________________ धण 2653 - अभिधानराजेन्द्रः - भाग 4 धणंजय पश्चादागे नयनेन बन्धनं यस्य स तथा तं कुर्वन्ति / (कसप्पहारे यत्ति) वधतामनानि, (छिव त्ति) श्लक्ष्णः कशः लता कम्बा, बालघातकः प्रहारदानेन बालमारकः प्राणवियोजनेन, (रायमचे त्ति) राजामात्यः (अवरज्झइ त्ति) अपराध्यति अनर्थ करोति, (नण्णत्थ ति) न त्वन्यवेत्यर्थः / वाचनान्तरे त्विदं नाधीयत एव, स्वकानि निरुपचरितानि नोपचारेणाऽऽत्मनः संबन्धीनि, (लहुस्सगंसि त्ति) लघुः स्व आत्मा स्वरूप यस्य स लघुस्वकः अल्पस्वरूपः, राज्ञि विषये अपराधो राजापराधस्तत्र संप्रज्ञप्तः प्रतिपादितः, पिशुनैरिति गम्यते / (भोयणपिडयं ति) भोजनस्थाल्याधारभूतं वंशमय भाजनं पिटकं, तत्करोति सजीकरोतीत्यर्थः / पाठान्तरेण- (भरेइ त्ति) पूरयति / पाठान्तरेणभोजनपिटकैः करोति-अशनाऽऽदीनिलाञ्छितं रेखाऽऽदिदानतो मुद्रितं कृतमृदादिमुद्रम्, (उल्लंछेइ त्ति) विगतलाञ्छनं करोति (परिवेसयति) भोजयति (अवियाई ति) अपिः संभावने। (आई ति) भाषायाम् / अरेः शत्रोर्वेरिणः सानुबन्धशत्रुभावस्य, प्रत्यनीकस्य प्रतिकूलवृत्तेः, प्रत्यमित्रस्य वस्तु वस्तु प्रति अमित्रस्य, (धणस्स त्ति) कर्मणि षष्ठी, उच्चारप्रस्रवणं कर्तृ, णमि-त्वलङ्कारे। (डव्वाहित्थ त्ति) उद्वाधवति स्म (एहि तावेत्यादि) एहि आगच्छ तावदिति भाषामात्रे / हे विजय ! एकान्तं विजनयपक्रमामो यामः (जेणं ति) येनाहमुच्चाराऽऽदि परिष्ठापयामीति / (छुदेणं ति) अभिप्रायेण, यथारुचीत्यर्थः / (अलंकारियसह ति) यस्यां नापिताऽऽदिभिः शरीरसत्कारो विधीयते, अलंकारिककर्म नखखण्डनाऽऽदि, दासा गृहदासीपुत्राः, प्रेष्वा ये तथाविधप्रयोजनेषु नगरान्तराऽऽदिषु प्रेष्यन्ते भृतका ये आवालत्यात्पोषिताः / (भाइल्लग त्ति) ये भाग लाभस्यलभन्ते, ते क्षेमकुशलमनामुद्भवानर्थप्रतिघातरूपं, कण्ठे च गृहीत्वा कण्ठाकण्ठि। यद्यपि व्याकरणे युद्धविषय एवैवंविधोऽव्ययीजाप इष्यते, तथापि योगविभागाऽऽदिभिरेतस्य साधुशब्दता दृश्येति। (अवयासिय त्ति) आलिङ्गय, वाष्यप्रमोक्षणमानन्दाश्रुजलप्रमोचनम्। (नायएचेत्यादि) नायकः प्रभुः, न्यायदो वा न्यायदर्शी, ज्ञातको या स्वजनपुत्रकः / इतिरूपप्रदर्शने, वा विकल्पे। (घाडियएत्ति) सहचारी, सहायः साहाय्यकारी, सुहृन्मित्रम्, (बंधेहि य त्ति) बन्धो रज्ज्वादिबन्धन, वधो यष्ट्यादिताडनं, कशप्रहाराऽऽदयस्तु तद्विशेषाः (काले कालोभास इत्यादि) कालः कृष्णवर्णः काल एवावभासते द्रष्टणा, कालो वा अवभासो दीप्तिर्यस्य स कालावभासः। इह यावत्करणादिदं दृश्यम्- "गंभीरलोमहरिसे भीमे उत्तासणए परमकण्ह वण्णेणं, से णं तत्थ निचं भीए निचं तत्थे निच तसिए निच परमसुहसंबद्ध नरग त्ति।" तत्रगम्भीरी महानोमहर्षी भयसभूतो रोमाची यस्य यतो वा सकाशात् स तथा / किमित्येयमित्याह- भीमो भीष्म अत एवोत्त्रास-कारित्वादुत्त्रासनकः। एतदपि कुत इत्याह-परमकृष्णो वर्णेनेति, परां प्रकृष्टां अशुभसंबद्धां पापकर्मणोपनिताम, (अगाइयमित्यादि) अनादिकम्। (अणवदग्गं त्ति)अनन्तम् (दीहमद्धं ति) दीर्घाद्धं दीर्घकालं, दीर्धाध्वं वा दीर्घमार्गम्, चातुरन्तं चतुर्विभागं संसार एव कान्तारमरण्यं संसारकान्तारमिति / अतोऽधिकृतं ज्ञानं ज्ञापनीये योजयन्नाह-(एवामेवेत्यादि) एवमेव विजयचौरवदेव, (सारेणं ति) सारे, णमित्यलद्वारे करणे तृतीया वेयम् / लुभ्यति लोभीभवति / (से वि एवं चेव त्ति) सोऽपि प्रव्रजितो विजयवदेववन्नरकादिकमुक्तरूपं प्राप्नोति। "जहाण " इत्यादिनाऽपि ज्ञातमेव विज्ञापनीये नियोजितम् (नण्णत्थ सरीरसारक्खणट्टाए त्ति) न शरीररक्षणार्थादन्यत्र तदर्थमेवेत्यर्थः / (जहा से धणे त्ति) दृष्टान्तनिमगनम् / इह पुनर्विशेषयोजनामिमामभिदधति बहुश्रुताः। इह राजगृहनगरस्थानीय मनुष्यक्षेत्रं, धनसार्थवाहस्थानीयः साधुजीवः, विजयचौरस्थानीयं शरीरं, पुत्रस्थानीयो निरुपमनिरन्तराऽऽनन्दनिबन्धनत्वेन संयमो भवति। असत्प्रवृत्तिकशरीरात्संयमविघातः। आभरणस्थानीयाः शब्दाऽऽदिविषयाः, तदर्थप्रवृत्तं हि शरीरं संयमविघाते प्रवर्तत, हडिबन्धनस्थानीयं जीवशरीरयोरविभागेनावस्थानं, राजस्थानीयः कर्मपरिणामः राजपुरुषस्थानीयाः कर्मभेदाः, लघुस्वकासराधस्थानीयाः मनुष्याऽऽयुष्कबन्धहेतवः मूत्राऽदिमलपरिष्ठापनस्थानीषाः प्रत्युपेक्षणाऽऽदयो व्यापाराः, यतो भक्ताऽऽदिदानाभावे यथाऽसौ विजयः प्रश्रवणाऽऽदिव्युत्सर्जनाय न प्रवृत्तवान्, एवं शरीरमपि निरशनं प्रत्युपेक्षणाऽऽदिषु न प्रवर्त्तते / पान्थस्थानीयो मुग्धसाधुः, सार्थवाहस्थानीया आचार्याः, ते हि विवक्षितसाधुं भक्ताऽऽदिभिः शरीरमुपष्टम्भयन्तं साध्वन्तरादुपश्रुत्योपालम्भयन्ति विवक्षितसाधुनैव निवेदिते वेदनावैयावृत्यादिके भोजनकारणे परितुष्यन्ति वेति। पठ्यतेच "सिवसाहणेसु आहा-रविरहिओ जं न वट्टए देहो। तम्हाधणो देव विजयं, साहू तं तेण पोसेज्जा // 1 // " एवं खल्वित्यादि निगमनम्, इतिशब्दः समाप्तौ / ब्रवीमीति पूर्ववदेवेति / ज्ञा०१ श्रु०२ अ०। कौशाम्बीनगरस्थेस्वनामख्याते सार्थवाहे, आचा०१ श्रु०२ अ०१ उ०। (तत्कथा आतट्ट शब्दे द्वितीयभागे 157 पृष्ठे दृश्या) चम्पानगरीवास्तव्ये सार्थवाहे, ''चंपाए परममाहेसरो धणो णाम सत्थवाहो / "आ०म०१ अ०२ खण्ड / आ०चू० / (तद्वक्तव्यता 'चक्खिदिय' शब्दे तृतीयभागे 1105 पृष्ठे द्रष्टव्या) चम्पानगरीवास्तव्येऽहिच्छत्रासंप्रस्थिते स्वनामख्याते सार्थवाहे, ज्ञा०१ श्रु० 15 अ०। (तत्कथा'णदिफल'' शब्देऽस्मिन्नेव भागे 1753 पृष्ठे द्रष्टव्या) वसन्तपुरस्थे स्वनामख्याते सार्थवाहे, आ०म० अ०२ खण्ड। पाटलिपुत्रनगरस्थे स्वनामख्याते श्रेष्ठिनि, तस्यदुहिता भगवतो महावीरस्य सकाशे प्रव्रजिता / आ०चू०१अ०। अपरविदेहस्थक्षितिप्रतिष्ठितनगरस्थे स्वनामख्याते सार्थवाहे, स च त्रयोदशे भये ऋषभनामा तीर्थकर आसीत् / आ०म० 1 अ०१ खण्ड। आ०चू०। कस्मिंश्चित् सन्निवेशे स्थिते ग्रामाधिपतिसुते धनवतीपतौ स्वनामख्याते सार्थवाहे, पुं०। स च तीर्थकरनामकर्मोदयादरिष्टनेमिस्तीर्थंकरोऽभूत्। उत्त०२२ अ०) धणंजय-पं०(धनञ्जय) धनंजयति जि-स्वच् मुम् च / अर्जुने, वहीं, नागभेदे, पोषणकरे देहव्यापिवायौ, ककुभवृक्षे, चित्रकवृक्षे च / वाचा अपरविदेहस्थमूकाराजधानीभवे स्वनामख्याते नृपे, यस्य पुत्रः प्रियमित्रो विंशतिभिस्तीर्थकरत्वकारणैस्तीर्थक रत्वमवाप / आ०म०१ अ०१ खण्ड / आ० का आ०चूला कल्प०। सौर्यपुरनगरस्थे स्वनामख्याते श्रेष्ठिनि, आव०४ अ० आ००। आ०चू०। (तत्कथा शौचेन योगसंग्रहावसरे 'सुइ' शब्दे दृश्या) पक्षस्य पञ्चदशसु दिवसेषु नवमे दिवसे, ज्यो०४ पाहु० ज०) कल्प०। स्वनामख्याते