________________ दोस 2640 - अभिधानराजेन्द्रः - भाग 4 दोस ऋजुसूत्रनयस्येद मतम्-क्रोधः प्रथमकषायो द्वेषः, अप्रीत्यात्मकत्वाच्छेषाणां तु मानमायालोभानां रागद्वेषत्वविचारं प्रत्येतत् तस्य मतम, किमित्याह- अनेकान्तोऽनिश्चयः। एतदेव व्याचष्टेशेषे मानाऽऽदिकषायत्रयवर्ग कोऽपि रागः, कोऽपि वा द्वेषः, इत्ययं परिणाभवशेनैवावसेयो निश्चयो नान्यथेति / / 2671 / / कुत इत्याहसंपयगाहि तिनओ,न उवओगदुगमेगकालम्मि। अप्पीइपीइमेत्तो-वओगओतंतहा दिसइ॥२९७२।। यतः साम्प्रतग्राही वर्तमानकक्षणवस्तुग्राही तकोऽसौ ऋजुसूत्रः, ततः क्रोधमानौ द्वेषो, मायालोभौ तु राग इत्येवमसौ न मन्यते, मानाऽऽदिक्षणकाले क्रोधाऽऽदिक्षणाभावात्, तदभावश्च तयोः क्रमभावित्वात्, प्राक्तषस्य चोत्पत्त्यनन्तरमेव विनाशादिति / स एव च मामो द्वेषो भवति,कदा? परगुणेषु यो द्वेषोऽप्रीतिस्तदुपयोगे तदध्यवसायपरिणतिकाल इत्यर्थः / अस्तु वा क्रोधमानाऽऽदीनां समकालभाविता, तथाsप्युपयोगद्वयमसावेककालनमत्यत इति कथं मिश्रकषायद्वयोपगाद द्वेषो रागो वा स्यात? एतदेवाऽऽह- (न उव-ओगदुगमेगकालम्मि त्ति) न च कषायद्वयोपयोगमेककालमसौ मन्यते, येनक्रोधमानौ, द्वेषो, मायालोभी तु रागः स्यादिति। तर्हि किमसौ मन्यते? इत्याह-(अप्पीईत्यादि) अप्रीतिप्रीतिमात्रोपयोगतस्तंत मानाऽऽदिकषायं तथा तथाव्यपदिशति 112672 / / एतदेव भावयतिमाणो रागो त्ति मओ, साहंकारोवओगकालम्मि। सो चेय होइ दोसो, परगुणदोसोवओगम्मि||२६७३।। माया लोभो चेवं, परोवघाओवओगओ दोसो। मुच्छोवओगकाले, रागोऽभिस्संगलिंगो त्ति // 2674|| मानो राग इति ऋजुसूत्रस्य सम्मतः / व? साहङ्कारोपयोगकालेस्वस्मिन्त्रात्मन्यहोऽहं नमो मह्यमित्येवं योऽसावहङ्कारो निजगुणेषु बहुमानोऽभिष्वङ्गस्तदुपयोगकाले तदुपयोगसमये इत्यर्थः, (स एव च मानो द्वेषो भवति कदा? परगुणेषु यो द्वेषोऽप्रीतिस्तदुपयोगे तदध्यवसायपरिणतिलाभ इत्यर्थः) एवं परोपघाताय व्याप्रियमाणौ मायालोभी द्वेषः, स्वशरीरस्वधनस्वजनाऽऽदिषु मूर्योषयोगकाले तु तावेव रागः / कुत? इत्याह-अभिष्वङ्ग लिङ्ग इति कृत्वा / अभिष्वङ्गो हि रागो, यश्च स्वशरीराऽऽदिषु मूर्योपयोगः, स व्यक्तोऽभिष्वङ्ग इति युक्तमस्य रागत्वमिति भावः / / 2673||2674 // अथ शब्दाऽऽदिनयत्रमतमाहसद्दाइमयं माणे, मायाए चिय गुणोवगाराय। उवओगो लोभो चिय, जओ स तत्थेव अवरुद्धो // 2675|| से ससा कोहो विय, परोवघायमइय त्ति तो दोसो। तल्लक्खणो य लोभो, अह मुच्छा केवलो रागो ||2676 / / मुच्छाणुरंजणं वा, रागो संदूसणं ति तो दोसो। सहस्स व भयणेयं, इयरे एक्के कठियपक्खा / / 2977 / / शब्दाऽऽदिनयानामिदं मत, माने मायायां च स्वगुणोपकाराय आत्मन उपकाराय व्याप्रियमाणायां य उपयोगः स लोभ एव, यतः स स्वगुणोपकारोपयोगः स्वात्मनि मूर्छाऽऽत्मकत्वात् तत्रैवलोभेऽवरुद्धोऽन्तर्भूतः। तथा च सति समानमाययोः स्वगुणोपकारोपयोगः स्वाऽऽत्माने मूर्छाss त्मकत्वाल्लोभ इव राग इत्यभिप्रायः / शेषास्तु परोपधातोपयोगरूपा मानमाययोरंशाः क्रोधश्च सर्वः, एते सर्वे परोपघातमयास्ततो द्वेष इति मन्तव्याः / न केवलमेते तथा लोभोऽपि द्वेषः / किं सर्वः? नेत्याहयतस्तल्लक्षणः परोपघातोपयोगरूपः / अथ परानुपधातोपयोगरूपा मऊपयोगाऽऽरमको लोभः पृच्छयते, तत्राऽऽह केवलोराग एवासाविति / अथवा किं बहुनोक्तेन? संक्षिप्य ब्रूमः। किमित्याह-(मुच्छेत्यादि) इह सर्वेष्वपि क्रोधव्यतिरिक्तेषु मानमायालोभकषायेषु यन्मूर्जाऽऽत्मकमनुरञ्जन यः कश्चिन्मूच्र्योपयोग इत्यर्थः / स रागो मन्तव्यः / अथ संदूषणमप्रीत्युपयोगस्ततोऽसौ द्वेषो ज्ञातव्यः / शब्दनयस्वेयं भजना विकल्पना / वाशब्दात् ऋजुसूत्रसय च / शेषौ तु संग्रहव्यवहारनयो नैगमस्यान योरेवान्तर्भावादेकैकस्थितपक्षौ-एकैकः स्थितो नियमितः पक्षो ययोस्तावेकैकस्थितपक्षौ। तथाहि-संग्रहनयः क्रोधमानौ द्वेषमे - वेच्छति, मायालोभौ तु रागम् / व्यवहारनयोऽपि लोभं रागमेव मन्यते, शेषकषायत्रयं तु द्वेषमेवेति। अतः शब्दाऽऽदिनया भजनाऽभ्युपगमपरत्वादेकैकस्थि-तपक्षवादिभ्यां ताभ्यां भिन्ना इति। तदेवं व्याख्यातौ रागद्वेषौ / / 2675||2676||2677|| विशे० "दस दोसे पण्णत्ते / तं जहातञ्जायदोसे मइभगदोसे पसत्थारदोसे परिहरणदोसे सलक्खणकारणहेउदोसे संकामणनिग्गहवत्थू दोसे / " स्था० 10 ठा०। (व्याख्या तत्तच्छब्दोपरि) __ द्वेषे उदाहरणम्"लोकेन बहुना सार्द्ध ,नावा धर्मरुचिं मुनिम्। गङ्गामुत्तारयामास, नन्दनामकनाविकः / / 1 / / लोकोऽगादातरं दत्त्वा, मुनिस्तेन धृतः पुनः। भिक्षावेला व्यतिक्रान्ता,स तथाऽप्यमुचन्न तम्।।सा अमुच्यमानो रुष्टः सः, मुनिर्दविषलब्धकः। आलोक्य क्रूरया दृष्ट्या, तमधाक्षीत् पलालवत्॥३॥ क्वापि ग्रामे सभायां सो-ऽभवद् मृत्वा गृहोलकः। सोऽपि साधुर्गतस्तत्रा-विशद्भोक्तुं च तां सभाम्॥४॥ गृहोलकोऽपि तं दृष्ट्वा, कोयेनाभूज्ज्वलन्निव। भुञानस्य मुनेरुद्ध , चिक्षेप पावकं ततः // 5 // स मुनिर्यत्र यत्राऽऽस्ते, तत्र तत्र तथैव सः / मुनित्विा स एवायं, नन्द इत्यदहत्तथा / / 6 / / गङ्गा विशति पाथोधि, वर्षे वर्षे पराध्वना। वाहस्तत्र चिरत्यक्तो, मृतगङ्गोते कथ्यते // 7 // हंसोऽभून्मृतगङ्गायां, स नन्दाऽऽत्मा गृहोलकः / कर्मधर्मसमायोगात, सार्थेन सममन्यदा।।८।। साधुः संचरमाणः स. महात्मा तेन वर्मना। माघमासे वसंस्तत्र, हंसस्तं प्रेक्ष्य सोऽकुपत्॥६॥ पक्षी भृत्त्वाऽथ नीरेण, शीकरैरशित्तन्मुनिम्। दग्धस्तत्रापि मृत्वा स, सिंहोऽभूदञ्जनाऽचले / / 10 / / सोऽगात्तत्रापि सार्थेन,सिंहस्तं रुषितोऽभ्यगात्। दधस्तेन तथेवासी, वाराणस्यामभूगटुः / / 111 // सोऽपि तत्र गतः साधु-दृष्ट्वा तं बटुरीय॑या। जधान लेष्टुभिर्दुष्ट, मत्वा तमपि सोऽदहत्॥१२॥ अकामनिर्जरायोगा-द्राजा तत्रैव सोऽभवत्।