________________ धम्म 2705 - अभिधानराजेन्द्रः - भाग 4 धम्म दिति। तथा-स्पृष्टश्चाभिद्रुतश्च परीषहोपसर्गस्तत्रादीनमनस्कः कर्मनिर्जरां मन्यमानो विवहेत सम्यक् सह्यादिति // 30 // परीषहोपसार्गाधिसहनमेवाधिकृत्याऽऽहहम्ममाणो ण कुप्पेञ्जा, वुच्चमाणो न संजले / सुमणे अहियासिज्जा, ण य कोलाहलं करे॥३१।। (हम्ममाणो इत्यादि) हन्यमानो यष्टिमुष्टिलकुटाऽऽदिभिरपि न कुप्यन्न कोपवशगो भवेत्। तथा दुर्वचनान्युच्यभान आक्रुश्यमानो निर्भय॑मानो नसंज्वलेन्न प्रतीपंवदेन्न मनागपि मनोऽन्यथात्वं विदध्यात्, किंतु सुमनाः सर्वं कोलाहलमकुर्वन्नधिसहेतेति॥३१।। किं चान्यतउद्धे कामे ण पत्थेजा, विवेगे एवमाहिए। आयरियाई सिक्खेजा, वुद्धाणं अंतिए सया ||32 / / (लद्धे कामे इत्यादि) लब्धान् प्राप्तानप्राप्तानपि कामानिच्छामदनरूपान् गन्धालङ्कारवस्त्राऽऽदिरूपान् वा वैरस्वामिवन्न प्रार्थयेन्नानुमन्येत, च गृह्णीयादित्यर्थः। यदि वा-यत्र कामावसायितया गमताऽऽदि लब्धिरूपान् कामांस्तपोविशेषलब्धानपि नोपजीव्यान्नाप्यनागतान् ब्रह्मदत्तवत्प्रार्थयेत्, एवं च कुर्वतो भावविवेक आख्यात आविर्भावितो भवति। तथा आर्याण्यार्याणां कर्तव्यानि अनार्यकर्तव्यपरिहारेण / यदि वा--आचर्याणि मुमुक्षूणां यान्याचरणीयानि ज्ञानदर्शनचारित्राणि तानि बुद्धानामाचार्यायामन्तिके समीपे सदासर्वकालं शिक्षेताभ्यसेदिति / अनेन हि शीलवता नित्यं गुरुकुलवास आसेवनीय इत्यावेदितं भवतीति॥३२॥ यदुक्तं बुद्धानामन्तिके शिक्षेत्तत्स्वरूपनिरूपणायाहसुस्सूसमाणो उवासेज्जा, सुप्पन्नं सुतवस्सियं / वी (वी) रा जे अत्तपन्नेसी, घितिमंता जिइंदिया।।३३।। (सुस्सूसमाण इत्यादि) गुरोरादेशं प्रति श्रोतुमिच्छाशुश्रूषा, गुर्वादेयावृत्त्यमित्यर्थः। तां कुर्वाणो गुरुमुपासीत सेवेत।तस्यैव प्रधानगुणद्वयद्वारेण विशेषणमाह-सुष्टु शोभना वा प्रज्ञाऽस्येति सुप्रज्ञः स्वसमयपरसमयवेदी गीतार्थ इत्यर्थः। तथा-सुष्टु शोभनं वा सबाह्याभ्यन्तरं तपोऽस्यास्तीति सुतपस्वी, तमेवंभूतं ज्ञानिनं सम्यक् चारित्रवन्तं गुरु परलोकार्थी सेवेत। तथा चोक्तम्- 'नाणस्स होइ भागी, थिरयरओ दंसणे चरित्ते य। धन्ना आवक-हाए, गुरुकुल वासंन मुंवंति।।१।। (ग०) य एवं कुर्वन्ति तान् दर्शयति / यदि वा के ज्ञानिनस्तपस्विन इत्याह-वीराः कर्मविदारणसहिष्णावो, वीरा वा परीषहोपसर्गाक्षोभ्याः,धिया बुद्ध्या राजन्तीति वा धीरा ये केचनाऽऽसन्नसिद्धिगमनाः आप्तो रागाऽऽदिवि-प्रमुक्तस्तत्य / प्रज्ञा केवलज्ञानाऽऽख्या तामन्येष्टु शीलं येषां ते आप्तप्रज्ञान्वेषिणः, सर्वज्ञोक्तान्वेषिण इति यावत्। यदि वा-आत्मप्रज्ञान्वेषिण आत्मनःप्रज्ञा ज्ञानमात्मप्रज्ञा तदन्वेषिण आत्मज्ञत्वान्वेषिण आत्महितान्वोषिण इत्यर्थः / तथा-धृतिः संयमे रतिः, सा विद्यते येषां ते धृतिमन्तः। संयमधृत्या हि पञ्चमहाव्रतभारोद्हर्न सूत्रार्थ- भवतीति। -साध्या च सुगतिहस्तप्राप्येति / तमुक्तम्-तस्स तधिई, तस्स तवो, जस्स तक्रे तस्स सग्गई सुलहा। जे अधिइमतपुरिसा, तवो वि खलु दुल्लहो तेसिं / / 1 / / " तया--जितानि वशीकृतानि स्वविषयरागद्वेषविजयेनेन्द्रियाणि स्पर्शनाऽऽदान यैस्ते जितेन्द्रियाः शुश्रूषमाणा यथोक्तविशेषणविशिष्टा भवन्तीति // 33 // तदभिधित्सुराहगिहे दीवमपासंता, पुरिसाऽऽदाणिया नरा। ते वीरा बंधणुम्मुक्का, नावकंखंति जीवियं // 34 // (गिहे दीवमित्यादि) गृहे गृहवासे गृहपाशे वा, गृहस्थभाव इति यावत्। (दीवं ति) दीपी दीप्तौ, दीपयति प्रकाशयतीति दीपः, स च भावदीपः श्रुतज्ञानलाभः। यदि वा-द्वीपः समुद्राऽऽदौ प्राणिनामावासभूतः, स च भावद्वीपः संसारसमुद्रे सर्वज्ञोक्तचारित्रलाभः, तदेवंभूतं दीपं द्वीपं वा गृहस्थभावेऽपश्यन्तोऽप्राप्नुवन्तः सन्तः सम्यक् प्रव्रज्योत्थानेनोत्थिता उत्तरोतरगुणलाभेनैवभूता भवन्तीति दर्शयतिनराः पुरुषाः पुरुषोत्तमत्वाधर्मस्य नरोपादानम्, अन्यथा स्त्रीणामप्येतद्गुणभाक्त्वं भवति, अथवा देवाऽऽदिव्युदासार्थमिति / मुमुक्षूणां पुरुषाणामादानीया आश्रयणीयाः पुरुषाऽऽदानीयाः महतोऽपि महीयांसो भवन्ति / यदि वा-आदानीयो हितैषिणां मोक्षस्तन्मार्गो वा सम्यग्दर्शनाऽऽदिकः पुरुषाणां मनुष्याणामादानीयः, स विद्यते येषामिति विगृह्य मत्वर्थीयः 'अर्श आदिभ्योऽच्' / / 5 / 2 / 127 / / इति / तथा य एवंभूतास्ते विशेषेणेरयन्त्यष्टप्रकारं कर्मेति वीराः। तथा बन्धनेन सबाह्याभ्यन्तरेण (पुत्रकलत्राऽऽदि) स्नेहरूपेणोत्प्राबल्येन मुक्ता बन्धनोन्मुक्ताः सन्तो जीवितमसंयमजीवितं, प्राणधारणं वा नाभिकाक्षन्ति नाभिलषन्तीति // 34 // किं चान्यत्अगिद्धे सद्दफासेसु, आरंभेसु अणिस्सिए। सव्वं तं समयातीतं, जमेतं लवियं बहु / / 3 / / (अगिद्धे इत्यादि) अगृद्धोऽनध्युपपन्नो मूर्छितः / व? शब्दस्पर्शेषु मनोज्ञेषु, आद्यन्तग्रहणान्मध्यग्रहणमतो मनोज्ञेषु रूपेषु गन्धेषु रसेषु वा अगृद्ध इति द्रष्टव्यम्। तथेतरेषु वाऽद्विष्ट इत्यपि वाच्यः।तथा-आरम्भेषु सावधानुष्ठानरूपेष्वनिः श्रितोऽसंबद्धोऽप्रवृत्त इत्यर्थः / उपसंहर्तुकाम आह-सर्वमेतदध्ययनाऽऽदेरारभ्य प्रतिषेध्यत्वेन यल्लपितमुक्तं मया बहु, तत्समयादार्हतादागमादतीतमतिक्रान्तमितिकृत्वा प्रतिषिद्धम् / यदपि च विधिद्वारेणोक्तं तदेतत्सर्व कुत्सितसमयातीत लोकोत्तरं प्रधानं वर्तत // 35 // यदपि च तैः कुतीर्थिकैबहु लपितं तदेतत्सर्वं समयातीतमिति कृत्वा नानुष्ठेयमिति प्रतिषिध्य प्रधाननिषेधद्वारेण मोक्षाभिसंधानेनाऽऽहअइमाणं च मायं च, तं परिण्णाय पंडिए। गारवाणि य सव्वाणि, णिव्वाणं संधए मुणी।।३६।। (अइमाणं चेत्यादि) अतिमानो महामानस्तं, चशब्दात्सहचरितं क्रोध च, तथा-माया, चशब्दात्तत्कार्यभूतं लोभंच, तदेतत्सर्वं पण्डितो विवेकी ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेत्। तथा सर्वाणि गारवाणि ऋद्धिरससातरूपाणि सम्यक ज्ञात्वा संसारकागान्तन परिहरेत्परिहृत्य च मुनिः साधुर्निर्वाणमशेषकर्मक्षयरूपं, विशिष्टाऽऽकाशदेशंवा संधयेदभिसंदध्यात्, प्रार्थयेदिति यावत्॥३६॥ सूत्र० १श्रु०