________________ धण 2651 - अभिधानराजेन्द्रः - भाग 4 धण णो बहूणि हत्थच्छेयणाणि य कण्णच्छेयणाणि य णासाच्छेयणाणि य एवं हियउप्पायपाणि य वसणुप्पाथणाणिय उल्लंठणाणि यपाविहिंति, अणादीयं च णं अणवदग्गं दीहं०जाव वीईवइस्संति जहा व से धणे सत्थवाहे सिवसाहणेसु आहारे विहरिवं तं ण वट्टए साहु देहो तम्हा घणु व्व विजयं साहू, तं तेण पोसिज्जा। एवं खलु जंबू ! समणेणं भगवया महावीरेणं०जाव संपत्तेणं दोचस्स णायज्झयणस्स अयमढे पण्णत्ते त्ति बेमि॥ एवं खल्वित्यादि तु प्रकृताध्ययनार्थसूत्र, सुगम चैतत्सर्व, नवरं जीर्णोद्यानं चाप्यभूत, चापीति समुच्चये, अपिचेत्यादिवत् / विनष्टानि देवकुलानि परिशटितानि तोरणानि प्राकारद्वारदेब-कुलसंबन्धीनि गृहाणि च यत्र तत्तथा / नानाविधा ये गुच्छा वृन्ताकीप्रभृतयः, गुल्मा वंशजालीप्रभृतयः, लता अशोकलताऽऽदयः, वल्ल्यस्त्रपुषीप्रभृतयः, वृक्षाः सहकाराऽऽदयः, तैश्छादितं यत्तत्तथा। अनेकैालशतैः स्वापदशतैः शकनीय भयजनकं चाष्यभूत, शङ्कनीयमित्येतद्विशेषणसंबद्धस्वात्क्रियावचनस्य न पुनरुक्तता। (मालुकाकच्छ इति) एकास्थिकफला वृक्षविशेषाः मालुकाः प्रज्ञापनाभिहिताः, तेषां कक्षो गहनं मालुका कक्षः / चिर्भिटिकाकच्छ इति तु जीवाभिगमचूर्णिकारः / (किण्हे किण्होभासे) इह यावत्करणदिदं दृश्यम्- ''णीले गीलोभासे हरिए हरिओभासे सीए सीओभासे णिद्धे णिद्धोभासे तिव्वे तिय्वोभासे किण्हे किण्हच्छाए णीले णीलच्छाए हरिए हरियच्छाए सीए सीयच्छाए णिद्धे णिद्धच्छाए तिटवे तिय्वच्छाए घणकड़ियकडिच्छाए त्ति / " कृष्णः कृष्णवर्णाञ्जनवत् स्वरूपेण कृष्ण एवावभासते, द्रष्ट्रणां प्रतिभातीति कृष्णावभासः, किल किश्चिद्वस्तुस्वरूपेण भवत्यन्यादृशं प्रतिभासते तु सन्निधानविप्रकर्षाऽऽदेः कारणादन्यादृशमिति / एवं कृचिद सौ नीलो मयूरग्रीववत्, कचित् हरितः शुकपिच्छवत्, हरितालाभ इति वृद्धाः / तथा शीतः स्पर्शतः वल्ल्याद्याक्रान्तत्वादिति च वृद्धाः। स्निग्धो न रूक्षः, तीव्रो वर्णाऽऽदिगुणप्रकर्षवान्, तथा कृष्णः सवर्णतः, कृष्णच्छायः छाया च दीतिरादित्यकरावरणजनिता चेति / एवमन्यत्रापि / (घणकडियकडिच्छाए त्ति) अन्योन्यशाखाऽनुप्रवेशात्यनिरन्तरच्छायारम्यो महामेघाना निकुरम्बः समूहस्तद्वद्यः स महामेघनिकुरम्बभूतः। वाचनान्तरे त्वेदमधिकं पठ्यते- " पत्तिए पुप्फिए फलिए हरियगरे रिजमाणे।" हरितकश्वासौ (रेरिजमाणे त्ति) भृशं राजमानश्चयः स तथा / (सिरीए अईव 2 उवसोभेमाणे चिट्ठइ त्ति) श्रिया बनलक्ष्म्या अतीव 2 उपशोभमानस्तिष्ठति। (कुसेहि यत्ति) दर्भ : / वचित् "कूवएहिय त्ति" पाठः। तत्र कूपिकाभिः लिङ्गव्यत्ययात् (स्वाणुएहियत्ति) स्थाणुभिश्च / पाठान्तरण-- (खत्तएहिं ति) खातैर्गतरित्यर्थः। अथवा-(कूविएहिं ति) चौरगवेषकैः, (खत्तएहिं ति) खानकैः, क्षेत्रस्येनिगम्यते। चौररित्यर्थः / अयमभिप्रायः-गहनत्वात्तस्य तत्र चौराः प्रविशन्ति तगवेषणार्थमितरे चेति संछन्नो व्याप्तः, परिच्छन्नः समन्तात् अन्तर्मध्ये शुश्रूशु सावकाशत्वात् बहि-गम्भीरो दृष्टरप्रक्रमणात् (अड्डे दित्ते) इह यावत्करणादिदं द्रष्टव्यम्"दित्ते विच्छिण्णविउलभवणसयणासणजाणवाहणाइण्णे बहुदासदासोगोमहिसगवेलगप्पभूए बहुधणबहुजायरूवरयए आओगपओगसंप उत्ते विच्छड्डियविउलभत्तपाणे ति।'' व्याख्या त्यस्य मेधकुमारराजवर्णकवत, भद्रावर्णकस्य तु धारिणीवर्णकवन्नवरं (करयलय ति) अनेन 'करयलपरिमियतिवलियमज्झाइ त्ति" दृश्यम् / (बंझ त्ति) अपत्यफलापेक्षया निष्फला(अवियाउरि त्ति) प्रसवानन्तरमपत्यमरणेनापि फलवतो बन्ध्या भवतीत्यत उच्यते (अवियाउरित्ति) अविजननशीला अपत्यानामत एवाऽऽह-जानुकूर्पराणामेव माता जननी जानुकूर्परमाता। एतान्येव शरीरांशभूतानि तस्याः स्तनौ स्पृशन्ति, नापत्यमित्यर्थः / अथवा-जानुकूर्पराण्येव मात्रा परप्राणाऽऽदेः साहाय्यसमर्थ उत्सङ्गनिवेशनीयो वा परिकरो यस्याः नपुत्र लक्षणः सा जानुकूर्परमात्रा। (दासचेडे त्ति) दासस्य भृतकविशेषस्य चेटः कुमारकः दासचेटः / अथवादासश्चासौ चेटश्वेति दासचेटः। (तक्करे त्ति) चौरः, पापस्य पापकर्मकारिणः चण्डालस्येव रूपं स्वभावो यस्य स तथा चण्डालकमपिक्षया भीमतराणि रौद्राणि कर्माणि यस्य स तथा। (आरुसिय त्ति) आरुष्टस्येव दीप्ते रक्ते नयने यस्य सतथा। खरपरुषे अतिकर्कशे महत्यौ विकृते वीभत्से दंष्ट्रिके उत्तरोष्ठकेशगु-च्छरुपे दशनविशेषरूपे वा यस्य स तथा। असंपतितौ असंपुटितौ असंवृत्तौवा परस्परालग्नौ तुच्छत्वादशनदीर्घत्वाच ओष्ठौयस्य स तथा. उद्धृता वायुना प्रकीर्णा विकीर्णा लम्बमाना मूर्द्धजा यस्य स तथा, भ्रमरराहुवर्णः कृष्ण इत्यर्थः / निरनुक्रोशो निर्दयो, निरनुतापः पश्चात्तापरहितः, अत एव दारुणो रौद्रः, अत एव प्रतिभयो भयजनकः, निःसंशयिकः शौर्यातिशयादेव तत्साधयिष्याम्येवेत्येवं प्रवृत्तिकः / पाठान्तरेण- "निसंसे' नृन्नरान् शंसति हिनस्तोति नृशंसः / निशंसो वा विगतश्लाघः। (निरणुकंपे त्ति) विगतप्राणिरक्षः,निर्गता वा जनानामनुकम्पा यत्र स तथा / अहिरिव एकान्तग्राह्यमेवेदं मयेत्येवमेका निश्चया दृष्टिर्यस्य स तथा। (खुरे व्व एगंतधाराए त्ति) एकत्रान्तरे वस्तुभागेऽपहर्तव्यलक्षणे धारेव धारा परोपतापप्रधानप्रवृत्तिलक्षणा यस्य स तथा। यथा क्षुर एकधार एवमसौ मोषणलक्षणैकप्रवृत्तिक एवेति भावः। (जलमिव सव्वग्गाहि त्ति) यथा जलं सर्व स्वविषयाऽऽपन्नमभ्यन्तरीकरोति तथाऽयमपि सर्वं गृह्णातीति भावः। तथा उत्कञ्चनवञ्चनमायानिकृतिकूटकपटैः सह योऽतिसंप्रयोगो गाय, तेन बहुलः प्रचुरो यः स तथा, तत्र ऊर्द्ध कञ्चनं मूल्याऽऽद्यारोपणार्थमुत्कञ्चनं, हीनगुणस्य गुणोत्कर्षप्रतिपादनमित्यर्थः / वञ्चनं प्रतारणं, माया परवञ्चनबुद्धिः। निकृतिकवृत्त्या गलकर्तकानामिवावस्थानं, कूट कार्षापणतुलाऽऽदेः परवञ्चनार्थ न्यूनाधिककरण, कपट नेपथ्यभाषाविपर्ययकरणम्, अथवा-एभिरुतकचनाऽऽदिभिस्सहातिशयेन यः संप्रयोगस्तेन यो बहुलः स तथा / यदि वा-सातिशयेन द्रव्येण कस्तूरिकाऽऽदिना परस्य द्रव्यस्य संप्रयोगः सातिशयसंप्रयोगः। ततश्चोत्कञ्चनाऽऽदिभिः सातिशयसंप्रयोगेण च यो बहुलः स तथा। उक्त च-"सो होइसाइजोगो, दव्वंजंछुहिय अन्नदव्येसु / दोसगुणा वयणेसु य, अत्थविसंवायणं कुणइ / / 1 / / '' इति एकीय व्याख्यानम्। व्याख्यानान्तरं पुनरेवम्-उत्कञ्चनमुत्कोचा, निकृतिर्वचनप्रच्छादनार्थ कर्म, सातिविसम्भएततसंप्रयोगबहुलः, शेषं तथैव, चिरं बहुकालं यावद नगरे नगरस्य वा विनष्टो विप्लुतः चिरनगरविनष्ट : बहुकालीनो यो नगरविनष्टो भवति स किलात्यन्तं धूर्ती भवतीत्येवं