप्रदम्, अलमत्यर्थमिति / / 16 / / षो०२ विव०। श्रीवीरतीर्थङ्करे देशनां दत्त्वा देवच्छन्दान्तः प्राप्ते सति एकादशगणधरमध्याद् ज्येष्ठत्वाद्गौतम् एव धर्मदेशनां ददाति, पट्टधारित्वेन स्थापितत्वात् / सुधर्मस्वामी वा, अन्यो वा यः कश्चिद् गणधरो वेति? प्रश्ने, उत्तरम्-दीक्षया ज्येष्ठत्वात्सति गौतमस्वामिनि गौतमस्वाम्येव धर्मदेशनां विधत्ते, असति च तस्मिन्नन्योऽपि यो ज्येष्ठो भवति, स विधत्ते इति। 277 प्र०। सेन०३ उल्लाका धम्मदेसणाजोग्ग-त्रि०(धर्मदशनायोग्य) लोकोत्तरधर्मप्रज्ञापनाऽहे, "स धर्मदेशनायोग्यो, मध्यस्थत्वाजिनैर्मतः।" ध०१ अधिन धम्मधण-न०(धर्मधन) धर्माऽऽत्मके द्रव्ये, जीवा० 12 अधिक। ''दावेऊण धणणिहिं, ते सिं उप्पाडि आणि अच्छीणि / नाऊण