________________ 2702 - अभिधानराजेन्द्रः - भाग 4 धम्म था रसाद् दधिसौवीरकाद् जाता रसजाः, तथा संस्वेदाजाताः संस्वेदजा यूका मत्कुणाऽऽदयः। उद्भिजाः खञ्जरीटकदर्दुराऽऽदय इति। अज्ञातभेदा हि दुःखेन रक्ष्यन्त इत्यतो भेदेनेपन्यास इति ||8|| एभिः पूर्वोक्त : षभिरपि कायैस्वसस्थावररूपैः सूक्ष्मबादरपर्याप्तकापर्याप्तकभेदभिन्न रम्भी नापि परिग्रही स्यादिति संबन्धः। तदेतद् विद्वान् सश्रुतिको ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया मनोवाक्कायकर्मभिर्जी वोपमर्दकारिणमारम्भं परिग्रह च परिहरेदिति / / 6 / / शेषव्रतान्यधिकृत्याऽऽहमुसावायं वहिडें च, उग्गहं च अजाइयं / सत्था दाणाइँ लोगंसि, तं विजं परिजाणिया / / 10 / / (मुसावायमित्यादि) मृषा असद्भूतो वादो मृषावादः, तं विद्वान् प्रत्याख्यानपरिज्ञया परिहरेत्, तथा-(अवहिट्ठमिति) मैथुनम्, अवग्रह परिग्रहम, अयाचितमदत्ताऽऽदानम् / यदि वा- "अवहि-ट्ठमिति।" मैथुनग्रहोऽवग्रमयाचितमित्यनेनादत्ताऽऽदानं गृहीतम् / एतानि च मृषावादाऽऽदीनि प्राण्युपतापकारित्वात् शस्त्राणीव शस्त्राणि वर्तन्ते / तथा दीयते गृह्यतेऽष्टप्रकारे कर्माभिरिति कर्मोपादानकारणानि, अस्मिन् लोके तदेतत्सर्वे विद्वान् ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति // 10 // किं चाऽन्यत्पलिउंचणं च भयणं च, थंडिल्लुस्सयणाणि य। धूणा दाणाइँ लोगंसि, तं विजं परिजाणिया // 11 // (पलिउंचणमित्यादि) पञ्चमहाव्रतधारणमपि कषायिणो निष्फलं स्यादतस्तत्साफल्याऽऽपादनार्थ कषायनिरोधो विधेय इति दर्शयति। परि समन्तात् कुञ्च्यन्ते वक्रतामापद्यन्तेक्रिया येन मायाऽनुष्ठानेन तत्परिकुञ्चनं मायेति भण्यते / तथा-भज्यते सर्वत्राऽऽत्मा प्रहीक्रियते येन स भजनो लोभस्तम्, तथा यदुदयेन ह्यात्मा सदसद्विवेकविकलत्यात स्थण्डिलवद्भवति, स स्थण्डिलः क्रोधः / यस्मिश्च सत्यूज़ श्रय ति जात्यादिना दर्पाऽऽध्मातः पुरुष उत्तानीभवति स उच्छ्रायो मानः, छान्दसत्वान्नपुंसकलिङ्गता। जात्यादीनामेलत्स्थानानां बहुत्वात् तत्कार्यस्याऽपि मानस्य बहुत्वमतो बहुवचनम्। चकाराः स्वगतभेदसंसूचनार्थाः, समुचयार्था वा / धूनयेति प्रत्येक क्रिया योजनीया / तद्यथा-परिकुञ्चनं मायां धुनय, धूनीहि वा। तथा भजनंलोभं, तथास्थण्डिलं क्रोध, तथा उच्छ्रायं मानं, विचित्रत्वात् सूत्रस्य, क्रमोल्लइननिर्देशो न दोषायेति / यदि वा-रागस्य दुस्त्यजत्वात् लोभस्य च मायापूर्वकत्वादित्यादावेव मायालोभयोरुपन्यास इति / कषायपरित्यागे विधेये पुनरपरं कारणमाह-एतानि परिकुञ्चनाऽऽदीनि अस्मिन् लोके आदानानि वर्तन्ते तदेतद्विद्वान् ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया प्रत्याचक्षीत // 11 // पुनरप्युत्तरगुणानधिकृत्याऽऽहधोयणं रंयणं चेव, वत्थीकम्मं विरेयणं / वमणंऽजणपलीमंथं, तं विजं परिजाणिया / / 12 / / (धोयणमित्यादि) धावनं प्रक्षालनं हस्तपादयोर्वस्त्राऽऽदेरञ्जनमपि, (?) तथा-विरेचनं निरूहाऽऽत्मकमधोविरेको वा।। वमनमूर्ध्वविरेकः / तथा अञ्जन नयनयोरिति / एवमादिकमन्यदपि शरीरसंस्काराऽऽदिकं यत् संयमपरिमन्थकारि संयमोपघातरूपं, तदेतद्विद्वान् स्वरूपतस्तद्विपाकतश्च परिज्ञाय प्रत्याचक्षीत॥१२॥ अपि चगंधमल्लसिणाणं च, दंतपक्खालणं तहा। परिग्गहित्थि-कम्मंच, तं विजं परिजाणिया / / 13 / / (गंधमल्ल इत्यादि) गन्धाः कोष्टपुटाऽऽदयः, माल्यं जात्यादिकम्, स्नानं च शरीरप्रक्षालनं देशतः, सर्वत्रश्च / तथा-दन्तप्रक्षालनं कदम्बकाष्ठाऽऽदिना, परिग्रहः सचित्ताऽऽदेः स्वीकरणम् / तथा-स्त्रियो दिव्यमानुषतैरश्चः। तथा-कर्म हस्तकर्म, सावद्यानुष्ठानं वा / तदेतत्सर्व कर्मोपादानतया संसारकार-णत्वेन परिज्ञाय विद्वान् परित्यजेदिति // 13 // किं चाऽन्यत्उद्देसियं कीयगडं पामिचं चेव आहडं। पूर्य अणेसणिज्जं च, तं विज्जं परिजाणिया // 24 // (उद्देसियमित्यादि) साध्वाधुपदेशेन यहानाय व्यवस्थाप्यते तदुद्देशिकम्। तथा-क्रीत क्रयस्तेन क्रीतं गृहीतं क्रीतं गृहीतं क्रीतक्रीतं, (पामिचं ति) साध्वर्थमन्यत उद्यतकं यद् गृह्यते तत्तदुच्यते, चकारः समुच्चयार्थः, एवकारोऽवधारणार्थः / साध्वर्थ यद् गृहस्थेन नीयते तदाहृतम्। तथा-(पूयमिति) आधाकर्मावयवसंपृक्तं शुद्धमप्याहारजातं भवति। किंबहुनोक्तेन ? यत् केनचिद्दोषेणानेषणीयमशुद्धं तत्सर्वं विद्वान् परिज्ञाय संसारकारणतया निस्पृहः सन प्रत्याचक्षीतेति।।१४।। किं चआसूणिमक्खिरागंच, रसगिद्धूवघायकम्मगं। उच्छोलणं च ककं च,तं विजं परिजाणिया|१५|| (आसूणि इत्यादि) येन घृतपानाऽऽदिना आहारविशेषेण रसायनक्रियया वा अशूनः सन् आ समन्तात् शूनीभवति बलवानुपजायते, तदाशूनीत्युच्यते / यदि वा-(आसूणि त्ति) श्ल घायतः श्लाघया क्रियमाणया आसमन्तात् शूनश्छूनोलघुप्रकृतिः कश्चिद्दाऽऽध्मातत्यात् स्तब्धो भवति। तथा-अक्ष्णां रागो रञ्जनं सौवीराऽऽदिकमञ्जनमिति यावत् / एवं रसेषु शब्दाऽऽदिषु विषयेषु वा गृद्धिं गाद्ध्य तात्पर्यमासेवा, तथोपद्यातकर्मेत्युच्यते / तदेव लेशतो दर्शयति-(उच्छोलणं ति) अयतनया शीतोदकाऽऽदिना हस्तपादाऽऽदिप्रक्षालनम्, तथा कल्कं लोध्राऽऽदिद्रव्यसमुदायेन शरीरोद्वर्तनकं, तदेतत्सर्वं बन्धनायेत्येवं विद्वान् पण्डितो ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया परिहरेदिति / / 15|| अपि चसंपसारा य कयकिरिए, पसिणाऽऽयतणाणिय। सागारियं च पिंडं च, तं विजं परिजाणिया।।१६|| (संपसारा य इत्यादि) असंयतैः सार्धं संप्रसारणं पर्यालोचन, परिहरेदिति वाक्यशेषः। एवं संयमानुष्ठानं प्रत्युपदेशदानम्। तथा-'कयकिरिए' नाम कृता शोभना गृहकरणाऽऽदिक्रिया येन स कृतक्रिय इत्येवमसंयतानुष्ठानप्रशंसनम्। तथा--प्रश्रस्याऽऽदर्शः प्रश्नाऽऽदेरायतनमाविष्करण कथन यथावस्थित-प्रश्रनिर्णयनानि / यदि वा-प्रश्नाऽऽयतनानि लौकिकानां