SearchBrowseAboutContactDonate
Page Preview
Page 1345
Loading...
Download File
Download File
Page Text
________________ धम्म 2667- अभिधानराजेन्द्रः - भाग 4 धम्म संथमगुप्त्यर्थ न मया मृगा उपलब्धा इत्यादिकः स न दोषायेति। एषयः प्राक् निर्दिष्टो धर्मः, श्रुतचारित्राऽऽख्यस्वभावो वा (बुसीमउ ति) छान्दसत्वान्निर्देशार्थस्त्वयम् / वस्तूनि ज्ञानाऽऽदीनि, तद्वतो ज्ञाना.. ऽऽदिमत इत्यर्थः / यदि वा (वुसीमउ ति) वश्यस्य आत्मवशगस्य, वश्येन्द्रियस्येत्यर्थः / / 16 // अपि चअतिक्कम ति वायाए, मणसा वि न पत्थए। सव्वओ संवुडे दंते, आयाणं सुसमाहरे।।२०।। (अइकमतीत्यादि) प्राणिनामतिक्रमं पीडाऽऽत्मक, महावतातिक्रमं वा मनोऽवधतया परतिरस्कार का, इत्येवंभूतमतिक्रमं वाचा मनसाऽपि न प्रार्थयत्। एतद्वयनिषेधे च कायातिक्रमो दूरत एव निषिद्धो भवति / तदेवं मनोवाक्काय-कृतकारितानुमतिभिश्व नवकेन भेदेनातिक्रमं न कुर्यात् / तथा इन्द्रियदमनेन तपसा वा दान्तःसन् मोक्षरयाऽऽदामगुपादानं सम्यग्दर्शनाऽऽदिकं सुष्ठद्युक्तः सम्यग्विस्रोतसिकारहित आहरेत आददीत, गृण्हीयादित्यर्थः / / 20 / / सूत्र० 1 श्रु० ८अ०। (7) अधुना यतिधर्मस्यावसरः / यद्वा-सम्यगभ्यस्तश्रावकधर्मग्यातितीव्रस्यैकान्ततो भवभ्रमणविमुखस्य संयतातिशिवसुखाभिलाषातिरकस्य यतिधर्मकरणश्रद्धोत्पद्यते, अतस्तत्स्वरूपनिरूपणायदमाहखंती य मद्दवऽज्जव, मुत्ती तवसंजमे य बोधव्वे / सचं सोयं आकिं-चणं च बभं च जइधम्मो / / 4 / / प्रायः प्रतीताथैव, नवरमाद्यपदचतुष्टयेन कषायजयः प्रतिपादितः। तपः पुनदिशप्रकार,तचान्यतोऽवसेयम्। संयमश्च सप्तदशविधः। यत उक्तम्"पञ्चाऽऽश्रवाद्विरमणं, पञ्चेन्द्रियनिग्रहः कषायजयः। दण्डत्रयविरतिश्चेति संयमः सप्तदशभेदः // 1 // " सत्यं सर्वथाऽलीकपरिहरणं, शौचं वचनक्रिययोरविसंवादेन सदाचारता, आकिञ्चन्यं किचनं द्रव्यमुच्यते, ततो न किञ्चनमकिञ्चनमकिञ्चनस्य भाव आकिञ्चन्यमद्रव्यतेत्यर्थः। यतिधो भवतीति सर्वत्र योजनीयम् / मुक्तिपदोपादानेऽप्याकिञ्चनस्य लब्धत्वादाकिञ्चनपदोपादानं विशेषद्योतनार्थम्। विशेषश्चात्र संयमोपष्टम्भनिमित्त किश्चित्प्राशुकैषणीयमुपकरणं धारयन्नपि मुक्ततोपेत एव भवति। ननु पुनरतिजडताऽवष्टब्धमना दिगम्बरपरिकल्पनया मुक्तिमान, नस्या असंयमाऽऽदिदोषदुष्टत्वेनाभिमतत्वात् तर्हि संयमोपकारायैव सकिञ्चनताऽपि भविष्यति मुक्तता, नेत्याह-सर्वथैव संयमोपघातकत्वेनातिदुष्त्वादिति। चशब्दः समुचयार्थः / ब्रह्मच ब्रहाचर्य, रत्रीसेवापरिहार इति गाथार्थः / दर्श०२ तत्त्व / स्था०। तिविहे धम्मे पण्णत्ते। तं जहा-सुयधम्मे, चरित्तधम्मे, अत्थिकायधम्मे। (तिदिहे धम्मे इत्यादि) श्रुतमेव धर्मः श्रुतधर्मः स्वाध्यायः, एवं चारित्रधर्मः क्षान्त्यादिश्रमणधर्मः। अयं च द्विविधोऽपि द्रव्यभावभेदे धर्मे भावधार्म उक्तः / यदाह- "दुविहो उ भावधम्मो, सुयधम्मो खलु वरितधम्मो य। सुयधम्मे सज्झाओ, चरित्तधम्मे समणधम्मो / / 1 / / " इति / अस्तिशब्देन प्रदेशा उच्यन्ते, तेषां कायो राशिरस्तिकायः, स चासौ संज्ञया धर्मश्चेत्यस्तिकायधम्मो, गत्युपष्टम्भलक्षणो धर्मास्तिकाय इत्यर्थः / अयं च द्रव्यधर्म इति। स्था०३ ठा०३ उ०। प्रकारान्तरेण धर्मभेदानाहतिविहे भगवया धम्मे पण्णत्ते / तं जहा- सुअहिजिए, सुज्झाइए, सुतवस्सिए। जया सुअहिज्जियं भवइ तदा सुज्झाइयं भवई, जया सुज्झाइयं भवइ तया सुतवस्सियं भवइ / से सुअहिजिए सुज्झा-इए सुतवस्सिए सुयक्खाए णं भगवया धम्मे पण्णत्ते॥ "तिविहे" इत्यादि स्पष्ट, केवलं भगवता महावीरणेत्येवं जगाद सुधास्वामी जम्बूस्वामिनं प्रतीति, सुष्टु कालविनयाऽऽद्याराधनेनाधीतं गुरुसकाशात् सूत्रतः पठितं स्वधीतं तथा सुष्ठ विधिना तत एव व्याख्यानेनार्थतः श्रुत्वा ध्यातमनुप्रेक्षितं श्रुतमिति गम्यं सुध्यातम्, अनुप्रेक्षणाभावे तत्वानवगमेनाध्ययनश्रवणयोः प्रायोऽकृतार्थत्वादिति। अनेन भेदद्वयेन श्रुतधर्म उक्तः। तथा सुष्टु इहलोकाऽऽद्याशंसारहितत्वेन तपसितं तपस्यनुष्ठानं सुतपसितमिति चारित्रधर्म उक्त इति त्रयाणामप्येवमुत्तरोत्तर तोऽविनाभावं दर्शयति- "जया'' इत्यादि व्यक्तं, पर निर्दोषाध्ययनं विना श्रुतार्थाप्रतीतेः सुध्यातं न भवति, तदभावे ज्ञानविकलतया सुतपसितं न भवतीति भावः / यदेतत् स्वधीताऽऽदित्रयं भगवता वर्द्धमानस्वामिना धर्मः प्रज्ञपः (से नि) स स्थाख्यातः सुष्ठूक्तः सम्यग्ज्ञानक्रियारूपत्वात् तयोश्चैकान्तिकाऽऽत्यन्तिकसुखाबन्ध्योपायत्वेन निरुपचरितधर्मत्वात् सुगतिधारणाद्धि धर्म इति / उक्तं च-- "नाणपगासयं सो-हओ तओ संजमो य गुत्तिकरो। तिण्हं पि समाओगो, माक्लो जिणसासणे भणिओ // 1 // ' इति / णमितिवाक्यालङ्कारे, सुतपसितमिति। रथा०३ ठा०४ उ०। (8) द्रव्यभावभेदेन द्विविधं धर्म प्रतिपिपादयिषुराहदुह दव्वभाव धम्मो, दव्वे दव्वस्स दब्बमेवं वा। तित्ताइसभावो वा, गम्मादित्थी कुलिंगो वा।। धर्मा द्विविधः / तद्यथा- द्रव्यधर्मो, भावधर्मश्च / तत्र द्रव्ये इति द्वारपरामर्शः / द्रव्यविषयो धर्म उच्यते-द्रव्यस्यानुपयुक्तस्य धर्मो मूलोत्तरगुणानुष्ठानं द्रव्यधर्मः, "इह अनुपयुक्तो द्रव्यम्' इति वचनात्। द्रव्यमेव वा धर्मो द्रव्यधर्मः धर्मास्तिकायः (तित्ताइसहावो वा इति) तिक्ताऽऽदिर्वा द्रव्यस्य स्वभावो द्रव्यधर्मः। (गम्मादित्थी कुलिंगो वत्ति) गम्याऽऽदिधर्मः रत्रीविषयो द्रव्यधर्मः, तत्र केषाश्चित मातुलदुहिता गम्या केषाश्चिदगम्येत्यादि। तथा कुलिङ्गो वा कुतीर्थिकधर्मो द्रव्यधर्मः / पाठान्तरम्दुविहो उ होइ धम्मो, दव्वधम्मो य भावधम्मो य / धम्मत्थिकायदव्वे, दव्वस्स व जस्स जो भावो / सुगमा। भावधर्मप्रतिपादनार्थमाहदुह होइ भावधम्मो, सुयचरणे वा सुयम्मि सज्झातो। चरणम्मि समणधम्मो, खंती मुत्ती भवे दसहा / / द्विविधो भवति भावधर्मः / तद्यथा-श्रुतःचरणप्रकार: क्षान्त्यादिः। पाठान्तरम्भावम्मि होइ दुविहो, सुयधम्मो खलु चरित्तधम्मो य / सुयधम्मो सज्झातो, चरित्तधम्मो समणधम्मो //
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy