________________ जिण 1461 - अभिधानराजेन्द्रः - भाग 4 जिण दिपरिणतिविशेषे तदवस्थेऽपि च देहे यस्येह जन्मनि परत्रा वा यस्मिन् दोषोऽभ्यासः स तस्य प्राचुर्येण प्रवर्तते / शेषस्तु मन्दतया, ततोऽभ्याससंपाद्यकर्मोपचयहेतुका एव रागादयः, न कफादिहेतुकाः, इति प्रतिपत्तव्यम्। अन्यच्च-यदि कफहेतुको रागः स्यात्ततः कफवृद्धौ रागवृद्धिर्भवत्, पित्तप्रकर्षे तापप्रकर्षवत्। न च भवति, तदुत्कर्षोत्थपीडाबाधिततया द्वेषस्यैव दर्शनात्। अथ पक्षान्तरं गृहीथाः, यदुत न ककहेतुको रागः किं तु क कादिदोषसाम्यहेतुकः। तथाहिकफादिदोषसाम्ये विरूद्धव्याध्यभावतो रागोद्भवो दृश्यते इति। तदपिन समाचीन व्यभिचारदर्शनात्, न हि यावत्कफादिदोप सापसाम्यं तावत्सर्वदैव रागोद्भवोऽनुभूयते, दूंषाद्युद्भवस्यानुभवात्। न च यद्भावेऽपि यन्न भवति तत्तद्धतुकं स चेतसा वक्तुं शक्यम्। अपि य-एवमभ्युपगमे ये विषमदोषाः ते रागिणो न प्राप्नुवन्ति। अथ च-तेऽपि रागिणो दृश्यन्ते। स्यादेतत् अलं वैस्तर्यात्। तत्वं निर्वच्मिशुक्रोपचयहेतुको रागो नान्यहेतुक इति तदपि न युक्तमेवं ह्यत्यन्तस्त्री सेवापरतया शुक्रक्षयतः क्षरत्क्षतजानां रागिता न स्यात्। अथवैतेऽपि तस्यामवस्यायां निकामं रागिणो दृश्यन्ते। किं च-यदि शुक्रस्य रागहेतुता, तर्हि तस्य सर्वस्त्राषु साधारणत्वात्। नैकस्त्रीनियतो रागः कस्यापि भवेत्, दृश्यते च कस्याप्येकस्वीनियतो रामः। अथोच्येत-रूपस्यापि कारणगत्वाद्रपातिशयलब्धः तत्यामेव रूपवत्यामभिरजयते। न योषिदन्तरे। सूक्तं च - "रूपातिशयपाशेन, विवशीकृतमानसाः। स्वां योषितं परित्यज्य, रमन्ते योषिदन्तरे।।१।।" तदपि न मनोरमम्। रूपरहितायामपि क्षापि रागदर्शनात्। अथ तत्रोपचारविशेषः समीचीनो भविष्यति, तेन तत्राभिरज्यते उपचारोऽपि चरागहेतुर्नरूपमेव केवलम्। तेनायमदोष इति। तदपि व्यभिचारि द्वयेनापि विमुक्तायां क्वचिद्रागदर्शनात् तस्मादभ्यासजनितो पचयपरिपाकं कर्मव विचिास्वभावतया तदा तदा तत्तकारणापेक्षं तत्र तत्रा रागादिहेतुरिति। कर्महेतुका रागादयः। एतेन यदपि कश्चिदाह - पृथिव्यादिभूतानां धर्मा एते रागादयः। तथाहि-पृथिव्यम्बुभूपस्त्वे रागः, तेजोवायुभूयस्त्वे द्वेषो, जलवायुभूयत्वे मोह इति। तदपि निराकृतमवसेयम्, व्यभिचारात्। तथाहि-यस्यामे वावस्थायां द्वेषो मोहोऽपि दृश्यते तत एतदपि यात्किंचित्। तस्मात्कर्महतुका रागादयः। ततः कर्म निवृत्ती निवर्तन्ते। प्रयोगश्चात्र ये सहकारिसंपाद्या यदुपधातादपकर्षिणाः ते तदत्यन्तवृद्धौ निरन्वयविनाशधर्माणः यथा रोमहर्षादयो वन्हिवृद्धौ भावनोपधानादपकर्षिणश्चा सहकारिकर्मसंपाद्या रागादय इति। अत्र सहकारितासंपाद्या इति विशेषणं सहभूतस्वभावबोधादिव्यवच्छेदार्थम्। यदपि प्रागुपन्यस्तं प्रमाण यदनादिमत् न तद्विनाशमाविशति / यथाकाशमिति। तदम्यप्रमाणम्। हेतोरनैकान्तिकत्वात्। प्रागभावेन व्यभिचारात्। तथाहि-प्रागभावोऽनादिमानपि विनाश माविशता अन्यथा कार्यानुत्पत्तो भावनाधिकारी च सम्यग्दर्शनादि रत्नत्रयसम्पत्समन्दितो वंदितव्यः इतरस्य तदनुरूपानुष्ठानप्रवृत्यभावेन तस्य नित्यारूपत्वात्। आह च"नाणी तवम्मि निरओ, चारित्ती भावणाइजोगो त्ति'' सा च रागादिदोषनिदानस्वरूप विषफलगोचरा यथागममेवमवसेया। "ज कुच्छ्यिाणुयोगो, पयइविसुद्धस्स होइ जीवस्सा एएसि भो! नियाण, वुहाण न य सुंदर एयं / / 1 / / रूव पि सकिलेसो-ऽभिस्संगा पीइमाइलिंगो स। परमसुहपचणीओ, एअंपि असोहणं चेव।।२।। विसओ य भंगुरो खलु, गुणरहिओ तह तहा रूवो। संपत्तिनिप्फलो के --वले तु मूलं अणत्थाणं / / 3 / / जम्मजरामरणाई-विचित्तरूवो फलं तु संसारो। बहुजणनिव्वेयकरो, एसो वि तहा विहो चेव।।४।। अपि च-सुत्रानुसारेण ज्ञानादिषु यो नैरन्तर्येणाभ्यासस्त द्रूपाऽपि भावना वेदितव्या। तस्या अपि रागादिप्रतिपक्षत्वात्। न हि तत्त्ववृत्या सम्यग्ज्ञानाद्यभ्यासे व्याप्तमनस्कस्य स्त्री शरीररामणीयकादि-विषये चेतः प्रवृत्तिमातनोति। तथानुपलम्भात्। नं०। ते च जिनाः त्रिविधाः तथा च - "तओ जिणा पण्णत्ता। तं जहा-ओहिनाणाजिणे, मणपज्जवनाणजिणे, केवलनाणजिणे' "तओ जिणे इत्यादि। सुगमा, नवरं रागद्वेषमोहान जयन्तीति जिनाः सर्वज्ञाः। उक्तं च - "रागद्वेषस्तथा मोहो, जितो येन जिनो ह्यसौ। अस्त्रीशस्त्राक्षमालत्वादर्हन्नवानुमीयते / / 1 / / '' इति। तथा जिना इव ये वर्तन्ते निश्चयप्रत्यक्षज्ञानतयातेऽपि जिनाः, तत्रावाधि-प्रधानो जिनोऽवधिज्ञानजिन एवमितरावपि, नवरमाद्यावुपचरिता-वितरो निरूपचार उपचारकारणं तु प्रत्यक्ष ज्ञानित्वमिति। स्था० 3 टा० 4 उ० "वंदामि जिणवरिंद'' जयन्ति रागादिशशुनभि-भवन्ति जिनाः। ते चतुर्विधाः। तद्यया-श्रुतजिनाः। अथचिजिनाः मनः पर्यायजिनाः। केवलिजिनाः। प्रज्ञा०१ पद। जिननिक्षेपश्चतुर्था''चउह जिणा नामठाव-दव्वभावजिणभेएहिं / / 31 // नामजिणा जिणनामा, ठवणजिणा पुण जिणिंदपडिमाओ। दव्यजिणा जिणजीवा, भावजिणा समवसरणत्था 32 "ध००। जिनाश्चतुर्था-नामजिनाः, स्थापनाजिनाः द्रव्यजिनाः, भावजिनाश्चेति। तत्रा जिनाना तीर्थकृतां नामानि ऋषभाजित संभवादीनि। नाम जिनाः। तथा अष्टमहाप्रातिहार्या दिसमृद्धिं साक्षादनुभवन्तः। केवलिनः समुत्पन्नकेवलज्ञानाः शिवगताश्च परमपदं प्राप्ताः। भावतः सद्भावतो जिनाः, भावजिनाः। गाथानुलोभ्याच अनानूपूर्या भावजिनाः व्याख्याताः स्थापनाजिनाः प्रतिमाः काञ्चनमुक्ताशैलमरकतादिभिनिर्मिताः, द्रव्यजिना ये जिनत्वेन भाविनो भविष्यन्ति जीवाः श्रेणिकादय इति। प्रव० 42 द्वार। जिनानां सर्वथास्तित्वम्अभू जिणा अस्थि जिणा, अदुवा वि भविस्सइ। मुसं ते एवमाहंसु, इइ भिक्खू न चिंतए / / 45|| अभूवन भासन जिंना रागादिजेतारः अस्ति' इति विभक्तिप्रतिरूपको निपातः। ततश्च विद्यन्ते जिनाः अस्य कर्मप्रवादपूर्वसप्तदशप्राभृतोद्धततया वस्तुतः सुधर्मस्वाभिनैव जम्बूस्वामिन प्रति प्रणीतत्वात् तत्काले च जिनसंभवादित्यमुक्तं विदेडादिक्षेत्रान्तराप्रेक्षया वा इति भावनीयम्। (अदुवेत्ति) अथवा-अपिभिन्नकमः (भविस्सइ त्ति) वचनव्यत्ययादविष्यन्ति जिना इत्यपि मृषा अली कं ते जिना अस्तित्ववादिन एवमनन्तरोक्त-न्यायेन (आहंसुत्ति) आहुः ध्रुवत इति भिक्षुर्न चिन्तयेत। जिनस्य सर्वज्ञाधिक्षेप प्रतिक्षेपादिषु प्रमाणोपपन्नतया प्रतिपादनात्तदुपदेशमूलत्वाचसकलैहिकामु पिकव्यवहाराणामितिसूत्रार्थः। उत्त०३ अग