________________ धम्म 2697 - अभिधानराजेन्द्रः - भाग 4 धम्म अन्यथा फलविकलौ सन्तौ वस्तुपरीक्षाधिकारे समवतारितावपि तौ याचितकमण्डनम्, द्विविधं ह्यलङ्कारफलं, निर्वाह सति परिशुद्धाभिमानिकसुखजनिका स्वशरीरशोभा, कथञ्चिन्निर्वहणाभावेच तेनैव निर्वाहः, न च याचितकमण्डने एतद्वितीयमप्यस्ति, परकीयत्वात्तस्य, ततो याचितकमण्डनमिव याचितकमण्डनम्। इदमुक्तं भवति-द्रव्यपर्यायोभयस्वभावे जीवे कषच्छेदौ निरुपचरिततयोपस्थाप्यमानौ स्वफलं प्रत्यबन्ध्यसामाविव स्याता, नित्याऽऽद्येकान्तवादेतु स्ववादशोभार्थ तद्वादिभिः कल्प्यमानावप्येतो याचितकमण्डनाऽऽकारौ प्रतिभासेते, न पुनः स्वकार्यकराविति। ध०१ अधिo (27) कषाऽऽदिस्वरूपमाहपाणावहाइआणं, पावट्ठाणाण जो उ पडिसेहो। झाणज्झयणाऽऽईणं, जो अविही एस धम्मकसो।।२१।। प्राणवधाऽऽदीनां पापस्थानानां सकललोकसम्मतानां यस्तु प्रतिषेधः शाखे, ध्यानाध्ययनाऽऽदीनां यश्च विधिस्तत्रैव, एष धर्मकषो वर्त्तत इति गाथाऽर्थः / / 21 / / वज्झाणुट्ठाणेणं, जेण न बहिजई तयं नियमा। संभवइ अपरिसुद्धं, सो उण धम्मम्मि छेउ त्ति / / 22 / / बाह्यानुष्ठानेन इतिकर्त्तव्यतारूपेण येन न बाध्यते तद्विधिप्रतिषेधद्वयं नियमात संभवति चैतत्परिशुद्धं निरतिचारं, स पुनस्तादृशः प्रक्रमादुपदेशोऽर्थो बाह्यधर्माच्छेद इति गाथाऽर्थः / जीवाऽऽइभाववाओ, बंधाइपसाहगो इह तावो। एएहिँ सुपरिसुद्धो, धम्मो धम्मत्तणमुवेइ // 23 // जीवाऽऽदिभाववादः पदार्थवादः बन्धाऽऽदिप्रसाधको बन्धमोक्षाऽऽदिगुण इह ताप उच्यते / एभिः कषाऽऽदिभिः सुपरिशुद्धः स धर्मः श्रुतानुष्ठानरूपः धर्मत्वमुपैति, सम्यग् भवतीति गाथार्थः // 23 // एएहिँ जो न सुद्धो, अन्नयरम्मि उ ण सुलु निग्घडिओ। सो तारिसओ धम्मो, नियमेण फले विसंवयइ // 24 // एभिः कथाऽऽदिभिर्यो न शुद्धस्विभिरपि अन्यतरस्मिन् वा कथाऽऽदौ न सुष्ठ निर्घटितः, नव्यक्तइत्यर्थः / स तादृशोधर्म श्रुताऽऽदिर्नियमादवश्यतया फले स्वसाध्ये विसंवदति, नतत्साधयतीति गाथार्थः। पं०व०४ द्वार। णाणागमो मच्युमुहस्स अत्थि, इच्छापणीता वंकाऽऽणिकेया। कालगहिता णिचए णिविट्ठा, पुढो पुढो जाई पकप्पयंति / / 131 / / इहमेगेसिं तत्थ तत्थ संथवो भवति अहोववाइए फासे पडिसंवेदयंति, चिटुं कूरेहिं कम्मेहिं चिट्ठ परिचिट्ठति, अचिट्ठ कूरेहिं कम्मेहिं णो चिट्ठ परिचिट्ठति, एगे वदंति अदुवा विणाणी गाणी वयंति, अदुवा वि एगे॥१३॥ आवंती केयावंती लोयंसि समणा य माहणा य पुढो विवादं वदंति, से दिहें चणे सुयं च णे मयं च णे विण्णायं च णे उड्ढ अहं तिरियं दिसासु सवओ सुप्पडिलेहियं चणे सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता हंतव्वा अञ्जावे यव्वा परियावेयव्वा किलामेयटवा, परिघेतवा, उद्दवेयव्वा, एत्थं पिजाणह णस्थित्थदोसो, अणारियवयणमेयं, तत्थ जे आरिया ते एवं बयासी-से दुद्दिटुं च भे दुस्सुयं च मे दुम्मयं च भे दुट्विण्णायं च भे उद्धं अहं तिरियं दिसासु सव्वतो दुप्पडिलेहियं च भे, जंणं तुन्भे एवमाइक्खह एवं भासह एवं पण्णवेह एवं परूवेह सव्वे पाणा सव्वे भूया सवे जीवा सव्वे सत्ता हतवा, अज्जावेयव्वा, परितावेयटवा, किलामेयव्वा परिघेतव्वा, उद्दवेतव्वा, एत्थं पि जाणह णत्थित्थ दोसो, अणारियवयणमेयं, वयं पुण एवमाइ-क्खामो एवं भासामो एवं परूवेमो एवं पण्णवेमो सव्वे पाणा सध्वे भूया सवे जीवा सव्वे सत्ता ण हंतव्वा ण अजावेयटवा, ण परिधे-तव्वा, ण किलामेयव्वा, ण परितावेयव्वा,ण उद्दवेयव्वा, एत्थं विजाणह णत्थित्थ दोसो, आरियवयणमेयं, पुथ्वं णिकायसमयं पत्तेयं पत्तेयं पुच्छिस्सामिहं भो पवाइया ! किं भे सायं दुक्खं, उयाहु असायं,समिया पडिवण्णे याविएवं बूयासव्वेसिं पाणाणं सव्वेसिं भूयाणं सव्वेसिं जीवाणं सव्वेसिं सत्ताणं असायं अपरिणिव्वाणं महन्मयं दुक्खं ति वेमि / / 133 // (णाणागमा इत्यादि) न नागमो मृत्योर्मुखस्य कस्यचिदपि संसारोदरवर्तिनोऽस्तीति। उक्तं च"वदत यदीह कश्चिदनुसन्तत-सुखपरिभोगलालितः। प्रयत्नशतपरोऽपि विगतव्यथ--मायुरवाप्तवान्नरः / / 1 / / न खलु नरः सुरौघसिद्धा-सुरकिन्नरनायकोऽपि यः। सोऽपि कृतान्तदन्तकुलि-शाऽऽक्रमेण कृशितो न नश्यति / / 2 / / " तथोपायोऽपि मृत्युमुखप्रतिषेधस्य न कश्चिदस्तीति। उक्तंच"नश्यति नौति याति वितनोति करोति रसायनक्रियां, चरति गुरुव्रतानि विवराण्यपि विशति विशेषकातरः। तपति तपांसि खादति मितानि करोति च मन्त्रसाधनं, तदपि कृतान्तदन्तयन्त्रकृकचक्रमणैर्विदार्यते॥१॥" ये पुनर्विषयकषायाऽभिष्वङ्गात् प्रमत्ताधर्म नावबुध्यन्ते, ते किं-भूता भवन्तीत्याह- (इच्छा इत्यादि) इन्द्रियमनोविषयानुकूला प्रवृत्तिरिहेच्छा, तया विषयाऽभिमुखमभिकर्मबन्ध संसाराभिमुखं वा प्रकर्षण नीता इच्छाप्रणीताः, ये चैवंभूतास्ते 'वंकाऽऽनिकेता' वङ्कस्यासंयमस्य आमर्यादया संयमावधिभूतया निकेतभूता आश्रया वाऽऽनिकेताः, यको वा निकेतो येषां ते वड्कानिकेताः, पूर्वपदस्य दीर्घत्वम्। ये चैवंभूतास्ते कालगृहीताः कालेन मृत्युना गृहीताः कालगृहीताः, पौनःपुन्यमरणभाज इत्यर्थः, धर्मचरणाय वा गृहीतः-अभिसंधितः कालोयैस्ते कालगृहीताः आहिताग्निदर्शनादार्षत्वाद्वा निष्ठान्तस्य परनिपातः। तथाहि-पाश्चात्ये वयसि परुत्परारि वा अपत्यपरिणयनोत्तरकालं वा धर्म करिष्याम इत्येवं गृहीतकालाः, ये चैवंभूतास्ते निचये निविष्टा निचये कर्मनिचये तदुपादाने वा सावद्याऽऽरम्भनिचये निविष्टा अध्युपपन्नाः, ये चेच्छाप्रणी