SearchBrowseAboutContactDonate
Page Preview
Page 1398
Loading...
Download File
Download File
Page Text
________________ धम्मदेसणा 2720 - अभिधानराजेन्द्रः - भाग 4 धम्मदेसणा करणमिति / " धर्मशास्त्रं प्रति श्रोतुमिच्छा शुश्रूषा, तल्लक्षणो भावः परिणामः, तस्य करणं निर्वर्त्तनं श्रोतुस्तैस्तैर्वचनैरि ति। शुश्रूषामनुत्पादा धर्मकथने प्रत्युतानर्थसंभवः। पठ्यते च- "स खलु पिशाचकी वातकी वा, यः परेऽनर्थिनि वाचमुदीरयति। "भूयो भूय उपदेश इति।' भूयो भूयः पुनः पुनरूपदिश्यत इत्युपदेशः उपदेष्टुभिष्टो वस्तुविषयः कथशिदनवगमे सति कार्यः। किं न क्रियते दृढसन्निपातरोगिणां पुनः पुनः क्रिया तिक्ताऽऽदिक्वाथपानोपचार इति। तथा-"बोधे प्रज्ञोपवर्णनमिति। "योध सकृदुपदेशेन भूयो भूय उपदेशेन वोपदिष्टवस्तुनः परिज्ञाने तस्य श्रोतुः प्रज्ञोपवर्णनं बुद्धिप्रशंसन, यथा-नाऽलघुकम्माणिः प्राणिन एवंविधसूक्ष्मार्थबोद्धारो भवन्तीति। तथा-"तन्त्रावतार इति।" तन्त्रे आगमेऽवतारः प्रवेश आगमबहुमानोत्पादनद्वारेण तस्य विधेयः। आगम-बहुमानअवमुत्पादनीयः"परलोकविधी शास्त्रात, प्रायो नान्यदपेक्षते। आसन्नभव्यो मतिमान्, श्रद्धाधनसमन्वितः / / 1 / / उपदेश विनाऽप्यर्थ-कामा प्रति पटुर्जनः। धर्मस्तु न विना शास्त्रा-दिति तत्राऽऽदरो हितः / / 2 / / अर्शाऽऽदावविधानेऽपि, तदभावः परं नृणाम्। धर्मेऽविधानतोऽनर्थः, क्रियोदाहरणात्परः / / 3 / / तस्मात्सदैव धर्मार्थी , शारत्रयत्नः प्रशस्यते। लोके मोहान्धकारेऽस्मिन्, शास्त्राऽऽलोकः प्रवर्तकः / / 4 / / ' (शास्त्रयत्न इति) शारचे यत्नो यस्येति समासः। "पापाऽऽमयोषधं शारत्रं, शास्त्रं पुण्यनिबन्धनम्। चक्षुः सर्वत्रगं शास्त्र, शास्त्र सर्वार्थसाधनम्॥५॥ न यस्य भक्तिरेतस्मि-स्तस्य धर्मक्रियाऽपि हि। अन्धप्रेक्षाक्रियातुल्या, कर्मदोषादसत्फला // 6 // यः श्राद्धो मन्यते मान्या-नहङ्कारविवर्जितः / गुणरागी महाभाग-स्तस्य धर्मक्रिया परा // 7 // यस्य त्वनादरः शास्त्रे, तस्य श्रद्धाऽऽदयो गुणाः। उन्मत्तगुणतुल्यत्वा-न्न प्रशंसाऽऽस्पदं सताम् / / 8 / / मलिनस्य यथाऽत्यन्तं, जल वस्त्रस्य शोधनम्। अन्तःकरणरत्नस्य, तथा शास्त्र विदुर्बुधाः / / 6 / / शास्त्रभक्तिर्जगद्वन्ध-मुक्तिदूती परोदिता। अत्रैवेयमतो न्याय्या, तत्प्राप्त्यासन्नभावतः॥१०॥" (अत्रैवेति) मुक्तावेव (इयमिति) शास्त्रभक्तिः, "तत् प्राप्त्यासन्नभावत इति'' मुक्तिप्राप्तिसमीपभावादिति। तथा- "प्रयोग आक्षेपण्या इति।'' प्रयोगो व्यापारणं धर्मकथाकाले आक्षिप्यन्ते आकृष्यन्ते मोहात्तत्वं प्रति भव्यप्राणिनोऽनयेति आक्षेपणी। (तस्याः कथायाश्चातुर्विध्यम् ‘अक्खेवणी' शब्दे प्रथमभागे 152 पृष्ठे गतम्) तथा-"ज्ञानाऽऽद्या-चारकथनमिति" ज्ञानस्य श्रुतलक्षणस्य, आचारो ज्ञानाऽऽचारः, आदिशब्दादर्शनाऽऽचारश्चारित्राऽऽचारस्तपआचारो वीर्याऽऽचारश्चेति / ततो ज्ञानाऽऽद्याचाराणा कथनं प्रज्ञापनमिति समासः / ध०१ अधिक। अनन्तरोक्तषट्- त्रिंशद्विधे ज्ञानदर्शनाऽऽद्याचारे यथाशक्ति प्रतिपत्तिलक्षणं पराक्रमण, प्रतिपत्तौ व यथावलं पालनेति। तथा-"निरीहशक्यपालनेति।" निरीहेणैहिकपारलौलिकफलेषु राज्यदेवत्वाऽऽदिलक्षणेषु व्यावृत्ताभिलाषेण शक्यस्य ज्ञानाऽऽचाराऽऽदेर्विहितमिदमिति बुद्ध्या पालना कार्या इति च कथ्यत इति। तथा-"अशक्प्रे भावप्रतिपत्तिरिति।" अशक्ये ज्ञानाऽऽचाराऽऽदिविशेष एव, कर्तुमपार्यमाणे कुतोऽपिधृतिसंहननकालबलाऽऽदिवेकल्यात् भावप्रतिपत्तिः। भावेनान्तः करणेन प्रतिपतिरनुबन्धः, न पुनस्तत्र प्रवृत्तिरपि, अकालौत्सुक्यस्य तत्त्वत आर्तध्यानत्वादिति। तथा--"पालनोपायोपदेश इति।" एतस्मिन् ज्ञानाऽऽद्याचारे प्रतिपन्ने सति पालनाय उपायस्याधिकगुणतुल्यगुणलोकमध्यसंबासलक्षणस्य निजगुणस्थानकोचितक्रियापरिपालनानुस्मारणस्वभावरय चोपदेशो दातव्य इति / तथा- 'फलग्ररूपणेति / " अस्याऽऽचारग्य सम्यक्परिपालितस्य सतः फलमिहेव तावदुपप्लवहासो भावैश्चर्यवृद्धिर्जनाप्रियत्व च, परत्रच सुगतिजन्मोत्तमस्थानलाभः परम्परया निर्वाणावाप्तिश्चति यत्कार्यं तस्य प्ररूपणा प्रज्ञापना विधेयेति / ध०१अधिo (देवर्द्धिवर्णन 'देवड्डिवण्णण' शब्देऽरिमन्नेव भागे 2617 पृष्ठ गतम्) (असदाचारगीं 'असदायार' शब्दे प्रथमभागे 840 पृष्ट प्रतिपादिता) (नारकदुः खोपवर्णनम् "णारयदुक्खोववण्णण' शब्देऽस्मिन्नेव भागे 2012 पृष्ट गतम्) (दुष्कुलजन्मप्रशस्ति, "दुक्कुलजम्मप्पसत्थि" शब्देऽस्मिन्नेव भागे 2548 पृष्ठे प्रोक्ता) (मोहनिन्दा 'मोहनिंदा' शब्दे प्रतिपादयिष्यामि) (धर्मबीजं च धम्मवीय' शब्देऽस्मिन्नेव भागऽनुपदमेव वक्ष्यामि) (संज्ञानप्रशंसनं 'सण्णाणप्पसंसण' शब्द प्रतिपादयिष्यते) "बीर्यद्धिवर्णनमिति / " वीर्यढ़ें : प्रकर्षरूपायाः शुद्धाऽऽचारबलभ्यायास्तीर्थकरपर्यवसानाया वर्णनमेति / यथा- 'मेरु दण्ड धरां छत्रं, यत्केचित्वर्तुमीशते। तत्सदाचारकल्पद्रुफलमाहुमहर्षयः / / 1 / " तथापरिणले गम्भीरायाः पूर्वदेशनापेक्षयाऽत्यन्तसुक्ष्माया आत्मास्तित्वतद्वन्धमोक्षाऽऽदिकाया देशनायायोगो व्यापारः कार्यः / इदमुनं भवतियः पूर्व साधारणगुणप्रशंसाऽऽदिरनेकधोपदेशः प्रोक्त आस्ते, स यदा तदाचारककर्महासातिशयादङ्गाङ्गिभावलक्षणं परिणाममुपागतो भवति तदा जीपणे भोजनमिव गम्भीरदेशनायामसौ देशनाहोऽवतार्यत इति / ध०१अधि। इत्थं देशनाविधिं प्रपञ्च्योपसंहरन्नाह- "एवं संवेगकृद्धर्म, आख्ययो मुनिना परः। यथाबोधं हि शुश्रूषोर्भावितेन महात्मना // 1 // " इति व्याख्यातप्रायम्। आह-धम्मख्यिापनेऽपि यदा तथाविधकर्मदोषान्नावबोधः श्रोतुरुत्पद्यते, तदा किंफलं धर्माऽऽरख्यानमित्याह- "अबोधेऽपि फलं प्रोक्तं, श्रोतृणां मुनिसत्तमैः / कथकस्य विधानेन, नियमाच्छुद्धचेतसः // 1 // " इति सुगमम् आह-प्रकारान्तरेणापि देशनाफलस्य संभाव्यमानत्वादलमिहैव यत्नेनेत्याशङ्कयाह''नोपकारो जगत्यस्मि-स्तादृशो विद्यते वचित्। यादृशी दुःखविच्छेदा-हिनी धर्मदेशना // 1 // " इति। (न) नैवीपकारोऽनुग्रहो, जगति भुवने, अस्मिन्नुपलभ्यमाने. तादृशो विद्यते समस्ति, कृचित्काले क्षेत्रे वा, यादृशी यादृगृपा, दुःखविच्छेदात् शारीरमानसदुःखपनयनात, देहिना देशनार्हाणां, (धर्मादेशनेति) धर्मदेशनाजनितो मार्गश्रद्धानाऽऽदिर्गुणः तस्य निःशेषक्लेशलेशाकलइमोक्षाऽऽक्षेपं प्रत्यबन्ध्यकारणत्वात् / इति निरूपितो धर्मबिन्दी सद्धर्मदेशनाप्रदानविधिः।ध०१ अधि०। सङ्घाण बालाऽऽदीनां सद्धर्मपरीक्षाकाणां सप्रपञ्च लक्षणमभिधाय तद्तदेशनाविधिमाहबालाऽऽदिभावमेवं, सम्यग विज्ञाय देहिनां गुरुणा।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy