________________ धम्मत्थिकाय 2716 - अभिधानराजेन्द्रः - भाग 4 धम्मदेसणा कायस्याभिवचनानीति / भ०२० श०२ उ०। (अस्तिकायानामस्निकायत्वम् 'अस्थिकाय' शब्दे प्रथमभागे 516 पृष्ठे गतम्) धम्मत्थिकायदेस-पुं०(धर्मास्तिकायदेश) धर्मास्तिकायस्य बुद्धिकल्पितो व्यादिप्रदेशाऽऽत्मको विभागो धर्मास्तिकायदेशः। अजीवद्रव्यभेदे, प्रज्ञा०१ पद। दर्शा जी०।। धम्मत्थिकायप्पएस-पुं०(धर्मास्तिकायप्रदेश) धर्मास्तिकायस्य प्रकृष्टो देशःप्रदेशः, निर्विभागो निरंशो भागोधर्मास्तिकायप्रदेशः। प्रज्ञा०१ पद / अजीवद्रव्यभेदे, दर्श०५ तत्त्व / जी०। "अटु धम्मत्थिकायमज्झप्पएसा पण्णता।" स्था०८ ठा०। धम्मद-पुं०(धर्मद) धर्म चारित्ररूपं ददातीति धर्मदः / जी०३ प्रतिक्षा चारित्रधर्मदायके तीर्थकरे, कल्प०१ अधि०१क्षण। धम्मदत्त-पुं०(धर्मदत्त) स्वनामख्याते कल्किराजसुते. कल्प०१ अधि०६ क्षण / ती०। "कल्किपुत्रो धर्मदत्तो, भावी स परमाऽऽर्हतः। दिने दिने जनबिम्ब, प्रतिष्ठाप्यावभोक्ष्यते।।१॥" ती०१ कल्प। धम्मदय-पुं०(धर्मदय) धर्म श्रुतचारित्राऽऽत्मक दुर्गतिप्रपतञ्जन्तु धारणरवभावं दयते ददातीति धर्मदयः। स०१ सम०। चारित्रधर्मदायके तीर्थकरे, भ०१श०१3०। धम्मदाण-न०(धर्मदान) धर्मकारणं दान, धर्म एव वा दानम्। 'समतृण मणिमुक्ताभ्यो, यद्दानं दीयते सुपात्रेभ्यः। अक्षयमतुलमनन्तं, तद्यानं भवति धर्माय / / 1 / / " इत्युक्तलक्षणे दानभेदे, स्था०१० ठा०॥ धम्मदार-न०(धर्मद्वार) धर्मस्य चारित्रलक्षणस्य द्वारमिव द्वारं धर्मद्वारम्।। क्षान्त्यादिक धर्मोपाये, "चत्तारि धम्मदारा पण्णत्ता / तं जहा-खंती, | मुत्ती, अजवे, मद्दये।''धर्मस्य चारित्रलक्षणस्य द्वाराणीव द्वाराण्युपायाः क्षान्त्यादीनि धर्मद्वाराणि / स्था०४ ठा०४उ०। धम्मदासगणि-पुं०(धर्मदासगणि) स्वनामख्याते आचार्ये, दर्श०४ तत्व / ध। अनेन भगवता उपदेशमाला नाम ग्रन्थो रचितः। अयमाचार्यो वीरप्रभोरपि पूर्वबभूवेति प्रसिद्धिः / जै०इ०ा तथा चाहुः- "प्रतिहतसकलव्यामोहतमित्रा धर्मदासगणिमिश्राः।" ०२०तथा चाऽऽहभगवान् धर्मदासगणिः / दर्श०४ तत्त्व। धम्मदिवस-पुं०(धर्मदिवस) चतुर्दश्यष्टमाऽऽदिके धर्मदिने, सूत्र०२ श्रु०७ अ० धम्मदुम-पुं०(धर्मद्रुम) धर्मवृक्षे, संथा। धम्मदूअ-पुं०(धर्मदूत) वृद्धावस्थासूचके पलिताऽऽदिके, तस्या धर्मकरणयोग्यावस्थोपदेशकत्वात्तथात्यम्। आव०४ अ०| धम्मदेव-पुं०(धर्मदेव) धर्मेण श्रुताऽऽदिना देवो धर्मप्रधानो वा देवो धर्मदेवः / भ०१२श०६ उ०। चारित्रवद्रूपे देवभेदे, स्था०५ टा०१उ०। धम्मदेसग-पुं०(धर्मदेशक) धर्म श्रुतचारित्राऽऽत्मकं देशयतीति धर्मदशकः। भ०१श०१उ०। धर्मोपदेशदायके, कल्प०१ अधि०१क्षण / ला धारा धम्मदेसणा-स्त्री०(धर्मदेशना) कुशलानुष्ठानप्ररूपणायाम्, हा० 31 अष्ट। तत्प्रदानविधिमाह सा च संवेगकृत् कार्या, शुश्रूषोर्मुनिना परा। बालाऽऽदिभावं संज्ञाय, यथाबोधं महात्मना।।१६।। सा च देशना संवेगकृरसंवेगकारिणी, संवेगलक्षणं चेदम- 'तथ्ये धर्मे ध्वस्तहिंसाप्रबन्धे, देवे रागद्वेषमोहाऽऽदिमुक्ते / साधौ सर्वग्रन्थसंदर्भहीने, संवेगोऽसौ निश्चलो योऽनुरागः / / 1 / / ' मुनिना गीतार्थेन साधुना, अन्यस्य धर्मोपदेशेऽनधिकारित्वात्। यथोक्त निशीथे'ससारदुक्खमहणो, विबोहणो भवियपुंडरीयाणं। धम्मो जिणपण्णत्तो, पकप्पजइणा कहेअव्यो " | // 1 // इति। (प्रकल्पयतिनेति) अधीतनिशीथाध्ययनेन। (परा) शेषतीर्थान्तरीयधर्मातिशायितया प्रकृष्टा कार्या प्रज्ञापनीया। कीदृशस्य पुरतः सा कार्येत्याह-शुश्रूषोः श्रोतुमुपस्थितस्य, मुनिना च किं ज्ञानपूर्वमाख्येयेत्याह- (बालाऽऽदिभावमित्यादि) बालाऽऽदीनां त्रयाणां धर्मपरीक्षकाणाम्, आदिपदेन मध्यबुद्धिबुधयोहणात्, भावं परिणामविशेष स्वरूपं वा संज्ञाय सम्यगवैपरीत्येन ज्ञात्वाऽवबुझ्य। ध०१ अधि०। (बालाऽऽदीनां धर्मपरीक्षकाणां स्वरूप 'धम्म' शब्दे धर्मपरीक्षाऽवसरे 2674 पृष्ठे गतम्) कथं सा कार्येत्याह- (यथाबोधमिति) बोधानतिक्रमे ण, अनवबोधे धर्माऽऽख्यानस्योन्मार्गदशनारूपत्वेन प्रत्युतानर्थसंभवात्। नोमान्धः समाकृष्यमाणः सम्यगध्वानं प्रतिपद्यत इति। मुनिना कीदृशेन? महात्मनातदनुग्रहकपरायणतया महान् आत्मा यस्य स तेन इति संक्षेपतो धर्मदेशनाप्रधानविधिः, विस्तरतस्तु धर्मबिन्दौ (२प्रक०) उक्तः। स चायम्- ''इदानीं तद्विधिमनुवर्णयिष्याम इति / " इदानीं संप्रति तद्विधि सद्धर्मदेशनाक्रमं वर्णयिष्यामो निरूपयिष्यामो वयमिति / तद्यथा- "तत्प्रकृतिदेवताधिमुक्तिज्ञानमिति / " तस्य सद्धर्मदेशनार्हस्य जन्तोः प्रकृति : स्वरूपं गुणवत् सङ्गलोकप्रियत्वाऽऽदिका, देवताधिमुक्तिश्च बुद्धकपिलाऽऽदिदेवताविशेषभक्तिः, तयोर्ज्ञानं प्रथमतो देशकेन कार्यम् / ज्ञातप्रकृतिको हि पुमान् रक्तो द्विष्टो मूढः पूर्वं व्युद्ग्राहितश्च चेन्न भवति, तदा कुशलैस्तथा तथाऽनुवर्त्य लोकोत्तरगुणपात्रतामानीयते / विदितदेवताविशेषाधिमुक्तिश्च तत्तद्देवताप्रणीतमार्गानुसारिवचनोपदर्शनेन दूषणेन च सुखमेव मार्गेऽवतारयितुं शक्य इति / तथा-“साधारणगुणप्रशंसेति।" साधारणानां लोकलोकोत्तरयोः सामान्यानां गुणानां प्रशंसा पुरस्कारो देशनाऽर्हस्याग्रतो विधेया। यथा"प्रदानं प्रच्छन्नं गृहमुपगते संभ्रमविधिः, प्रियं कृत्वा मौनं सदसि कथन चाप्युपकृतेः / अनुत्रोको लक्ष्भ्यां निरभिभवसाराः परकथाः, श्रुते चासन्तोषः कथमनभिजाते निवसति? ||1 // " तथा- "सम्यक् तदधिकाऽऽख्यानमिति।'' सम्यगविपरीतरूपतया तेभ्यः साधारणगुणेभ्योऽधिका विशेषवन्तो ये गुणाः तेषामाख्यानं कथनम् / यथा"पञ्चैतानि पवित्राणि, सर्वेषां धर्मचारिणाम्। अहिंसा सत्यमस्तेय, त्यागो मैथुनवर्जनम् / / 1 / / '' इति / तथा- "अबोधेऽप्यनिन्देति / " अबोधेऽप्यनवगमेऽपि सामान्यगुणानां, विशेषगुणानां वा व्याख्यातानामपि अनिन्दा अहो मन्दबुद्धिर्भवान्य इत्थमाचक्षाणेष्वप्यस्मासुन बुध्यते वस्तुलत्त्वमित्येवं श्रोतुस्तिरस्कारपरिहाररूपा, निन्दितो हि श्रोता किश्चिद् बुभुत्सुरपि सन्दूर विरज्यत इति। तर्हि किं कर्त्तव्यमित्याह- "शुश्रूषाभाव