________________ धम्म 2661 - अभिधानराजेन्द्रः - भाग 4 धम्म ''एसो य असइ दोसा-सेवणओ धम्मवज्झचित्ताणं। ता धम्मे जइयव्वं, सम्म सइ धीरपुरिसेहिं " ||1 // इति। स्था०६ ठा (23) मनुजभवदुर्लभत्वमुक्त्वा तदवाप्तावनुत्तरोत्तरगुणावाप्ति-रति दुरापैवेत्याहअहीणपंचिंदियत्तं पिसे लहे, उत्तमधम्मसुती हु दुलहा। कुत्तित्थणिसेवए जणे, समयं गोयम ! मा पमायए।॥१८॥ लभ्रूण वि उत्तमं सुई, सद्दहणा पुणरावि दुलहा। मिच्छत्तणिसेवए जणे, समयं गोयम ! मा पमायए ||16|| धम्म पि हु सहहंतया, दुलहया कारण फासया। इह कामगुणेहिं मुच्छिया, समयं गोयम ! मा पमायए।।२०|| कथशिदहीनपश्शेन्द्रियतामप्युक्तन्यायतोऽतिदुर्लभामपि स इति जन्तुर्लभेत प्राप्नुयात्, तथाऽप्युत्तमः प्रधानो यो धर्मस्तस्य श्रुतिराकर्णना या सा तथा, हुरवधारणे, भिन्नक्रमश्च / ततो दुर्लभव, किमिति?, यतः कुत्सितानि च तानि तीर्थानि च कुतीर्थानि शाक्योलूकाऽऽदिप्ररूपितानि, तानि विद्यन्ते येषामनुष्ठेयतया स्वीकृतत्वात्ते कुतीर्थिनः, तान्नितरा सेवतेयःकुतीर्थिनिषेवको जनो लोकः, कुतीर्थिनो हि यशः सत्काराऽऽद्योषिणो यदेव प्राणिप्रियं विषयाऽऽदि, तदेवोपदिशन्ति, तत्तीर्थकृतामप्येवं-विधत्वात् / उक्तं हि- "सत्कारयशोलाभार्थिभिश्व मूढैरिहान्यतीर्थकरैः / अवसादितं जगदिदं, प्रियाण्यपथ्यान्युपदिशद्भिः / / 1 / / " इति सुकरैव तेषां सेवा, तत्सेवनाच्च कुत उत्तमधर्मश्रुतिः? पठ्यते च-''कुत्तित्थणिसेवए जणे'' इति स्पष्टम् / एवं तदुर्लभत्वमवधार्य समयमपि गौतम ! मा प्रमादीः। किंचलब्ध्वाऽपि उत्तमधर्मविषयत्वादुत्तमा तां श्रुतिमुक्त-रूपा, श्रद्धानं तत्त्वरुचिरूपं, (पुणरावि त्ति) पुनरपि दुर्लभं दुरापमपि। इहैव हेतुमाहमिथ्याभावो मिथ्यात्वम्-अतत्वेऽपि तत्त्वप्रत्ययरूपं, तन्निषेवते यः स मिथ्यात्वनिषेवकः, जनो लोकोऽनादिभवाभ्यस्ततया गुरुकर्मतया च तत्रैव च प्रायः प्रवृत्तेः / यत एवमतः समयमपि गौतम ! मा प्रमादीः / अन्यच धर्मा प्रक्रमात् सर्वज्ञप्रणीतम्, अपिर्भिन्नक्रमः। हुक्यिालङ्कारे। ततः श्रद्दधतोऽपि कर्तुमभिलषन्तोऽपि दुर्लभकाः कायेन शरीरेण, उपलक्षणत्वान्मनसा वाचा च स्पर्शका अनुष्ठातारः। कारणमाहइहास्मिन् जगति कामगुणेषु मूर्छिता मूढाः. गृद्धिमन्त इत्यर्थः / जन्तव इति शेषः। प्रायेण ह्यपथ्येष्वेव विषयेष्वभिष्वङ्गः प्राणिनाम,यत उक्तम्"प्रायेण हि यदपथ्यं, तदेव चाऽऽतुरजनप्रियं भवति। विषयाऽऽतुरस्य जगतस्तथाऽनुकूलाः प्रिया विषयाः / / 1 / / " पाठान्तरत:-- कामगुणैमूर्छिता इव मूर्छिताः विलुप्तधर्मविषयचैतन्यत्वात् यतश्चैवमतो दुरापामिमामविकलां धर्मसामग्रीमवाप्य समयमपि गौतम ! मा प्रमादीरिति / उत्त० पाई० 10 अ०। स्था०| (24) पर्यायच्युतस्यैहिकं दोषमाहधम्माओं भट्ट सिरिओववेअं, जण्णग्गि विज्झायमिवऽप्पते। हीलंति णं दुविहिअंकुसीला, दाढट्ठिअंघोरविसं व नाग / / 12 / / धर्मात् श्रमणधर्मतः, भ्रष्ट च्युतं, श्रियाऽपपेतं तपोलक्ष्या अपगतं, यज्ञाग्निमनिष्टोमानिल, विध्यातमिव यामावसानेऽल्पते जसम्, अल्पशब्दो भावतेजःशून्यं भस्मकल्पमित्यर्थः, हीलयन्ति कदर्थयन्ति, पतितस्त्वमिति पक्त्याऽपसारणाऽऽदिना, एनमुन्निष्क्रान्तं, दुर्विहितमुन्निष्क्रमणादेव दुष्टानुष्ठायिनं, कुशीलास्तत्सकोचिता लोकाः, स एव विशेष्यते- (दाढद्वियं ति) प्राकृतशैल्या उद्धृतदंष्ट्र मुत्खातदंष्ट्र, घोरविषमिव रौद्रविषमिव, नागं सर्प यज्ञाग्निसोपमान, लोकनीत्या प्रधानभावादप्रधानभाय-ख्यापनार्थमिति सूत्रार्थः / / 12 / / एवमस्य भ्रष्टशीलस्यौघतयैहिकं दोषमभिधाय ऐहिका-ऽऽमुष्मिकमाह-- इहेव धम्मो अयसो अकित्ती, दुण्णामधिजं च पिहज्जणम्मि। चुअस्स धम्माओं अहम्मसेविणो, संभिण्णवित्तस्स य हिट्ठओ गई ||13|| इहैवेहलोके एवाधर्म इत्ययमधर्मफलेन दर्शयति, यदुतायशः अपराक्रमकृतं न्यूनत्वं, तथा अकीर्तिरदानपुण्यफलप्रवाहरूपा तथा दुर्नामधेयं च 'पुराणः पतितः' इति कुत्सितनामधेयं च / क्वेत्याह- पृथगजने सामान्यलोकेऽप्यास्तां विशिष्टलोके, कस्ये-त्याह-च्युतस्य धर्मात्, उत्प्रव्रजितस्येति भावः / तथाअधर्मसेविनः कलत्राऽऽदिनिमित्तं षट्कायोपमर्दकारिणः, तथासंभिन्नवृत्तस्य चाखण्डनीयखण्डितचारित्रस्य च क्लिष्टकर्मबन्धनात् अधस्तादतिर्नरकेषूपपात इति सूत्रार्थः / / 13 / / अस्यैव विशेषप्रत्यपायमाहमुंजित्तु भोगाइँ पसण्णचेअसा, तहाविहं कटटु असंजमं बहुं / गई च गच्छे अणभिजिअंदुहं, बोही असे नो सुलभा पुणो पुणो // 14|| स उत्प्रव्रजितो भुक्त्वा भोगान् शब्दाऽऽदीन्, प्रसन्नचेतसा धर्मनिरपेक्षतया प्रकटेन चित्तेन, तथाविधमज्ञोचितधर्मफलं, कृत्वाऽभिनिर्वृत्त्य, असंयमं कृष्याद्यारम्भरूपं, बहुमसन्तोषात्प्रभूतं, सइत्थं भूतो मृतः सन्, गतिं च गच्छत्यनमिध्यात्वा अभिध्यात्वा, इष्टानिष्टामित्यर्थः / काचित सुखाऽप्येवंभूता भवत्यत आह-दुःखां प्रकृत्यैवासुन्दरां दुःखजननी, बोधिश्चासौ जिनधर्मप्राप्तिश्चास्योन्निष्क्रान्तस्य न सुलभा पुनः पुनः प्रभूतेष्वपि जन्मसु दुर्लभैव, प्रवचनविराधकत्वादिति सूत्रार्थः / / यस्मादेवं तस्मादेवं तदुत्पन्नदुःखोऽप्येतदनुचिन्त्य नोत्प्रव्रजे-दित्याहइमस्स ता नेरइअस्स जंतुणो, दुहोवणीअस्स किलेसवत्तिणो।