________________ धण 2652 - अभिधानराजेन्द्रः - भाग 4 धण विशेषितः, तथा दुष्ट शीलं स्वभाव आकार आकृतिश्चरित्रं वाऽनुष्टानं यस्य स तथा। ततः कर्मधारयः / द्यूतप्रसङ्गी द्यूताऽऽसक्तः। एवमितराणि, नवर भोज्यानिखण्डखाद्याऽऽदीनि, पुनरुणग्रहणं हृदयदारक इत्यस्य / विशेषणार्थत्वात् न पुनरुक्तम्।लोकानां हृदयानि दारयति स्फोटयतीति हृदयदारकः / पाठान्तरेण -(जणहियाकारए) जनहितस्याकर्तेत्यर्थः / साहसिको वितर्कितकारी, संघिच्छेदकः क्षेत्रखानकः, औपधिको मायित्वेन प्रच्छन्नचारी, विस्रम्सघाती विश्वासघातकः, आदीपकोऽनिदाता, तीर्थानि तीर्थभूतदेवद्रोण्यादीनि, भिनत्ति द्विधाकरोति, तद्रव्यमोषणाय तत्परिकरभेदनेनेति तीर्थभेदः / लघुभ्यां क्रियासु दक्षाभ्या हस्ताभ्यां संप्रयुक्तो यः स तथा, ततः पदत्रयस्य कर्मधारयः / परस्य द्रव्यहरणे नित्यमनुबद्धः, प्रतिबद्ध इत्यर्थः / तीव्रवैर अनुबद्धविरोधः, अतिगमनानि प्रवेशमार्गान्, निर्गमनानि निस्सरणभार्गान्, द्वाराणि प्रतोल्यः, अपद्वाराणि द्वारिकाः, "छिण्डी' छिण्डिका वृतिछिद्ररूपाः, "खण्डी' प्राकारच्छिद्ररूपाः, नगरनिर्द्धननानि नगरजलनिर्गमक्षालनान् संवर्तनानि मार्गमिलनस्थानानि,निवर्तनानि मार्गनिवर्त्तनस्था नानि, द्यूतखलानि चूतस्थण्डिलानि, पानागाराणि मद्यगेहानि, वेश्यागाराणि वेश्याभवनानि, तस्करस्थानानि शून्यदेवकुलागाराऽऽदीनि, तस्करगृहाणि तस्करनिवासान् शृङ्गाटकाऽऽदीनि प्राग व्याख्यातानि सभाजनोपवेशनस्थानानि, प्रपा जलदानस्थानानि, लिङ्ग व्यत्ययश्च प्राकृतत्वात्। पणितशालाहट्टान् शून्यगृहाणि प्रतीतानि, आभोगयन् पश्यन् मार्गयन् अन्वयधर्मपर्यालोचनतः गवेषयन् व्यतिरेकधर्मपर्यालोचनतः, बहुजनस्य छिद्रेषु प्रविरलपरिचारत्वाऽऽदिषु चौरप्रवेशावकाशेषु विषमेषु तीव्ररोगाऽऽदिजनितातुरत्वेषु, विधुरेषु इष्टजनवियोगेषु व्यसनेषुराजाऽऽद्युपप्लवेषु, तथाऽभ्युदयेषु राजलक्ष्म्यादिलाभेषु, उत्सवेषु इन्द्रोत्सवाऽऽदिषु, प्रसवेषु पुत्राऽऽदिजन्मसु, तिथिषु मदनत्रयोदश्यादिषु, क्षणेषु बहुलोकजनदानाऽऽदिरूपेषु, यज्ञेषु नागाऽऽदिपूजासु, पर्वणीषु कौमुदीप्रभृतिषु अधिकरणभूतासु मत्तः पीतमद्यतया, प्रमत्तश्च प्रमादवान् यः स तथा, तस्य बहुजनस्येति योगः। व्याक्षिप्तस्य च प्रयोजनान्तरोपयुक्तस्य, व्याकुलस्य च नानाविधकार्याक्षेपेण सुखितस्य दुःखितस्य च, विदेशस्थस्य च देशान्तरस्थस्य, विप्रोषितस्य च देशान्तरं गन्तुंप्रवृत्तस्य, मार्ग चपन्थान छिद्रं च अपद्वार, विरहं च विजनम्, अन्तरं चावसर-मिति। आरामादिपदानि प्राग्वत् / (सुसाणेसु य ति) श्मशानेषु, गिरिकन्दरेषु गिरिरन्ध्रेषु, लयनेषु गिरिवर्तिपाषाणगृहेषु, उपस्थानेषु तथाविध-मण्डपेषु, बहुजनस्य छिद्रेष्वित्यादि पुनरावर्तनीयम् / (जाव एवं च णं विहरइ ति) (कुटुंबजागरियं जागरमाणीए ति) कुटुम्बचिन्तायां जागरणं निद्राक्षयः कुटुम्बजागरिका, द्वितीयायास्तृतीयार्थत्वात् / तया जाग्रत्या विशुद्धमानया, अथवा कुटुम्बजागरिकां जाग्रत्याः कुर्वन्त्याः (पयायामि त्ति) प्रजनयामि। "तासिं मन्ने।" इत्यत्र तासां सुलब्धजन्मजीवित-फलम्, अहं मन्ये वितर्कयामि यासा निजककुक्षिसम्भूतानीत्येवम-क्षरघटना कार्या; निजककुक्षिसंभूतानि डिम्भरूपाणि इति गम्यते / स्तनदुग्धलुब्धकानि मधुरसमुल्लापकामि मन्मनं स्खलत्प्रजल्पितं येषां तानि तथा / स्तनमूलात्कक्षादेशभागमभिसरन्ति संचरन्ति, स्तनज पिबन्ति | ततश्च कोमलकमलोपमाभ्यां हस्ताभ्यां गृहीत्वा उत्सङ्गनिये-शितानि ददति समुल्लापकान् समधुरान, (एतो एगमविन पत्त त्ति) इतः पूर्वमेकमपि डिम्भक न प्राप्ताः / अथवा इत उक्तलक्षणात् डिम्भकविशेषणकलापादेकमपि विशेषणं न प्राप्ता। ''बहिया नागधराणि वा'' इत्यादि प्रतीतम्। (जाणुपायवडिय त्ति) जानुभ्यां पादपतिता जानुपादपतिता, जानुनी भुवि विन्यस्य प्रणति गतेत्यर्थः / “जाय च'' इत्यादि / योगं पूजां दायं पर्व दिवसाऽऽदौ दानं भाग लाभांशम् / अक्षयनिधिमव्ययं भाण्डागारम्, अक्षयनीवी वा मूलधनं, येन जीणीभूतस्य देवकुलस्योद्धारः करिष्यते / अक्षीणकां वा प्रतीतां बर्द्धयामि, पूर्वकाले अल्पं सन्तं महान्तं करोमीति भावः। (उवायइयं ति) उपयाच्यते मृग्यते स्म यत्तत उपयाचितमीप्सित वस्तु याचितुं प्रार्थयितुम् / (उल्लपडसाडिय त्ति) स्नानेनाद्रपटशाटिके उत्तरीयपरिधानवस्त्रे यस्याः सा तथा / (आलोए त्ति ) दर्शने नागाऽऽदिप्रतिमानां प्रणामं करोति / ततः प्रत्युन्नमति, लोमहस्तकं प्रमा निकां परामशति गृह्णाति , ततस्तेन ताः प्रमाजयति। (अब्भुक्खेइ त्ति) अभिषिञ्चति वस्त्राऽरोपणाऽऽदीनि प्रतीतानि। “चाउद्दसी' इत्यादौ "उद्दिट्ठत्ति" अमावास्या. (आपन्नसत्त त्ति) आपन्न उत्पन्नः सत्त्वो जीवो गर्भ यस्याः सा तथा। डिम्भदारकुमारकाणामल्पबहुबहुतरकालकृतो विशेषः।मूञ्छितो मूढो, गतविवेकचैतन्य इत्यर्थः / ग्रथितो लोभतन्तुभिःसन्दर्भितः, गृद्ध आकाक्षावान्, अध्युपपन्नः --अधिकं तदेकाग्रतां गत इति।शीघ्राऽऽदीनि एकार्थिकानि शीघ्रतातिशयख्यापनार्थानि / निःप्राणमुच्छासाऽऽदिरहितं, निश्चेष्ट व्यापाररहितं (जीवविप्पजढं ति) आत्मना विप्रमुक्तो निश्चलो गमनागमनाऽऽदिवर्जितः, निष्पदो हस्ताऽऽद्यवयवचलनरहितः, तूष्णीको वचनरहितः, क्षेपयन् प्रेरयन, श्रुति वार्तामात्रं, क्षुति तस्यैव संबन्धिनं शब्द, तचिह्न वा, प्रवृत्तिं व्यक्त्यन्तरवार्ता नीतो मित्राऽऽदिना स्वगृहे अपहृतश्चौरेण आक्षिप्त उपलोभिताः। (परसुनियत्तेवत्ति) परशुना कुठारेण निकृत्तः छिन्नो यः स तथा तद्वत्। (नगरगुत्तिय त्ति) नगरस्य गुप्तिं रक्षां कुर्वन्तीति नगरगुप्तिका आरक्षिकाः। (संनद्धबद्धवम्मियक्वय त्ति) सनद्धाः संहननाभिः कृतसन्नाहाः,बद्धाः कशाबन्धनेन वम्मिताश्च अङ्गरक्षीकृताः शरीरारोपणेन कवचाः कङ्कटा यैस्ते तथा / ततः कर्मधारयः / अथवा-धर्मितशब्दः क्वचिन्नधीयत एव / (उप्पी-लियसरा-सणपट्टिया) उत्पीडिता आक्रान्ता गुणेन शराऽऽसनं धनुस्तलक्षणा पट्टिका यैस्ते तथा। अथवा-उत्पीडिता बद्धा शरासनपट्टिका बाहुपट्टको यैस्ते तथा / दृश्यते च धनुर्द्धराणां बाही चर्मपट्टबन्ध इति / इह स्थाने यावत्करणादिदं दृश्यम्- "पिणद्धगेवेजबद्धआविद्धविमलवरचिंधपट्टा'' पिनद्धानि परिहितानि गैवेयकाणि ग्रीवारक्षाणि यैस्ते तथा / बद्धो गाढीकरणेन आविद्धः परिहितो मस्तके विमलो वरश्चितपट्टो यैस्ते तथा / ततः कर्मधारयः / ''गहियाउहपहरणा / "गृहीतान्यायुधानि प्रहरणाय प्रहारदानाय यैस्ते तथा / अथवाऽऽयुधप्रहरणयोः क्षेप्याक्षेप्यकृतो विशेषः / (ससक्खं ति) ससाक्षि साक्षिणोऽध्यक्षान् विधायेत्यर्थः। (सहोद ति) समोषम्, (सीवेज ति) सह गैवेयकेन ग्रीवाबन्धनेन यथा भवति तथा गृह्णन्तिा (जीवग्गाहं गिण्हति त्ति) जीवतीति जीवस्तं जीवं जीवन्तं गृह्णन्ति अस्थिमुष्टिजानुकूपरस्तेषु वा ये प्रहारास्तैः संभग्नं मथितं मोटितं जर्जरिति गात्रं शरीरं यस्य स तथा, तं कुर्वन्ति। (अवउमगबंधणं ति) अवकोटनेनावमोटनेन काटिकाया बाह्रोच