________________ धम्म 2666 - अभिधानराजेन्द्रः - भाग 4 धम्म म्, अन्यथाप्रवृत्तौ तु तद् द्वेषित्वमेवाऽऽपद्यते न तु धर्माः / यथोक्तम्"तत्कारी स्यात्स नियमात्तद्वेषी चेति यो जडः। आगमार्थ तमुल्लङ्घ्य, तत एव प्रवर्त्तते " // 1 // इति / धर्मदासक्षमाश्रमणैरप्युक्तम्- "जो जहवायं न कुणइ, मिच्छादिट्टीतओ उ को अन्नो? वड्वेई मिच्छत्त, पररस संक जणेमाणो' / / 1 / / इति / पुनरपि कीदृशमित्याह-मैत्र्यादिभावसंमिश्रम्। मत्र्यादयः मैत्रीमुदिताकरुणामाध्यस्थ्यलक्षणा ये भावा अन्तः करणपरिणामाः तत्पूर्वकाश्च बाह्यचेष्टाविशेषाः सत्त्वगुणाऽधिकक्लिश्यमानाऽविनयेषु तैः संमिश्र संयुक्त. मैत्र्यादिभावानां निःश्रेयसाभ्युदयफलधर्मकल्पद्रुममूलत्वेनशास्त्रान्तरेषु प्रतिपादनात्, तत्र समस्तसत्त्वविषयः स्नेहपरिणामो मैत्री 1, नमनप्रसादाऽऽदिभिर्गुणाधिकेष्वभिव्यज्यमानाऽन्तर्भक्तिरनुरागः प्रमोदः२, दीनाऽऽदिष्वनुकम्पा करुणा : अरागद्वेषभावो माध्यस्थ्यमिति 4 / तदेवंविधमनुष्टानं धर्म इति दुर्गतिप्रपतज्जन्तुजातधारणात्स्वर्गाऽऽदिसुगतौ धानाच धर्म इत्येवरूपत्वेन कीर्त्यत शब्द्यते सकलाकल्पितभावकल्पना-कल्पनकुशल: सुधीभिरिति। नन्वेवं वचनानुष्ठानं धर्म इति प्राप्तं, तथा च प्रीतिभक्त्यसड़ानुटानेष्वव्याप्तिरिति चेन्न, वचनव्यवहारक्रियारूपधर्मस्येवात्र लक्ष्यत्वेनाव्याप्त्यभावादिति / वस्तुतः प्रीतिभक्तित्व इच्छागतजातिविशेषौ, तद्वजन्यत्वेन प्रीतिभक्त्यनुष्ठानयोर्भेदः, वचनानुष्ठानत्व वचनस्मरणनियतप्रवृत्तिकत्वम्, एतत्त्रितयभिन्नानुष्ठानत्वम् असङ्गानुधानत्वं निर्विकल्पस्वरसवाहिप्रवृत्तिकत्वं वा / इह तु वचनादित्यत्र वेदात्प्रवृत्तिरित्यत्रेव प्रयोज्यत्वार्थिका पञ्चमी, तथा च वचनप्रयोज्य - प्रवृत्तिकत्वं लक्षणमिति न कुत्राप्यव्याप्तिदोषावकाशः, प्रीतिभक्त्यसङ्गानुष्ठानानामपि वचनप्रयोज्यत्वानपायात्। "धर्मश्चित्तप्रभवो, यतः क्रियाऽधिकरणाऽऽश्रयं कार्यम्। मलविगमेनैतत् खलु, पुष्ट्यादिमदेष विज्ञेयः / / 2 / / रागाऽऽदयो मलाः ख-ल्वागमसद्योगतो विगम एषाम् / तदयं क्रियात एव हि, पुष्टिश्चित्तस्य शुद्धस्य / / 3 / / पुष्टिः पुण्योपचयः, शुद्धिः पापक्षयेन निर्मलता। अनुबन्धिनि द्वयेऽस्मिन्, क्रमेण मुक्तिः परा ज्ञेया ||4|" (पो०३ विव०।) इत्यादि षोडशक्ग्रन्थानुसारेण तु पुष्टिशुद्धिमचितं भावधर्मस्य लक्षण, तदनुगता क्रिया च व्यवहारधर्मस्येति पर्यवसन्नम्। प्रतिपादितं चेत्थमेव महोपाध्यायश्रीयशोविजयगणिभिरपि स्वकृतद्वात्रिंशिकायाम् / इत्थं च शुद्धानुष्ठानजन्या कर्भमलापगमलक्षणा सम्यग्दर्शनाऽऽदिनिर्वाणबीजलाभफला जीवशुद्धिरेव धर्मः / यच्चेहाऽविरुद्धवचनानुष्ठान धर्म इत्युच्यते, तत्तूपचारात्। यथा-नमुलोदकं पादरोगः / एतेन व्यवहारभावधर्मयोरुभयोरपि लक्षणे उपपादित भवतः, भावलक्षणस्य द्रव्ये उपचारेणैव संभवात, अन्योऽन्यानुगतत्वं च तयोस्तत्र तत्र प्रसिद्धमिति ? // 3 // प्रदर्शितं धर्मलक्षणम्। अमुमेव धर्म भेदतः प्रभेदतश्च विभणिपुराहस द्विधा स्यादनुष्ठातृ-गृहिव्रतिविभागतः। सामान्यतो विशेषाच्च, गृहिधर्मोऽप्ययं द्विधा / / 4 / / स यः पूर्व प्रवतुभिष्टो धर्मो द्विधा द्वाभ्या प्रकाराभ्यां स्याद् भवेता कुत इत्याह- "अनुष्ठातृगृहितिविभागत इति।'' अनुष्ठातारोधमानुष्ठायको / यौ गृहिअतिनी तयोविभागतो विशेषात, गृहस्थधर्मो यतिधर्मश्चति भावः / तत्र गृहमस्यास्तीति गृही, तद्धर्मश्च नित्यनैमित्तिकानुष्ठानरूपः व्रतानि महाव्रतानि विद्यन्ते यस्मिन् स व्रती, तद्धर्मश्च चरणकरणरूपः / तत्र च गृहिधर्म विशिनष्टि-- 'गृहिधर्मोऽपीति / ' साक्षादेव हृदि वर्तमानतया प्रत्यक्षो गृहिधर्म उक्तलक्षणः, किं पुनः सामान्यधर्म इत्यपिशब्दार्थः / द्विधा द्विभेदः, द्वैविध्यं दर्शयति सामान्यतो विशेषाचेति। तत्र सामान्यता नाम सर्वविशिष्टजनसाधारणानुष्ठानरूपः, विशेषात सम्यग्दर्शनाणुव्रताऽऽदिप्रतिपत्तिरूपः, चकार उक्तसमुच्चय इति // 4|| ध०१ अधिवा (गृहिधर्मः 'गिहिधम्म' शब्दे तृतीयभागे 868 पृष्ठे द्रष्टव्यः) (5) अथ लोकोत्तरमाहधम्मो बावीसविहो, अगारधम्मोऽणगारधम्मो य। पढमो य वारसविहो, दसहा पुण बीयओ होइ / / 12 / / धर्मों द्वाविंशतिविधः सामान्येन द्वाविंशतिप्रकारः, अगारधर्मा गृहस्थधर्मः, अनगारधर्मश्च साधुधर्मः / प्रथमश्चागारधर्मो द्वादशविधः। दशधा पुनर्द्वितीयोऽनगारधर्मो भवतीति गाथासमासार्थः / / 12 / / दश० 6 अ०॥ उपा०। पञ्चा०ा स्था०। (यतिधर्मः 'जइधम्म' शब्दे-ऽस्मिन्नेव भागे 1364 पृष्ठ द्रष्टटयः) (6) व्यासार्थ चाहसम्मत्तमूलमणुवय-पणगं तिन्नि उ गुणव्वया होति। सिक्खावयाइँ चउरो, वारसहा होइ गिहिधम्मो // 2 // तत्र सम्यक्त्वं निःसङ्गे ऽपि देशबलाऽऽयातमिथ्यात्वमोहनीयकममलपरिणामः तन्मूलमाद्यं प्रथमं यस्य तत्सम्यक्त्वमूलम, अनि लघूनि व्रतानि अणुव्रतानि, महाव्रतापेक्षया तेषामतिसूक्ष्मत्वात् / यदि वा-अनुपश्चात् महाव्रतकथनापेक्षया कथनीयत्वेन व्रतानि अनु-व्रतानि, तेषां पञ्चकमणुव्रतपञ्चकमनुव्रतपञ्चकं वा। (तिण्णि त्ति) संख्ययैतानि, तुशब्दस्यैवकारार्थत्वात् त्रीण्येव न तु पञ्च चत्वारि वा, तेषामन्यथारूढत्वात्। किम्? गुणव्रतानि, प्राकृतत्वात् पुंलिङ्गता, व्रतानि गुणव्रतानि भवन्ति जायन्ते, श्रावकधर्म इत्यध्याहारः। चतुश्चत्वारि शिक्षाऽभ्यासस्तदूपाणि व्रतानि चतुःशिक्षाव्रतानि,तैः सहितः समन्वितः, इतिशब्दस्येह लुप्तदर्शनाद्व्रत इति श्रावकधो द्वादशधा द्वादशप्रकारः / इदमत्र हृदयम्- सम्यक्त्वमूलमणुव्रतपञ्चकं श्रावकधो भवति, त्रीणि गुणव्रतानि च चतुःशिक्षापदसहितश्च श्रावकधर्मो भवति / यद्वा-सम्यक्त्वं मूलमस्य सम्यक्त्वमूलः नपुंसकता तु प्राकृतप्रभवा / अणुव्रतानां पञ्चक यत्र सोऽणुव्रतपञ्चकः, प्राकृतवशाचान्यथानिर्देशः। ततः पञ्चाशुव्रतिकः, शेष पूर्ववदितिगाथार्थः / दर्श०२ तत्त्व तथा चपाणे य णाइवाएज्जा, अदिन्नं पि य णादए। सादियं ण मुसं बूया, एस धम्मे वुसीमओ।।१६।। प्राणप्रियाणां प्राणिनां प्राणान्नातिपातयेत्। तथा परेणाऽदत्तं दन्तशोधनमात्रमपि, नाददीत न गृण्हीयात्। तथा-सहाऽऽदिना मायया वर्त्तत इति सादिक समायम्, मृषावादं न ब्रूयात्। तथाहि-परवञ्चनार्थ मृषावादोऽधिक्रियते, स च न मायामन्तरेण भवतीत्यतो मृषावादस्य माया आदिभूता वर्त्तते। इदमुक्तभवति-योहिपरवञ्चनार्थ समायो मृषावादःस परिहियते। यस्तु