SearchBrowseAboutContactDonate
Page Preview
Page 1376
Loading...
Download File
Download File
Page Text
________________ धम्म 2668 - अभिधानराजेन्द्रः - भाग 4 धम्म ता वढानिकेताः कालगृहीता निचये निविष्टास्ते तद्धर्माणः किमपर कुर्वन्तीति दर्शयितुमाह- (पुढो पुढो इत्यादि) पृथक् पृथगकेन्द्रियद्वीन्द्रियाऽऽदिकां जातिभनेकशः प्रकल्पयन्ति प्रकुर्वन्ति / पाठान्तरं वा"एत्थ मोहे पुणो पुणो'' अत्र अस्मिन्निच्छाप्रणीताऽऽदिके हृषीकानुकूले मोहे कर्मरूपे वा मोहे निमग्नाः पुनः पुनस्तत्कुर्वन्ति येन तदप्रच्युतिः स्यात्। तदप्रच्युतौ च किं स्यादित्याह-(इहभेगेसिं इत्यादि) इहास्मिश्चतुर्दशरज्ज्वात्मके लोके एकेषां मिथ्यात्वविरतिप्रमादकषायवता तत्र तत्र नरकतिर्यग्गत्यादिषु यातनास्थानकेषु संस्तवः परिचयो भूयो भूयो गमनाद्भवति। ततः किमित्याह-(अहो-ववाइए इत्यादि) त एवमिच्छया प्रणीतत्वादिन्द्रियवशगास्तद्वशित्वात्तदनुकूलमाचरन्तो नरकाऽऽदियातनास्थानजातसंस्तवास्तीर्थिका अप्यौद्देशिकाऽऽदिनिर्दोषमाचक्षाणाः। (अहोववाइए त्ति) अध औपपातिकान्नरकाऽसदिभवान् स्पर्शान् दुःखानुभवान् प्रतिसंवेदयन्ति अनुभवन्ति / तथाहि-लौकायतिका बुवते- "पिव खाद च चारुलोचने ! यदतीतं वरगात्रि ! तन्नते। न हि भीरु ! गतं निवर्त्तते, समुदयमात्रमिदं कलेवरम् / / 1 / / " वैशेषिका अपि सावद्ययोगाऽऽरम्भिणः, तथाहि ते भाषन्ते-"अभिषेचनोपवासब्रह्मवर्यगुरुकुलवासवानप्रस्थयज्ञदानमो(प्रो) क्षणदिड्नक्षत्रमन्त्रकालनियमाः" इत्यादि, अन्येऽपि सावद्ययोगानुष्ठायिनोऽनया दिशा वाच्याः, स्यात् किं सर्वोऽपीच्छाप्रणीताऽऽदिवित्तत्र तत्र कृतसंस्तवोऽध औपपातिकान् स्पर्शान् प्रतिसेयदयत्याहोस्वित्कश्चिदेव तद्योग्यकर्मकार्ये वाऽनुभवति? न सर्व इति दर्शयति- (चिट्ठ इत्यादि) 'चिट्ट' भृशमत्यर्थ, क्रूरैर्वधबन्धाऽऽदिभिः कर्मभिः क्रियाभिः (चिट्टमिति) भृशमत्यर्थमेव विरूपां दशां वैतरणीतरणासिपत्रवनपत्रपाताभिघातशाल्मलीवृक्षाऽऽलिङ्गनाऽऽदिजनितामनुभवंस्तमस्तमाऽऽदिस्थानेषु परितिष्ठति, यस्तु नात्यर्थं हिंसाऽऽदिभिः कर्मभिर्वर्तते सोऽत्यन्तवेदनानिचितेष्वपि नरकेषु नोत्पद्यते। स्यात् क एवं वदतीत्यत आह-(एगे वयंतीत्यादि) एके चतुर्दशपूर्वविदादयो वदन्ति ब्रुवते। अथवाऽपि ज्ञानी वदति, ज्ञानं सकलपदार्थाऽऽविर्भावकमस्यास्तीति ज्ञानी, स चैतद् ब्रवीति-यदिव्यज्ञानीकेवली भाषते, श्रुतकेवलिनोऽपि तदेव भाषन्ते, यच श्रुतके वलिनोऽपि भाषन्ते निरावरणज्ञानिनोऽपि तदेव वदन्तीत्येतद्गतप्रत्यागतसूत्रेण दर्शयति-(णाणी इत्यादि) ज्ञानिनः केवलिनो यद्वदन्ति, अथवाऽप्येके श्रुतकेवलिनो यद्वदन्तितद्यथार्थभावित्वादेकमेव, एकेषां सर्वार्थप्रत्यक्षत्वादपरेषांतदुपदेशप्रवृत्तेरिति वक्ष्यमाणेऽप्येकवाक्यतेति। तदाह-(आवंतीत्यादि) यावन्तः, (केआवंती ति) केचन लोके मनुष्यलोके श्रमणाः पाषण्डिका ब्राह्मणा द्विजाऽऽदयः पृथक् पृथग् विरुद्धो वादो विवादस्तंवदन्ति। एतदुक्तं भवति-यावन्तः केचन परलोक ज्ञीप्सवस्ते आत्मीयदर्शनानुरागितया पाराक्यं दर्शनमपवदन्तो विवदन्ते / तथाहि भागवता ब्रुवते- 'पञ्चविंशतितत्त्वपरिज्ञानान्मोक्षः, सर्वव्याप्यात्मा निष्क्रियो निर्गुणश्चैतन्यलक्षणो, निर्विशेष सामान्य तत्त्वमिति / " वैशेषिकास्तु भाषन्ते-द्रव्याऽऽदिषट्पदार्थपरिज्ञानान्मोक्षः, समवायिज्ञानगुणेनेच्छाप्रयत्नद्वेषाऽऽदिभिश्च गुणैर्गुणवानात्मा, परस्परनिरपेक्षं सामान्यविशेषाऽऽत्मकं तत्त्वमिति / " शाक्यास्तु वदन्ति- "यथा-परलोकानुयाय्यात्मैव न विद्यते, निः-सामान्य वस्तु | क्षणिकं चेति" मीमांसकास्तु मोक्षसर्वज्ञाभावेन व्यवस्थिता इति। तया केषाञ्चित् पृथिव्यादय एकेन्द्रिया जीवा न भवन्त्यपरे वनस्पतीनामप्यचेतनतामाहुः, तथा द्वीन्द्रियाऽऽदीनामपि कृम्यादीनां न जन्तुस्वभावं प्रतिपद्यन्ते, सद्भावे वा न तदधे बन्धोऽल्पबन्धता येति / तथाहिंसायामपि भिन्नवाक्यता / तदुक्तम्- "प्राणी प्राणिज्ञानं, घातकचित्त च तद्गता चेष्टा। प्राणैश्च विप्रयोगः, पञ्चभिरापद्यते हिंसा / / 1 / / " इत्येवमादिक औद्देशिकपरिभोगाभ्यनुज्ञाऽऽदिकश्च विरुद्धो वादः स्वत एवाभ्यूह्यः / यदिवा-ब्रह्मणाः श्रमणाधर्मविरुद्धं वादं यद्वदन्तितत् सूत्रेणैव दर्शयति- "से दिटुं च णं" इत्यादि यावत्- "णत्थिऽत्थ दोसे त्ति।" 'से त्ति तच्छन्दाथै, यदहं वक्ष्ये तद्दृष्टमुपलब्धं, दिव्यज्ञानेनास्माभिरस्माकं वा संबन्धिना तीर्थकृता आगमप्रणायकेन, चशब्द उत्तरापेक्षया समुचयार्थः, श्रुतं चास्माभिर्गुदिः सकाशात, अस्मद्गुरुः शिष्यैर्वा तदन्तेवासिभिर्वाऽभिमतंयुक्तियुक्तत्वादस्माकमस्मत्तीर्थकराणां वा विज्ञान च तत्त्वभेदपर्यायैरस्माभिरस्मत्तीर्थकरेण वा स्वतो न परोपदेशदानेन। एतचोर्द्धोधस्तिर्यक्षु दशस्वपि दिक्षुसर्वतः सर्वैः प्रत्यक्षानुमानोपमानाऽऽगमार्थापत्त्यादिभिः प्रकारैः सुष्टु प्रत्युपेक्षितं च पर्यालोचितं च, मनःप्रणिधानाऽऽदिनाऽस्माभिरस्मत्तीर्थकरेण वा / किं तदित्याहसर्वे प्राणाः सर्वे जीवाः सर्वे भूताः सर्वे सत्त्वा हन्तव्या आज्ञापयितव्याःक्लामयितव्याः परिगृहीतव्याः परितापयितव्या अपद्रावयितव्याः (पुस्तके मूलटीकयोः पाठव्यत्यास उपलभ्यते / ) / अत्रापि धर्मचिन्तायामप्येवं जानीथाः, यथा-नास्त्यत्र यागार्थ देवतोपयाचितकतया वा प्राणिहननाऽऽदौ 'दोषः पापानुबन्ध इति / एवं यावन्तः केचन पाषण्डिका औद्देशिकभोजिनो ब्राह्मणा वा धर्मविरुद्ध परलोकविरुद्ध वा वादं भाषन्ते। अयं च जीवोपमर्दकत्वात् पापानुबन्धी अनार्यप्रणीत इति / आह च(अणारिय इत्यादि) आराद्याताः सर्वहेयधर्मेभ्य इत्यार्यास्तद्विपर्यासादनार्याः क्रूरकर्माणस्तेषां प्राण्युपघातकारीदं वचनम्।ये तु तथा-भूतान ते किभूतं प्रज्ञापयन्तीत्याह-(तत्थ इत्यादि) तत्रेति वाक्योपन्यासार्थे, निर्धारणे वा। ये ते आर्या देशभाषाचारित्रार्यास्तएवमवादिषुर्यथायत्तदनन्तरोक्तं दुर्दृष्टमेतद् दुष्ट दृष्ट दुर्दुष्ट (भे )युष्माभिर्युष्मत्तीर्थकरेण वा, एवं यावद्दुःप्रत्युपेक्षितमिति। तदेवं दुर्दृष्टाऽऽदिकं प्रतिपाद्यदुःप्रज्ञापनानुवादद्वारेण तदभ्युपगमे दोषाऽऽविष्करणमाह- (जंणमित्यादि) णमिति वाक्यालङ्कारे। यदेतद्वक्ष्यमाणं यूयमेवमाचक्षध्वमित्यादि। यावदत्रापि यागोपहाराऽऽदौ जानीथ यूयम्-यथा नास्त्येवात्र प्राण्युपमर्दानुष्ठाते दोषः पापानुबन्ध इति, तदेवं परवाद दोषाऽऽविर्भावनेन धर्मविरुद्धतामाविर्भाव्य स्वमतवादमार्या आविर्भावयन्ति, (क्यमित्यादि) पुनःशब्दः पूर्वस्माद्विशेषमाह- वयं पुनर्यथा धर्मविरुद्धवादो न भवति तथा प्रज्ञापयाम इति, तान्येव पदानि सप्रतिषेधानि तु हन्तय्यादीनि यावन्न केवलमत्रास्मदीये वचने नास्ति दोषोऽत्राप्यधिकारे जानीथ यूयं यथाऽत्र हननाऽऽदिप्रतिषेधविधौ नास्ति दोषः पापानुबन्धः, सावधारणत्वाद्वाक्यस्य नास्त्येव दोषः, प्राण्युपघात-प्रतिषेधाचार्यवचनमेतत्। एवमुक्ते सति ते पाषण्डिका ऊचुः- भवदीयमार्यवचनमस्मदीयं त्वनार्यमित्येतन्निरन्तराः सुहृदः प्रत्येष्यन्ति, युक्तिविकलत्वात्, तदत्राऽऽचार्यों यथा परमतस्यानार्यता स्यात्तथा दिदर्शयिषुः स्ववाग्यन्त्रिता वादिनो न विचलयिष्यन्तीति कृत्वा प्रत्येकमतप्रच्छना--
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy