________________ धम्म 2666 - अभिधानराजेन्द्रः - भाग 4 धम्म च, इदं परं प्रधानमस्मिन्वाक्य इतीदंपरं तद्भाव ऐदर्पयम, वाक्यस्य तात्पर्य शक्तिरित्यर्थस्तेन शुद्धं यदागमतत्त्वं तदिह ज्ञेयमिति / / 10 / / तदेवाऽऽगमतत्त्वमुपन्यस्यति ग्रन्थकार:आत्माऽस्ति स परिणामी, बद्धः सत्कर्मणा विचित्रेण / मुक्तश्च तद्वियोगा-द्धिंसाऽहिंसाऽऽदि तद्धेतुः।।११।। (आत्माऽस्तीत्यादि) आत्मा जीवः, सोऽस्ति लोकायतमतनिरासे - नैव यत्र प्रतिपाद्यते, तदागमतत्त्वमित्येवं पदान्तरेष्वपि सम्बन्धनीयम्। सपरिणामी, स पूर्वप्रस्तुत आत्मा परिणामी परिणामसहितः, पञ्चस्वपि गतिष्वन्वयी चैतन्यस्वरूपः पुरुषः, परिणामलक्षणं चेदम्- 'परिणामो ह्यर्थान्तरगमनं न च सर्वथा व्यवस्थानम् / न च सर्वथा विनाशः, परिणामस्तद्विदामिष्टः / / 1 / / " स च परिमामी जीवो बद्धः सत्कर्मणा विचित्रेण वस्तु सत्कर्म न काल्पनिकं वासनाऽऽदिस्वभावं, तेन बद्धो जीवप्रदेशकमपुद्गलान्योन्यानुगतिपरिणामेन। यथोक्तं बन्धाधिकारे"तत्र पौद्गलमात्मस्थमचेतनमतीन्द्रिवमा बन्धं प्रत्यादि सत्कर्म, संतति प्रत्यनादिकम् // 1 // " (युक्तश्च तद्वियोगात्) कर्मवियोगात्, आत्यन्तिककर्मपरिक्षयात् (हिंसाऽहिंसाऽऽदित तुरिति) हिंसा आदिर्यस्य तद्धिसाऽऽदि, प्राणातिपाताऽऽदिपञ्चकम्। अहिंसा आदिर्यस्थतदहिंसाऽऽदि, महाव्रतपञ्चकम,तयोर्बद्धमुक्तयोरर्थतो बन्धमोक्षयोर्वा हेतुर्वर्त्तते हिंसाऽद्यहिंसाऽऽदि चेति॥११॥ ऐदम्पर्श्वशुद्ध चेत्युक्तम्। का पुनरैदम्पर्य्यशुद्धिरित्याहपरलोकविधौ मानं, वचनं तदतीन्द्रियार्थदृग व्यक्तम्। सर्वमिदमनादिस्या-दैदम्पर्यस्य शुद्धिरिति / / 12 / / परलोकविषयो विधिः कर्त्तव्योपदेशस्तस्मिन्, मानं प्रमाणं, वचनमागमः, कीदृशभित्याह-तद्वचनमतीन्द्रियानर्थान् पश्यतीत्यतीन्द्रियार्थदृक्, सर्वज्ञः सर्वदर्शी, तेन व्यक्तमभिव्यक्तार्थ प्रतिपादितार्थमिति यावत्। सर्वमिदं वचनमनादि स्यात् प्रवाहतः सर्वक्षेत्राङ्गीकरणेनेयमैदम्पर्यस्य शुद्धिरित्येवंप्रकाराऽवसेयेति // 12 // षो०१ विव०॥ अन्यत्राप्यवाचि"तं शब्दमात्रेण वदन्ति धर्म, विश्वेऽपि लोका न विचारयन्ति / स शब्दसास्येऽपि विचित्रभेदैविभिद्यते क्षीरमिवार्जुनीयम् / / 1 / / लक्ष्मी विधातुं सकलां समर्थ, सुदुर्लभ विश्वजनीनमेनम्। परीक्ष्य गृह्णन्ति विचारदक्षाः, सुवर्णबद्धं च न भीतचित्ताः / / 2 / / " इति! परीक्षोपायमेवाऽऽह-- कषाऽऽदिप्ररूपणेति / यथा सुवर्णमात्रसाम्येन तथाविधमुग्धलोकेष्वविचारेणैव शुद्धाशुद्धरूपस्य सुवर्णस्थ प्रवृत्तौ / कषच्छेदतापाः परीक्षणाय विचक्षणैराद्रियन्ते, छथाऽत्रापि श्रुतधर्मे परीक्षणीये कषाऽऽदीना प्ररूपणेति / कषाऽऽदीनेवाऽऽह--"विधिप्रतिषेधौ कष इति।" "विधिरविरुद्धकर्तव्यार्थोपदेशकं वाक्यम्। यथास्वर्गकवलार्थिना तपोध्यानाऽऽदि कर्त्तव्यं,समितिगुप्तिशुद्धा क्रिया / इत्यादि / प्रतिषेधः पुनः- "न हिंस्यात्सर्वभूतानि" "नानृतं वदेत्' इत्यादि / ततो विधिश्च प्रतिषेधश्च विधिप्रतिधौ, किमित्याह- कषः सुवर्णपरीक्षायामिव कषपट्टके रेखा। इदमुक्तं भवति- यन्त्र धर्मे उक्तलक्षणो विधिः, प्रतिषेधश्च पदे पदे सुपुष्कल उपलभ्यते स धर्मः कषशुद्धः / न पुन:-"अन्यधर्मस्थिताः सत्त्वाः, असुरा इव विष्णुना। उच्छेदनीयास्तेषां हि, वधे दोषो न विद्यते / / " इत्यादिकवाक्यगर्भ इति।छेदमाह"तत्संभवपालना चेष्टोक्तिश्छेद इति / तयोर्विधिप्रतिषेधयोरनाविर्भूतयोः संभवः, प्रादुर्भूतयोश्च पालना रक्षारूपा, ततस्तत्संभवपालनार्थ या चेष्टा भिक्षाऽटनाऽऽदिबाह्यक्रियारूपा, तस्या उक्ति छेदः / यथा कषशुद्धावप्यन्तरामशुद्धिमाशकमानाः सौवर्णिकाः सुवर्णगोलिकाऽऽदेः छेदमाद्रियन्ते,तथा कषशुद्धावपि धर्मस्य छेदमपेक्षन्ते / स च छेदो विशुद्धबाह्यचेष्टारूपो, विशुद्धाच चेष्टा सा यत्रासन्तावपि विधिप्रतिषेधावबाधितरूपौ स्वात्मानं लभेते, लब्धाऽऽत्मानौ चातीचारलक्षणापचारविरहितौ, उत्तरोत्तरां वृद्धिभनुभवतः, सायत्रधर्मे चेष्टा सप्रपञ्चा प्रोच्यते स धर्मश्छेदशुद्ध इति / यथा कषच्छेद शुद्धमपि सुवर्ण तापमसहमानं कालिकोन्मीलनदोषान्न सुवर्णभावमश्नुते, एवं धर्मोऽपि सत्यामपि कषच्छेदशुद्धौ तापपरीक्षायामनिर्वहमाणो न स्वभावमासादयत्यतस्तापं प्रज्ञापयन्नाह-'उभयनिबन्धनभाववादस्ताप इति / ' उभयो: कषच्छेदयोरनन्तरमेवोक्तरूपयोर्निबन्धनं परिणामि, किमित्याहतापोऽत्र श्रुतधर्मपरीक्षाऽधिकारे / इदमुक्तं भवतियत्र शास्त्र द्रव्यरूपतयाऽप्रच्युतानुत्पन्नः पर्यायात्मकतया च प्रतिक्षणमपरापरस्वभावाऽऽस्कन्दनेनानित्यस्वभावो जीवाऽऽदिरवस्थाप्यते स्यात्तत्र तापशुद्धिः / यतः परिणामिन्येवाऽऽत्मादौ तथाविधाशुद्धपर्यायनिरोधेन ध्यानाध्ययनाऽऽद्यपरशुद्धपर्याय-प्रादुर्भावादुक्तलक्षणः कषो बाह्यचेष्टाशुद्धिलक्षणश्च छेद उपपद्यते, न पुनरन्यथेति / एतेषां माध्यात्को बलीयानितरो वेति प्रश्ने यत्कर्त्तव्यं तदाह-"अमीषामन्तरदर्शनमिति।" अमीषा त्रयाणां परीक्षाप्रकाराणां परस्परमन्तरस्य विशेषस्य समर्थासमर्थरूपस्य दर्शनं कार्यमुपदेशकेन, तदेव दर्शयति- "कषच्छेदयोरयत्न इति / कषच्छेदयोः परीक्षाक्षमत्वेनाऽऽदरणीयतायामयत्नो ऽतात्पर्य मतिमतामिति / कुत इत्याह- "तदभावेऽपि तापाभावेऽभाव इति / तयोः कषच्छेदयोर्भावः सत्ता तद्भावस्तस्मिन्, किं पुनरतद्भावे इत्यपिशब्दार्थः / किमित्याह-'तापाभावे' उक्तलक्षणतापविरहे अभावः परमार्थतोऽसत्त्व परीक्षणीयस्य, न हि तापे विघटमानं हेम कषच्छेदयोः सतोरपि स्वं स्वरूप प्रतिपत्तुमल, जातिसुवर्णत्वात्तस्य / एतदपि कथमित्याह- "तच्छुद्धौ हि तत्साफल्यमिति / " तच्छुद्धौ तापशुद्धौ, हिर्यस्मात्तत्साफल्यं तयोः कपच्छेदयोः सफलभावः। तथाहि-ध्यानाध्ययनाऽऽदिकोऽर्थो विधीयमानः प्रागुपात्तकर्मनिर्जरणफलः हिंसाऽऽदिकश्च प्रतिषिद्ध्यमानो नवकर्मोपादाननिरोधफलः, बाह्यचेष्टाशुद्धिश्वानयोरेवानाविभूतयोोगेनाऽऽविर्भूतयोश्च परिपालनेन फलवती स्यात्, न चापरिणाणि आत्मन्युक्तलक्षणी कषच्छेदौ स्वकार्य कर्तुप्रभविष्णू स्याततत्, तयोस्तापशुद्धावेव सफलत्वमुपपद्यते न पुनरन्यथेति। ननुफलविकलावपि तौ भविष्यत इत्यत आह"फलवन्तौ च वास्तवाविति।" उक्तलक्षणफलभाजौसन्तौपुनस्तौकपच्छेदी वास्तवौ कषच्छेदौ भवतः, स्वसाध्यक्रियाकारिणो हि वस्तुनो वस्तुत्वमुशन्ति सन्तः, विपक्षे बाधामाह- "अन्यथा याचितकमण्डनमिति / "