SearchBrowseAboutContactDonate
Page Preview
Page 1368
Loading...
Download File
Download File
Page Text
________________ धम्म 2660 - अभिधानराजेन्द्रः - भाग 4 धम्म एवेति न प्रतन्यन्ते एवमर्थाधिकारद्वयवशात्पञ्चावयवदशावयवाभ्यां वाक्याभ्यां व्याख्यातमध्ययनम्। दश०१ अ० "पडिपुण्णधम्मवियल-तणेण इह अंतरायविवराओ। जीवा ण हुति नियमा, तो जत्तो तत्थ काययो / / जन धम्माउ सोहग, धम्मेण हुंति सयलरिद्धीओ। धम्मेण पवररूवं, तत्तो संविग्गए भणियं / / " दर्श०१ तत्त्व। "भद्दा सयलं किरियं, कुणंति मुणिणो सिवत्थमेव सया। तं पुण लब्भइ गयसय-लरागदोसेण धम्मेण / / 13 / / धम्मेण सरागेण उ, लब्भइ सग्गाइयं फलं सो वि। जायइ परंपराए, नियमेण सुक्खहेउ ति / / 14 / / धम्माओ धणलाभो, तिज पि वुत्तं तयं पिन हु जुत्तं। सव्वो विहु पुरिसत्थो, धम्माउ चिय जओ भणिया / / 15 / / " उक्तंच"धनदो धनार्थिनां धर्मः, कामदः सर्वकामिनाम्। धर्म एवापवर्गस्य, पारम्पर्येण साधकः।।१६।।"ध००। "धर्मोऽयं धनवल्लमेषु धनदः कामार्थिनां कामदः, सौभाग्यार्थिषु तत्प्रदः किमथवा पुत्रार्थिनां पुत्रद। राज्यार्थिष्वपि राज्यदः किमपरं नानाविकल्पैर्नृणा, तत्किं यन्न ददाति किं च तनुते स्वर्गापवर्गावपि / / 54 / / '' ध०र०॥ "धर्माऽऽरख्यः पुरुषार्थोऽयं, प्रधान इति गीयते। पापसत्कं पशोस्तुल्यं, धिग्धर्मरहितं नरम् / / 1 / / स्था०३ ठा०३ उ० (22) धर्मस्य मोक्षकारणत्वं यथासंखाय पेसलं धम्म, दिट्ठिमं परिनिव्वुडे / उवसग्गेऽहियासित्ता, आमोक्खाएपरिव्वए।।२२।। संख्यायेति सम्यक् ज्ञात्वा स्वसंमत्या, अन्यतो वा श्रुत्वा (पेसल त्ति) मोक्षगमनं प्रत्यनुकूलं, किं तद्? धर्म श्रुतचारित्राऽऽख्य, दृष्टिमान् सम्यक्दर्शनी, परिनिर्वृत इति कषायोपशमाच्छीतीभूतः परिनिर्वृतकल्पो वा। उपसर्गाननुकूलप्रतिकूलान्, सम्यड नियम्या-धिसह्याऽऽमोक्षाय मोक्षं यावत् परि समन्ताद् व्रजेत् संयमानुष्ठानेन गच्छेदिति।।२२।। सूत्र० १श्रु०३ अ०४ उ०। ___ अपि चधम्मस्स य पारए मुणी, आरंभस्स य अंतए ठिए। सोयंति य णं ममाइणो, णो लभंति णियं परिग्गहं / / 6 / / धर्मस्य श्रुतचारित्रभेदभिन्नस्य, पारं गच्छतीति पारगः सिद्धान्तपारगामी,सम्यक् चारित्राऽनुष्ठायी वेति / चारित्रमधिकृत्याऽऽहआरम्भस्य सावद्यानुष्ठानरूपस्यान्ते पर्यन्ते तदभावरूपे, स्थितो मुनिर्भवति। ये पुनर्व भवन्ति, ते अकृतधर्माः मरणे दुःखे वा समुत्थिते आत्मानं शोचन्ति / णमिति वाक्यालङ्कारे। यदि च इष्टमरणाऽऽदावर्थनाशे वा (ममाइणो त्ति) ममेदमहमस्य स्वामीत्येवमध्यवसायिनः शोचन्ति / शोचमाना अप्येते निजमात्मीयं परि समन्ताद गृह्यते आत्मसात्क्रियत | इति परिग्रहो हिरण्याऽऽदिरिष्टस्वजनाऽऽदिर्वा, नष्ट मृतं वा, न लभन्ते न प्राप्नुवन्तीति। यदि वा धर्मस्य पारगं मुनिमारम्भस्याऽन्ते व्यवास्थतमनमागत्य स्वजना मातापित्रादयः शोचन्ति समत्वयुक्ताः स्नेहालयः, न च ते लभन्ते निजमप्यात्मीयपरिग्रहबुद्ध्या गृहीतमिति / अत्रान्तरे नागार्जुनीयास्तु पठन्ति"सोऊण तयं उवट्टियं, केइ गिही विग्घेण उठ्ठिया। धम्मम्मि अणुत्तरे मुणी, तं पि जिणिज्ज इमेण पंडिए॥१॥" किं चान्यत्जे धम्म सुद्धमक्खंति, पडिपुण्णमणेलिसं / अणेलिसस्स जंठाणं, तस्स जम्मकहा कओ? ||26|| ये महापुरुषा वीतरागाः करतलाऽऽमलकवत्सकलजगद्दष्टारस्त एवंभूताः परहितैकरताः शुद्धमवदात सर्वोपाधिविशुद्धम्, धर्ममाख्यान्ति प्रतिपादयन्ति, स्वतः समाचरन्ति च। प्रतिपूर्णमायतचरित्रसद्भावात्संपूर्ण यथाख्यातचारित्ररूपं वा। अनीदृशमनन्यसदृशं धर्ममारख्यान्त्युपतिष्ठन्ति / तदेवमनीदृशस्यानन्यसदृशस्य ज्ञानचारित्रोपेतस्य यत् स्थानं सर्वद्वन्द्वोपरमरूपं तदवाप्तस्य कुतो जन्मकथा-जातो मृतो वेत्येवंरूपा कथा, स्वप्नान्तरेऽपि तस्य कर्मबीजाभावात् कुतो विद्यत इति / तथोक्तम्"दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाड्कुरः / कर्मबीजे तथा दग्धे, न रोहति भवाड्कुरः / / 1 / / इत्यादि।।१६।। किश्चान्यत्कओ कयाइ मेधावी, उप्पज्जति तहागया। तहागया अप्पडिन्ना, चक्खू लोगस्सऽणुत्तरा।।२०।। कर्मबीजाभावात्कुतः कस्मात्कदाचिदपि मेधाविनो ज्ञानाऽ5 - त्मकास्तथा पुनरावृत्याऽऽगतास्तथागताः पुनरस्मिन् संसारेऽशुचिगर्भाधाने समुत्पद्यन्ते, न कथञ्चित्कदाचित्कर्मोपादानाभावादुत्पद्यन्त इत्यर्थः / तथा तथागतास्तीर्थकृगणधराऽऽदयो न विद्यन्ते प्रतिज्ञानिदानबन्धनरूपा येषां ते प्रतिज्ञानिदाना निराशंसाः सत्यहितकरणोद्यता अनुत्तरज्ञानत्वादनुत्तरलोकस्य जन्तुगणस्य सदसदर्थनिरूपणकारणतश्चक्षुर्भूता हिताहितप्राप्तिपरिहारं कुर्वन्तः सकललोकलोचनभूतास्तथागताः सर्वज्ञा भवन्तीति / / 20 / सूत्र०१ श्रु०१५ अ०। (आपत्सु दृढधर्मता योगसंग्रहायेति 'आवई' शब्दे द्वितीयभागे 245 पृष्ठ गता) धर्माऽऽख्याने तु यथा पित्रादीनामुपकारस्तथा नान्यथा। (लोगतिय' शब्दे चेदं वक्ष्यते) केवलिप्रज्ञप्तधर्मस्य श्रवणता दुर्लभा / यतोऽवाचि-- "सुलहा सरलोयसिरी, रयणायरमेहला मही सुलहा। निव्वुइसुहजणियरुई, जिणवयणसुई जए दुलहा।।११॥” इति। श्रुतस्य वा श्रद्धानता दुर्लभा। उक्तं च-"आहच्च सवणलटुंसद्धा परमदुल्लहा। सोच्चा नेयाउय मग, बहवे परिभस्सइ / / 1 / / इति / स्था०६ ठा०॥ उक्तंच"लब्भइ सुरसामित्तं, लब्भइ पहुअत्तणं न संदेहो। इक्को नवरि न लब्भइ, जिणिंदवरदेसिओ धम्मो / / 1 / / धम्मो पवित्तिरूवो, लब्भइ कइयावि निरयदुक्खभया। जो निअवसुस्सहावो, सो धम्मो दुल्लहो लोए।।२।। नियवत्थुधम्मसवणं, दुल्लह वुत्तं जिणिंदआणाय। अतप्फासणमेग-त हुति केसिचि धीरण / / 3 / / " अष्ट० 2 अष्टा
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy