________________ धम्मत्थकाम 2718 - अभिधानराजेन्द्रः - भाग 4 धम्मत्थिकाय तं कामयन्ते इच्छन्ति विशुद्धवेदानुष्ठानकरणेनेति धर्मार्थकामाः। मुमुक्षुषु, दश०६अग धम्मत्थिकाय-पुं०(धर्मास्तिकाय) जीवानां पुद्गलानां व स्वभावत एव गतिपरिणामपरिणतानां तत्स्वभावधारणात् तत् स्वभावपोषणाद्धर्मः, अस्तयश्वेह प्रदेशः, तेषां कायः सङ्घातः, "गणकाए य निकाए, खंधे वग्गे तहेव रासी य / " इति वचनात् / अस्तिकायः प्रदेशसङ्घात इत्यर्थः, धर्मश्चासो अस्तिकायश्च धर्मास्तिकायः। प्रज्ञा०१ पद / जी०। कर्म०। अनु०। "जीवानां पुदलानां च गत्युपग्रहकारणम् / धर्मास्तिकायो ज्ञानस्य, दीपश्चक्षुष्मतो यथा॥१॥' इत्युक्तलक्षणे, आव०४ अ०। दर्शo! श्रा०। सकललोकव्याप्यसंख्येयप्रदेशाऽऽत्मकामूर्तः। अजीवद्रव्यविशेष, अनु०। दर्श०। (धर्मास्तिकायस्यास्तित्वम् 'अस्थिकाय' शब्दे प्रथमभागे 516 पृष्ठे गतम्) अथ धर्मास्तिकायस्य लक्षणमाहपरिणामी गतेधर्मो, भवेत्पुद्रलजीवयोः। अपेक्षाकारणाल्लोके, मीनस्येव जलं सदा॥४|| गतेर्गमनस्य, परिणामी अर्थाद्गतिपरिणामी, पुद्गलजीवयोधर्मो धर्मास्तिकायो, भवेत् / कस्माल्लोके चतुर्दशरज्ज्वात्मकाऽऽका - शखण्डे, अपेक्षाकारणात् परिणामव्यापाररहितादधिकरणरूपीदासीन्यहेतोश्च। तत्र दृष्टान्तमाह- ''मीनस्येव जल सदेति!' सदा निरन्तरं, जलं यथा भीनस्य मत्स्यरय गतिपरिणामि अस्ति, अपेक्षाकारणातगमनाऽऽगमनाऽऽदिक्रियापरिणतस्य मत्स्यस्य जलमपेक्षाकारणमस्ति, तथैव धर्मद्रव्यमपि शेयम्। निष्कर्षस्त्वयम्-स्थले झषक्रिया व्याकुलतया चेष्टाहेत्विच्छाभावादेव न भवति, न तु जलाभावादिति गत्यपेक्षाकारणे मानाभाव इति चेत? न / अन्वयव्यतिरेकाभ्यां लोकसिद्धव्यवहारादेव तद्धेतुत्वसिद्धेरन्यथाऽन्यकारणेनेतराखिलकारणासिद्धिप्रसङ्गा-दिति दिक // 4 // द्रव्या०१० अ० धम्मत्थिकारणं भंते ! जीवाणं किं पवत्तइ? गोयमा ! धम्मस्थिकाएणं जीवाणं आगमणगमणभासुम्मेसमणजोगवइजोगकायजोगा जे यावण्णे तहप्पगारा चलसभावा सव्वे ते धम्मत्थिकाए पवत्तंति, गतिलक्खणेणं धम्मत्थिकाए। (आगमणगमणेत्यादि) आगमनगमने प्रतीते, भाषा व्यक्तवचनम्, 'भाष' व्यक्तायां वाचीति वचनात् / उन्मेषोऽक्षिव्यापारविशेषः, मनोयोगवाग्योगकाययोगाः प्रतीता एव / एतेषां च द्वन्द्वः। ततस्ते इह च मनोयोगाऽऽदयः सामान्यरूपाः, आगमनाऽऽदयस्तु तद्विशेषा इति भेदेनोपात्ताः। भवति च सामान्यग्रहणेऽपि विशेषग्रहणं तत्स्वरूपोपदर्शनार्थमिति / (जे यावण्णे तहप्पगारे त्ति) ये चाप्यन्ये आगमनाऽऽ- | दिभ्योऽपरे तथाप्रकारा आगमनाऽऽदिसदृशा भ्रमणवलनाऽऽदयः / (चलसभाव ति) चलस्वभावाः पर्यायाः, सर्वे ते धर्मास्तिकाये सति प्रवर्त्तन्ते। कुतः? इत्याह- "गतिलक्खणेणं धम्मत्थिकाय त्ति।" भ० 13 श०४ उठा तथा च-"एगे धम्मे।'' एकः प्रदेशार्थतया संख्यातप्रदेशाऽऽत्मकत्वेऽपि द्रव्यार्थतया तस्यै-कत्वात् जीवपुद्गलानां स्वाभाविक क्रियावत्त्वे सति परिणतानां तत्स्वभावधारणाद्धर्मः। स वास्तीनां प्रदेशानां सहऽऽत्मकत्वात् कायोऽस्तिकाय इति / स्था० 1 टा०। न | यतो धर्मास्तिकायविचार:-कोऽसौ धर्मो धर्मास्तिकायः। आह-सिद्धे सति वस्तुनोऽस्तित्वे इदमनेन लक्ष्यते इति वक्तुं युक्तम्, अस्य तु सत्त्वमेवासिद्धम् / अत्रोच्यते-यद्यशुद्धपदवाच्यंतत्तदस्ति। यथा स्तम्भाऽऽदिशुद्धपदवाच्यभावात् प्रमाणान्तरबाधितविषयत्वाख्यादोषरहितत्वेन, न च सिद्धत्वात्, नच खपुष्पाऽऽदिषु संकेतितैः स्वादिशुद्धपदैरनेकान्तो वृद्धपरम्पराऽऽयातसं के तविषयाणामेव शुद्धपदानां वाच्यत्वस्येह हेतुत्वे नेष्टत्वानिपुणेन प्रतिपन्ना भाव्यम्, अन्यथा धूमाऽऽदेरपि गोपालघटिकाऽऽदिष्वन्यथाभावदर्शनादेष प्रसङ्गो दुर्निवारः स्यात्। उक्तं च-"अस्थिति नियविगप्पो,जीवो नियमाउसहतो सिद्धी। कम्मा सुद्धपयता,घडखरसिंगाणुमाणाओ।।१।।" इत्याद्यलं प्रसङ्गेन। उत्त० पाई 28 अ०। (धर्मास्तिकायस्य वर्णाऽऽदिद्रव्याऽऽदिभेदतः स्वरूपं च 'अत्थिकाय' शब्दे प्रथमभागे 516 पृष्ठे गतम्) धर्मास्तिकायविषये हीरप्रश्ने नगर्षिगणिकृतप्रश्नो यथा सम्पूर्णो धर्मास्तिकायो द्रव्यमुच्यते, स्कन्धो वेति? अत्रोत्तरम्-सम्पूर्णो धर्मास्तिकायो द्रव्यमुच्यते, कुत्रचित् स्कन्धोऽप्युपचारात्, नात्र किमपि बाधकं ज्ञायते। ही०३ प्रकाश सकलमेवधर्मास्तिकायरूपमवयविद्रव्यमाहअवयवी नाम अवयवानां तथारूपसंघातपरिणामविशेष एव, न पुनरवयवद्रव्येभ्यः पृथगर्थान्तरं द्रव्यं, तथाऽनुपलम्भात। तन्तव एव हि आतानवितानरूपं संघातपरिणामविशेषमापन्ना लोके पटव्यपदेशभाज उपलभ्यन्ते, न तदतिरिक्तं पटाऽऽख्य नाम / उक्तं चान्यैरपि"तन्त्वादिव्यतिरेकेण, नपटाऽऽद्युपलम्भनम्।तन्त्वादयो विशिष्टा हि, पटाऽऽदिव्यपदेशिनः।।१।।'' प्रज्ञा० १पद। धर्मास्तिकायस्यैकार्थिकान्याहधम्मत्थिकायस्स णं भंते ! केवइया अभिवयणा पण्णता? गोयमा ! अणेगा अभिवयणा पण्णत्ता / तं जहा-धम्मे त्ति वा, धम्मत्थिकाएइ वा, पाणाइवायवेरमणे ति वा, मुसावायवेरमणेति वा, एवं०जाव परिग्गहवेरमणे कोहविवेगेति वा०जाव मिच्छादंसणसल्लविवेगेति वा , इरियासमिए ति वा, भासासमिए ति वा, एसणासमिए ति वा, आदाणभंडमत्तनिक्खेवणासमिए ति वा, उच्चारपासवणखेलजल्लसिंधाणपारिट्ठावणियासमिई ति दा, मणगुत्ती ति वा, वइगुत्ती तिवा, कायगुत्ती त्ति वा, जे यावण्णे तहप्पगारा, सव्वे ते धम्मत्थिकायस्स अभिवयणा। (अभिवयण त्ति) अभि इत्यभिधायकानि वचनानि शब्दा अभिवचनानि, पर्यायशब्दा इत्यर्थः। (धम्मेइ व त्ति) जीवपुद्गलानां गतिपर्याये धारणाद्धर्मः, इती रूपप्रदर्शने, वा विकल्प। (धम्मस्थिकाए व त्ति) धर्मश्वासावस्तिकायश्व प्रदेशराशिरिति धर्मास्तिकायः। (पाणाइवायवेरमणे इ वा इत्यादि) इह धर्मश्चारित्रलक्षणः, स च प्राणातिपातविरमणाऽऽदिरूपः, ततश्च धर्मशब्दसाधम्यादस्तिकायरूपस्यापि धर्मस्य प्राणातिपातविरमणाऽऽदयः पर्यायतया प्रवर्तन्त इति। (जे यावण्णेत्यादि) ये चान्ये ऽपि तथा-प्रकारावारित्रधर्माभिधायकाः सामान्यतो विशेषतो वा शब्दाः। ते सर्वेऽपि धर्मास्ति