________________ धम्म 2703 - अमिधानराजेन्द्रः - भाग 4 धम्म परस्परव्यवहारे मिथ्याशास्त्रगतसंशये या प्रश्ने सति यथावस्थिताकथनद्वारेणाऽऽयतनानि निर्णयनानीति / तथा-सागारिक: शय्यातरः, तस्य पिण्डमाहारम् / यदि वा-सागारिकपिण्डमिति सूतवगृहपिण्ड, जुगुप्सितवर्णापसदपिण्डच। चशब्दः समुच्चये। तदेतत्सर्वं विद्वान् ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति / / 16 / / किं चान्यत्अट्ठावयं न सिक्खिज्जा, वेहाईयं च णो वए। हत्थकम्मं विवायं च, तं विजं परिजाणिया ||17|| (अट्ठावयमित्यादि) अर्थ्यते इत्यर्थो धनधान्यहिरण्याऽऽदिकः, पद्यते गम्यते येनार्थस्तत् पदं शास्त्रम्, अर्थार्थं पदमर्थपदं चाणक्याऽऽदिकगर्थशास्त्र, तन्न शिक्षयेन्नाभ्यसेन्नाप्यपरप्राण्युपमर्दकारि शास्त्रं शिक्षयेत्, यदि वा अष्टापदं द्यूतक्रीडाविशेषस्तं न शिक्षयेत, नापि पूर्वशिक्षितमनुशीलयेदिति / तथा-वेधो धर्मानुवेधस्तस्मादतीतमधर्मप्रधानं वचो नो वदेत्। यदि वा-वेध इति वर्धवेधो द्यूतविशेषः, तद्गतं वचनमपि नो वदेत्, आस्तां तावत्क्रीडनमिति। हस्तकर्म प्रतीतम्। यदिवा-हस्तकर्म हस्त-क्रिया परस्परं हस्तव्यापारप्रधानः कलहस्तं, तथा विरुद्धवाद, शुष्कवादमित्यर्थः / चः समुचये / तदेतत्सर्व संसारभ्रमणकारणं ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया प्रत्याचक्षीत / / 17 / / किचपाणहा उ य छत्तं च, णालीयं बालवीयणं / परकिरियं अन्नमन्नं च, तं विजं परिजाणिया / / 18 / / (पाणहा उ इत्यादि) उपानही काष्ठपादुके च, तथा आतपाऽ5दिनिवारणाय छत्रम् / तथा-नालिका द्यूतक्रीडाविशेषः / तथा-- बालैर्मयूरपिच्छैर्वा व्यजनकं, तथा-परेषां संबन्धिनी क्रियामन्योऽन्यां परस्परतोऽन्यनिष्पाद्यामन्यः करोत्यपरनिष्पाद्या चापर इति / चः समुचये। तदेतत्सर्व विद्वान् पण्डितः कर्मोपादानकारणत्वेन ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति // 18|| तथाउच्चारं पासवणं, हरिएसु ण करे मुणी। वियडेण वावि साहट्ट, णाऽऽचमे य कयाइ वि ||16|| (उच्चारमिति) उचारप्रस्रवणाऽऽदिकां क्रियां हरितेषूपरि बीजेषु वा स्थण्डिले वा मुनिः साधुन कुर्यात्, तथा विकटेन विगतजी-चेनाप्युदकेन संहृत्यापनीय बीजानि हरितानि वा, नाऽऽचमेत न निलेपनं कुर्यात, किमुताविकटेनेति भावः / / 16 / / हुतनष्टाऽऽदिदोषसंभवाच न विभृयात् / यदि वा-जिनकल्पिकाऽऽदिकोऽचेलो भृत्वा सर्वमपि वस्त्रं परवस्त्रमिति कृत्वा न विभृयात्, एतत्सर्व परपात्रभोर्जनाऽऽदिकं संयमविराधकत्वेन ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति // 20 // आसंदी पलियंके य, णिसिज्जं च गिहतरे। संपुच्छणं व सरणं वा, तं विजं परिजाणिया।।२१।। आसन्दीति आसनविशेषः / अस्य चोपलक्षणार्थत्वात्सर्वोऽप्यासनविधिगृहीतः / तथा-पर्यङ्कः शयनविशेषः / तथा गृहस्यान्तर्मध्ये गृहयोर्वा मध्ये निषद्यां वाऽऽसनं वा संयमविराधनाभयात् परिहरेत्। तथा चोक्तम्- "गंभीरझुसिरा एते, पाणा दुप्पडिलेहगा। अगुत्ती बंभचेररस, इत्थीओ वा वि संकणा ||1||" इत्यादि / तथा-तत्र गृहस्थगृहे कुशलाऽऽदिप्रच्छनमात्मीयशरीरावयवप्रच्छनं वा / तथा-पूर्वक्रीडितस्मरणं चेत्येतत्सर्वं विद्वान् विदितवेद्यः सन्ननायेतिज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेत् // 21 // अपिचजसं कित्तिं सलाघं च, जा य वंदणपूयणा। सव्वलोयंसि जे कामा, तं विजं परिजाणिया॥२२।। (जसं कित्तिमित्यादि) बहुसमरसंघट्टनिर्वहणशौर्यलक्षणं यशः, दानसाध्या कीर्तिः, जातितपोबहुश्रुत्यादिजनिता श्लाघा, तथा-या च सुराऽसुराधिपतिचक्रवर्तिबलदेववासुदेवाऽऽदिभिर्वन्दना, तथा-तैरेव सत्कारपूर्विका वस्त्राऽऽदिना पूजना / तथा-सर्वस्मिन्नपि लो के इच्छामदनरूपा ये केचन कामाः, तदेतत्सर्व यशः कीर्तिमपकारितया परिज्ञाय परिहरेदिति // 22 // किंचान्यत्जेणेह णिव्वहे भिक्खू, अन्नपाणं तहाविहं। अणुप्पयाणमन्नेसिं,तं विजं परिजाणिया ||23|| (जेणेहमित्यादि) येनान्नेन पानेन वा तथाविधेनेति सुपरिशुद्धेन, कारणापेक्षया त्वशुद्धेन वा, इहास्मिन् लोके, इदं संयमपात्राऽऽदिकं दुर्भिक्षरोगाऽऽतड़ काऽऽदिकं वा भिक्षुर्निर्वहन्निहियेद्वा, यदन्नं पानं वा तथाविधं द्रव्यक्षेत्रकालभावापेक्षया शुद्धं कल्प्यं गृह्णीयात, तथैतेषामन्नाऽऽदीनामनुप्रदानमन्यस्मै साधवे संयममात्रान्निर्वहणसमर्थमनुतिष्ठेत् / यदि वायेन केनचिदनुष्ठितेन संयम निर्वहन्निहियेदसारतामापादयेत् / तथाविधमशन पानं वा, अन्यद्वा तथावि-धमनुष्ठानं न कुर्यात् / तथा-- एषामशनाऽऽदीनामनुप्रदानं गृहस्थानां परतीथिकानां स्वयूथ्यानां वा संयमोपधातकं नानुशीलयेदिति। तदेतत्सर्वं ज्ञपरिज्ञया ज्ञात्वा सम्यक् परिहरेदिति // 23 // यदुपदेशेनैतत्कुर्यात्तदर्शयितुमाहएवं उदाहु निग्गंथे, महावीरे महामुणी। अणंतनाणदंसी से, धम्म देसितवं सुतं // 24 // (एवं उदाहु इत्यादि) एवमनन्तरोक्तया नीत्या उद्देशकाऽऽदेरारभ्य (उदाहु त्ति) उदाहतवानुक्तवान्, निर्गतो बाह्याभ्यन्तरो ग्रन्थो यस्मात्स निर्गन्थो, महावीर इति श्रीमद्वर्धमानस्वामी, महाँश्चासौ मुनिश्च महामुनिः, अनन्तं ज्ञान दर्शन च यस्यासावनन्तज्ञानदर्शी, स भगवान्,धर्म चारित्रलक्षणं सं किंच परमत्ते अन्नपाणं,ण भुंजेज कयाइ वि। परवत्थं अचेलो वि, तं विजं परिजाणिया।॥२०॥ (परमत्ते इत्यादि) परस्य गृहस्थस्यामत्रं भाजनं परामत्रं, तत्र पुरःकर्म पश्चात्कर्म, तद्भयाद् हुतनष्टाऽऽदिदोषसंभवाचात्र पान च मुनिर्न कदाचिदपि भुञ्जीता यदिवा--पतद्-ग्रहधारिणाऽच्छिद्रपाणेः पाणिपात्रं परपात्रं, यदि वा-पाणिपात्रस्याच्छिद्रपाणेर्जिन कल्पिकाऽऽदेः पतद्ग्रहः परपात्रं, तत्र संयमविराधनाभयान भुञ्जीत, तथा-परस्य गृहस्थस्य / वस्त्रं परवस्त्रं तत् साधुरचेलोऽपि सन् पश्चात्कर्माऽऽदिदोषभयाद्, /