________________ दोसिणा 2642 - अभिधानराजेन्द्रः - भाग 4 दोसिणा दोसिणा-स्त्री०(ज्योत्स्ना) चन्द्रलेश्यायाम्, चं०प्र० ज्योत्स्नालक्षणम्ता कहं ते दोसिणालक्खणे आहिता ति वेदज्जा? ता दोसिणा ति अ चंदलेसा ति अ। दोसिणा ति य किं अटे, किंलक्खणे? ता एगढे एगलक्खणे आहिता / सूरलेस्सा ति य आयवे ति य किं अढे किंलक्खणे? ता एगढे एगलक्खणे / ता छाया ति य अंधकारे ति य किं अट्टे किंलक्खणे? ता एगढे एगलक्खणे। कथं ज्योत्स्नालक्षणमाख्यातमिति? एतदेवरूपमेव प्रश्नसूत्रमाह-(ता कह ते इत्यादि) ता' इति पूर्ववत्, कथं केन प्रकारेण, भगवन! त्वया ज्योत्स्नालक्षणमाख्यातमिति वदेत्? एवं सामान्यतः पृष्ट्वा विवक्षितप्रष्टव्यार्थप्रकटनाय विशेषप्रश्नं करोति (ता चंदलेस्साइ इत्यादि) 'ता' इति पूर्ववत्। चन्द्रलेश्या इति ज्योत्स्ना इति। अनयोः पदयोः / अथवा ज्योत्स्ना इति चन्द्रलेश्या इत्यनयोः पदयोरिहाक्षराणामानुपूर्वीभेदेनार्थभेदो दृष्टो, यथा वदनंनदव इति पदानाम्। अपि चानुपूर्वीभेददर्शनाद - भेददर्शनं यथा पुत्रस्य गुरुः, गुरोः पुत्र इतिवत्। इडापि कदाचिदानुपूर्वीभेदादर्थभेदो भविष्यतीत्याशङ्कावशात् चन्द्रलेश्या इति ज्योत्स्ना इत्युक्त्वा, ज्योत्स्ना इति लेश्या इत्युक्तम्। अनयोः पदयोरानुपूाsनानुपूा व्यवस्थितयोः कोऽर्थः, किं परस्पर भिन्ने, उताभिन्ने इति? स च किंलक्षणः किं स्वरूपः, लक्ष्यते तदन्यव्यवच्छेदेन ज्ञायते येन लक्षणमसाधारणं स्वरूपं यस्य स तथा। एवं प्रवे कृते भगवानाह-(ता एग8 एगलक्खणे इति) 'ता' इति पूर्ववत्। चन्द्रलेश्या इति ज्योत्स्ना इत्यनयोः पदयोः आनुपूर्त्या अनानुपूर्व्या वा व्यवस्थितयोरेक एवाभिन्न एवार्थः। य एव एकस्य पदस्य वाच्योऽर्थः, स एव द्वितीयस्यापीति भावः / (एगलक्खणे इति) एकमभिन्नमसाधारण लक्षणं यस्य स तथा। किमुक्त भवति? यदेव चन्द्रलेश्या इत्यनेन पदेन चान्यस्य साधारणं स्वरूप प्रतीयते तदेव ज्योत्स्ना इत्यनेनाऽपि पदेन, यदेव च ज्योत्स्ना इत्यनेन पदेन तदेव चन्द्रलेश्या इत्यनेनाऽपि पदेनेति / एवम्- आतप इति सूर्यलेश्या इति / तथाऽन्धकार इति छाया इति / अथवा-छाया इति अन्धकार इति / एतेषु पदेषु विषये प्रश्ननिर्वचनसूत्राणि भावनीयानि / चं०प्र०२० पाहुन ज्योत्स्नावृद्धिहानीता कता ते दोसिणा बहू आहिता ति वदेजा? ता दोसिणाप-- क्खेणं दोसिणा बहू आहिता ति वदेज्जा / ता कहं ते दोसिणाप--- क्खे दोसिणा बहू आहिता ति वदेना? ता अंधकारपक्खातो दोसिणे पक्खे दोसिणा बहू आहिता ति वदेज्जा / ता कहं ते अंधकारपक्खातो दोसिणो दोसिणा बहू आहिता ति वदेजा? ता अंधकारपक्खातो णं दोसिणापक्खं अयमाणे चंदे चत्तारि वायाले मुहुत्तसते छायालीसं च यावट्ठिभागे मुहत्तस्स जाइं चंदे विरजति, तं जहा-पढमाते पढमभागंजाव पण्णरसीते पण्ण- | रसं भागं / एवं खलु अंधकारपक्खातो दोसिणापक्खे दोसिणा बहू आहिता ति वेदजा? ता केवतिताणं दोसिणपक्खे दोसिणा आहिता ति वदेजा? ता परित्ता असंखेज्जा भागा 1 ता कता ते अंधकारे बहू आहिता तिवदेना? ता अंधकारे पक्खे अंधकारे बहू आहिता ति वदेज्जा / ता कहं ते अंधकारे पक्खे अंधकारे बहू आहिता ति वदेजा? ता दोसिणापक्खातो णं अंधकारपक्खे अंधकारे बहू आहिता ति वदेजा। ता कहं ते दोसिणापक्खातो अंधकारे बहू आहिता ति वदेज्जा? ता दोसिणापक्खातो णं अंधकारपक्खं अयमाणे चंदे चत्तारि वायाले मुहुत्तसते छायालीसं च वावट्ठिभागे मुहुत्तस्स जाइ चंदे रजति, तं जहापढमाते पढम भागंजाव पण्णरसीए पण्णरसं भागं / एवं खलु दोसिणापक्खातो अंधकारपक्खे अंधकारे बहू आहिता ति वदेजा। ता केवति णं अंधकारपक्खे अंधकारे आहिता ति वदेजा? ता परित्ता असंखेजा भागा। (ता कता ते दोसिणा इत्यादि)'ता' इति पूर्ववत्। कदा कस्मिन् काले भगवन् ! ते त्वया ज्योत्स्ना प्रभूता आख्याता इति वदेत्? भगवानाह(ता दो सिणमित्यादि)'ता' इति पूर्ववत्, ज्योत्स्नापक्षे ज्योत्स्ना बहुराख्याता इति वदेत्? (ता कहं ते इत्यादि) 'ता' इति प्राग्वत्। कथं केन प्रकारेण भगवन् ! त्वया ज्योत्स्नापक्षे ज्योत्स्ना बहुराख्याता इति वदेत्? भगवानाह- (ता अंधकार) इत्यादि सुगमम् / "ता कहं ते' इत्यादि प्रश्नसूत्रं निगदसिद्धम् / निर्वचनमाह- (ता अंधकारपक्खाओ इत्यादि) 'ता' इति पूर्ववत् / अन्धकारपक्षात् ज्योत्स्नापक्षमयमानश्चन्द्रमाश्चत्वारि मुहूर्तशतानि द्वाचत्वारिंशानि द्विचत्वारिंशदधिकानि षट्चत्वारिंशतं च द्वाषष्टिभागान् मुहूर्तस्य यावत् ज्योत्स्ना निरन्तरं प्रवर्द्धते। तथा चाह यानि यावत् चन्द्रो विरज्यते शनैः शनैः राहुविमानेनाऽऽवृतस्वरूपो भवति, मुहूर्तसंख्यागणिते भावना प्राग्वत् कर्त्तव्या / कथमनावृतो भवतीत्याह / तद्यथा-प्रथमाया प्रतिपल्लक्षणायां तिथौ प्रथमपञ्चदशद्वाषष्टिभागसत्कभागचतुष्टय-प्रमाण यावदनावृतो भवति, द्वितीयस्यां तिथौ द्वितीय भागं यावत्। एवं तावत् द्रष्टव्यं यावत् पञ्चदश्यां पञ्चदशमपि भागं यावदनावृतो भवति,सर्वाऽऽत्मना राहुविमानेनाऽऽवृतो भवतीति भावः / उपसंहारमाह- (एवं खलु इत्यादि) तत एवमुक्तेन प्रकारेण खलु निश्चितमन्धकारपक्षात् ज्योत्स्ना बहुतराऽऽख्याता इति वदेत्। इयमत्र भावना- इह शुक्लपक्षे यथा प्रतिपत्प्रथमक्षणादारभ्य प्रतिमुहूर्त यावन्मात्रं शनैः शनैः चन्द्रः प्रकटो भवति, तथा अन्धकारपक्षे प्रतिपत्प्रथमक्षणादारभ्य प्रतिमुहूर्त तावन्मानं शनैः 2 धन्द्र आवृत उपजायते / तत एवं सति यावत्येवान्धकारपक्षे ज्योत्स्ना तातत्येव शुक्लपक्षे, या पञ्चदश्यां ज्योत्स्ना साऽन्धकारपक्षादधिकेति। अन्धकारपक्षात् शुक्लपक्षे ज्योत्स्ना प्रभूता आख्यातेति। (ता कह तेइत्यादि) 'ता' इति पूर्ववत्। कियतीज्योत्स्नापक्षेज्योस्ना आख्याता इति वदेत्? भगवानाह- परीताः परिमिता असंख्येया भागा निर्विभागा भागाः / एवमन्धकारसूत्राण्यप्युक्तानुसारेण भावनीयानि, नवरमन्धकारपक्षे अमावास्यायां योऽन्धकारः स ज्योत्स्नापक्षादधिक इति ज्योत्स्नापक्षादन्धकारपक्षे अन्धकारपक्षप्रभूत आख्यात इति / च०प्र० 20 पाहु०। सू०प्र०