________________ धम्म 2704 - अभिधानराजेन्द्रः - भाग 4 धम्म सारोत्तरणसमर्थ वा। तथा-श्रुतं चजीवाऽऽदिपदार्थसूचकं, देशितवान् प्रकाशितवान् // 24 // किं चान्यत्भासमाणो न भासेजा, णेव वंफेज मम्मयं / मातिट्ठाणं विवजेजा, अणुचिंतिय वियागरे॥२५|| (भासमाणो इत्यादि) यो हि भाषासमितः स भाषमाणोऽपि धर्मकथासंबन्धभाषक एवस्यात्। उक्तंच-"वयणविहत्तीकुसलो. वओगई बहुविहं वियाणंतो। दिवसं पि भासमाणो, साहू व गुरुत्तयं पत्तो।।१।।' यदि वायत्रान्यः कश्चिद्रत्नाऽऽदिको भाषमाणस्तत्राऽन्तर एव सश्रुतिकोऽहमित्येयमभिमानवान् न भाषेत / तथा-मर्म गच्छतीति मर्मगं वचो न (वंफेज त्ति) नाभिलपेत्। यद्वचनमुच्यमानं तथ्यमतथ्यं वा सद्यस्य कस्यचिन्मनः पीडामाधत्ते, तद्विवेकीन भाषेतेति भावः / यदिवा-मामक ममीकारः पक्षपातस्तं भाषमाणो (न वंफेज त्ति) नाभिलपेत् / तथा मातृस्थानं माया-प्रधानं वचो विवर्जयेत्। इदमुक्तं भवति-परवञ्चनबुद्ध्या गूढाऽऽचारप्रधानो भाषमाणोऽभाषमाणो वाऽन्यदा वा मातृस्थानं न कुर्यादिति / यदा तु वक्तुं कामो भवति, तदा नैतद्वचः परमात्मनोरुभयोर्वा बाधकमित्येवं प्राग्विचिन्त्य वचनमुदाहरेत्। तदुक्तक्तम्- "पुव्वं बुद्धीऍपेहिता, पच्छा वक्कमुदाहरे।" इत्यादि।॥२५॥ अपिचतत्थिमा तइया भासा, जं वदित्ताऽणुतप्पति। जं छन्नं तं न वत्तव्वं, एसा आणा णियंठिया ||26|| (तस्थिमेत्यादि) सत्या असत्या-सत्यामृषा-असत्यामृषेत्येवरूपासु चतसृषु भाषासु मध्ये तत्रेयं सत्यामृषेत्येतदभिधानात् तृतीया भाषा, सा च किञ्चिन्मृषा किञ्चित्सत्या इत्येवंरूपा। तद्यथा-दशदारका अस्मिन्नगरे जाता मृताः, तदत्रन्यूनाधिकसंभवे सति संख्याया व्यभिचारात्सत्यामृषात्वमिति / यां चैवंरूपां भाषामुदित्या अनु पश्चाद्वाषणाजन्मान्तरे या तजनितेन दोषेण तप्यते पीड्यते क्लेशभाग्भवति। यदि वा-अनुतप्यते, किं ममैवंभूतेन भाषितेनेत्येवं पश्चात्तापं विधत्ते / ततश्चेदमुक्तं भवतिमिश्राऽपि भाषा दोषाय, किं पुनरसत्या, द्वितीया समस्ताऽर्थविसंवादिनी / तथा-प्रथमाऽपि भाषा सत्या, या प्राण्युपतापेन दोषानुषङ्गिणी सानवाच्या। चतुर्थाऽप्यसत्यामृषा भाषा बुधैरनाचीर्णा सा नवक्तव्येति / सत्याया अपि दोषानुषङ्गित्वमधिकृत्याऽऽह-यद्वचः (छन्नं ति) क्षणु हिंसायां, हिंसाप्रधानम् / तद्यथा-बध्यतां चौरोऽयं, लूयन्तां केदाराः, दम्यन्तां गोरथका इत्यादि / यदि वा-(छन्नं ति) प्रच्छन्नं यल्लोकैरपि प्रच्छाद्यते तत्सत्यमपि न वक्तव्यमिति / एषाऽऽज्ञा अयमुपदेशो निर्ग्रन्थो भगवांस्तस्येति॥२६॥ किंचहोलावायं सहीवायं, गोयावायं च नो वदे। तुम तुमं ति अमणुन्नं, सव्वसो तं ण वत्तए // 27 / / (होलावायमित्यादि) होलेत्येवं वादो होलावादः। तथा--स खेत्येवं वादः / सखिवादः, तथा गोत्रोद्घाटनेन वादो गोत्रवादः, यथा-काश्यपसगोत्रो, वासिष्टसगोत्रो वेति इत्येवंरूपं वादं साधु! वदेत्। तथा- 'तुम तुम" | तिरस्कारप्रधानमेकवचनान्तं बहुवचनोचारणयोग्येऽमनोज्ञं मनःप्रतिकूलरूपमन्यदप्येवंभूतमपमानाऽऽपादकं सर्वशः सर्वथा तत् साधूनां वक्तुं न वर्तत इति। यदाश्रित्योक्तं नियुक्तिकारेण / तद्यथा-''पासत्थोसचकुसीलसंथवो ण किल वट्टए काउं। तदिदं'' इत्यादि।।२७।। अकुसीले सया भिक्खू, णेव संसग्गियं भए। सुहरूवा तत्थुवस्सग्गा, पडिबुज्झेज ते विऊ // 28|| (अकुसीलेत्यादि) कुत्सितं शीलमस्येति कुशीलः, स च पार्श्वस्थाऽऽदीनामन्यतमः, न कुशीलोऽकुशीलः, सदा सर्वकालं, भिक्षणशीलो भिक्षुः, कुशीलो न भवेन्न चापि कुशीलैः सार्ध संसर्ग साङ्गत्यं, भजेत सेवेत। तत्संसर्गदोषोद्विभावयिषयाऽऽह- "सुखरूपाः सातागौरवस्वभावाः, तत्र तस्मिन् कुशीलसंसर्गे संयमोपघातकारिण उपसर्गाः प्रादुःष्यन्ति / तथाहि-कुशीलवक्तारो भवन्ति-कः किल प्रासुकोदकेन हस्तपाददन्ताऽऽदिके प्रक्षाल्यमाने दोषः स्यात् / तथा-नाशरीरो धर्मो भवतीत्यतो येन केनचित्प्रकारेणाऽऽधाकर्मसान्निध्याऽऽदिना, तथा-उपानच्छन्नाऽऽदिना च शरीरं धर्माऽऽधारं वर्तयेत् / उक्तं च"अप्पेण बहुमेसेजा, एयं पंडियलक्खणं / " इति। "शरीरं धर्मसंयुक्तं, रक्षणीयं प्रयत्नतः / शरीरात्स्रवते पापं, पर्वतात्सलिलं यथा // 1 // " तथा साम्प्रतमल्पानि संहननानि, अल्पधृतयश्च संयमे जन्तव इत्येवमादि कुशीलोक्तं श्रुत्वा अल्पसत्त्वास्तत्रानुषज्जन्त्येवं विद्वान् विवेकी प्रतिबुद्ध्येव जानीयात्, बुद्धा चाऽपायरूपं कुशीलसंसर्ग परिहरेदिति // 28|| नन्नत्थ अंतराएणं, परगेहे ण णिसीयए। गामकुमारियं किडु, नातिवेलं हसे मुणी // 26 // (नन्नत्थेत्यादि) तत्र साधुर्भिक्षाऽऽदिनिमित्तंग्रामाऽऽदौ प्रविष्टः सन्परो गृहस्थस्तस्य गृहं परगृहं तत्र न निषीदेनोपविशेत, उत्सर्गतोऽस्यापवादं दर्शयति-नान्यत्रान्तरायेणेति / अन्तरायः शक्त्यभावः, स च जरसा रोगाऽऽतङ्काभ्यां स्यात्तस्मिश्चान्तराये सत्युपविशेत्। यदि वा-उपशमलब्धिमान् कश्चित्सुसहायो गुर्वनुज्ञातः कस्यचित्तथाविधस्य धर्मदेशनानिमित्तमुपविशेदपि। तथा ग्रामे कुमारका ग्रामकुमारकास्तेषामियं ग्रामकुमारिकाऽसौ क्रीडा हास्यकन्दर्पहस्तसंस्पर्शनाऽऽलिङ्गनाऽऽदिका।यदि वा वट्टकन्दुकाऽऽदिका, तां मुनिन कुर्यात्; तथा वेला मर्यादा तामतिक्रान्तमतिवेलं न हसेन्मर्यादामतिक्रम्य मुनिः साधुर्ज्ञानाऽऽवरणीयाऽऽद्यष्टविधकर्मबन्धभयान्न हसेत्। तथा चाऽऽगम:- "जीवे णं भंते ! हसमाणे उस्सूयमाणे वा कइ कम्मपगडीओ बंधइ? गोयमा! सत्तविहबंधए वा अट्ठविहबंधए वा।" इत्यादि॥२६॥ किंचअणुस्सुओ उरालेसु, जयमाणो परिव्वए। चरियाए अप्पमत्तो, पुट्ठो तत्थऽहियासए|३०|| (अणुस्सुओ इत्यादि) उराला उदाराः शोभना मनोज्ञाये चक्रव यादीनां शब्दाऽऽदिषु विषयेषु कामभोगा वस्त्राऽऽभरणगीतगन्धर्वयानवाहनाऽऽदयः, तथा आज्ञैश्वर्याऽऽदयश्चैतेषूदारेषु दृष्टषु श्रुतेषुवा नोत्सुकः स्यात्। पाठान्तरवा-न निश्रितोऽनिश्रितोऽप्रतिबद्धः स्यात्। यतमानश्च संयमानुष्ठाने, परि समन्तान्मूलोत्तरगुणेषु उद्यम कुर्वन्व्रजेत्संयमं गच्छेत् / तथाचर्यायां भिक्षाऽऽदिकायामप्रमत्तः स्यात्, नाऽऽहाराऽऽदिषुरसगाऱ्या विदझ्या