________________ दोकिरिय 2636 - अभिधानराजेन्द्रः - भाग 4 दोकिरिय ऽपि च वेधक समकालमेव विध्यते, किं तु कालभेदेन, उपर्युपरितने अविद्धेऽधोऽधोवर्तिनः पत्रस्य वेधायोगाद्, अथ च वेधकर्ता युगपद्विहितमेव वेध मन्यते, तद्वेधनकालभेदनस्य सूक्ष्मत्वेन दुर्लक्षत्वात्। यथा वा तत्प्रसिद्धमलातचक्र कालभेदेन दिक्षु भ्रमदपि भ्रमणकालभेदस्य सूक्ष्मत्वेन दुरवगमत्वान्निरन्तरभ्रमणमेव लक्ष्यते, एवमिहापिशीतोष्णक्रियानुभवकालभेदस्य सूक्ष्मत्वेन दुरवसेयत्याधुगपदिव तदनुभवं मन्यते भवानिति // 2433 / / मनोऽपि शिरः पादाऽऽदिभिः स्पर्शनेन्द्रियदेशैरिन्द्रियान्तरैश्च युगपन्न संबध्यते, किं तु क्रमेणैव, केवलमाशुचारित्वेन सूक्ष्मत्वेन च तस्य क्रमसंबन्धो न लक्ष्यत इति दर्शयन्नाहचित्तं पिनेंदियाइं, समेइ सममह य खिप्पचारित्ति। समयं व सुक्कसक्कुलि-दसणे सव्वोवलद्धि त्ति / 2434|| चित्तमपि च ,नैवेन्द्रियाणि, सममेव समेति-मनोऽपि नैवेन्द्रियैः सह युगपत्संबध्यते इत्यर्थः / उपलक्षणत्वान्नाऽपि शिरःपादाऽऽदिभिः स्पर्शनेन्द्रियदेशैर्युगपत्संबध्यते, अथ च क्षिप्रचारि शीघ्रसंचरणशीलं तदिति कृत्वा समकमिव युगपदिव सर्वत्र संबद्ध लक्ष्यते इति शेषः। दृष्टान्तमाह(समयं वेत्यादि) समयं वेत्येतदनन्तरं योजितमप्यावृत्त्या पुनरपीह योज्यते। तत्र वाशब्दो यथार्थे , यथाशब्दश्च दृष्टान्तोपन्यासार्थे / यथाशुष्कशष्कुलिकादशने सर्वेषामपि शष्कुलिकागतरूपरसगन्धस्पर्शशब्दानामुपलब्धिः सर्वोपलब्धिरसमकं प्रवृत्ताऽपि समक लक्ष्यते, तथाऽत्रापि मनः शिरः पादाऽऽदिभिरस्पर्शनेन्द्रियदेशैरिन्द्रियान्तरैश्च क्रमेण संबध्यमानमपि युगपत् संबध्यमानं लक्ष्यत इत्यर्थः / इदमत्र हृदयम्-इह दीर्धा शुष्कां च शष्कुलिकां कस्यचिद्भक्षयतस्तद्रूप चक्षुषा वीक्ष्यमाणस्य रूपज्ञानमुत्पद्यते, तद्ग्रन्धं च घ्राणेनाऽऽजिघ्रतो गन्धज्ञानम्, तद्रस च रसनया आस्वादयतो रसज्ञानं, तत्स्पर्श च स्पर्शनेन वेदयतः स्पर्शज्ञानं, चर्वणोत्थं तच्छब्दं च शृण्वतः शब्दज्ञानमुपजायते / एतानि च पञ्चापि ज्ञानानि क्रमेणैव जायन्ते, अन्यथा सार्याऽऽदिदोषप्रसङ्गात्, मत्यादिज्ञानोपयोगकाले चावध्याधुपयोगस्याऽपि प्रप्तिः, एकं च घटाऽऽदिकमर्थ विकल्पयतोऽनन्तानामपि घटाऽऽद्यर्थविकल्पानां प्रवृत्तिप्रसङ्गाच / न चैतदस्ति / ततः क्रमेण जायमानान्यप्येतानि ज्ञानानि प्रतिपत्ता युगपदुत्पद्यन्ते इति मन्येत, समयाऽवलिकाऽऽदिकालविभागस्य सक्ष्यत्वाद्, एवमिहापि शिरःपादाऽऽदिभिः स्पर्शनेन्द्रियदेशैरिन्द्रियान्तरैश्च क्रमेण संबध्यमानमपि मनः प्रतिपत्ता युगपत्संबध्यमानमध्यवस्थति, न तु तत्त्वतोऽसौ मनसः स्वभावः, तथा चोक्तम्- "युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गमिति।" यदि चोक्तन्यायेन सर्वेन्द्रियद्वारेणोत्पद्यमान उपलम्भे क्रमेण संचरतो मनसः संचारोदुलक्षस्तर्हि कथमेकस्यैव स्पर्शनन्द्रियमात्रस्यशीतवेदनोपयोगादुष्णवेदनोपयोगरूप उपयोगान्तरे जन्ये तत्संचारः सुलक्षः स्याद्, अलक्ष्यमाणे च तत्क्रमसंचारे शीतोष्णक्रियाद्वयोपयोगविषयौ युगपदध्यवसायौ भवत इति / / 2434 // एतदेवाऽऽहसव्विंदियउवलंभे, जइ संचारो मणस्स दुल्लक्खो। एगेंदिओवओगं-तरम्मि किह होउ य सुलक्खो // 2435 / / / व्याख्याताथैव / / 2435 // यदि पुनरेकस्मिन्नर्थे उपयुक्तमपि मनोऽर्थान्तरेऽप्युपयोगं गच्छेत्तदा को दोषः स्याद्? इत्याह अन्नविणिउत्तमन्न वि-णिओगं लभइ जइ मणो तेणं / हत्थिं पि ठियं पुरओ, किमन्नचित्तो न लक्खेइ॥२४३६|| अन्यस्मिन् शीतवेदनाऽऽदिकेऽर्थे विनियुक्तमुपयुक्तमन्यविनियुक्तम्, मनो यदि (अण्णं ति) अन्य उष्णवेदनाऽऽदिकोऽर्थस्तद्विषय उपयोगोऽन्यस्तमन्यं विनियोगमुपयोग लभते.(तेणं ति) तर्हि किमित्यन्यचित्तोऽन्यार्थोपयुक्तचित्तो देवदत्ताऽऽदिर्हस्तिनमपि पुरतो व्यवस्थितं न लक्षयति? तस्मादेकस्मिन्नर्थे उपयुक्तं मनो न कदाचिदन्यार्थोपयोग लभते इति / / 2436|| यदि त्वेकोपयोगे उपयोगान्तरमपीष्यते, तदैतदपि किं नेष्यते? किमित्याहविणिओगंतरलाभे, व किं त्थ नियमेण तो समं चेव / पइवत्थुमसंखेज्जा–णंता वा जं न विणिओगा? // 2437|| एकोपयोगकाले विनियोगान्तरस्योपयोगान्तरस्य वा लाभे इष्य-माणे (तो ति) ततः किमत्र क्रियाद्वयोपयोगलक्षणेन नियमेन (जंति) यत्प्रतिवस्तु असंख्येया अनन्ता वा सममेव युगपदेव विनियोगा उपयोगा नेष्यन्ते? इदमुक्तं भवति-यदि शीतवेदनोपयोगकाले उष्णवेदनोपयोगोऽपीष्यते, ताहे किमत्रानेन क्रियाद्वयोपयोगनैयत्येन यदसंख्येया अनन्ता वा प्रतिवस्तु युगपदुपयोगा न भवन्ति, यथैककाले द्वितीयोपयोगस्तथा बहवोऽपि भवन्विति भावः / इह च "दव्याउ असंखो, संखेज्जे आवि पज्जवे लभइ।" इति वचनादेकस्मिन्नर्थे समकालमवधिज्ञानिनः किलोत्कृष्टतोऽसंख्येया उपयोगाः प्राप्नुवन्ति, शेषज्ञानिनां त्वनन्ता इत्यभिप्रायवता प्रोक्तम्- "पइवत्थु असंखेज'' इत्यादि।।२४३७।। अत्र पराभिप्रायमधिकृत्य परिहारमाहबहुबहुविहाइगहणे, नणूवओगबहुया सुएऽभिहिया। तमणेगग्गहणं चिय, उवओगाणेगया न त्थि॥२४३८॥ ननु बहुबहुविधक्षिप्राऽनिश्रिताऽसंदिग्धध्रुवसेतरवस्तुग्रहणे पूर्वमिहैवावग्रहाऽऽदीनामनुज्ञाने एकस्मिन्नुपयोगबहुता श्रुतेऽभिहितैथेति / "पइवत्थुमसंखेज्जे" इत्यादि सिद्धसाधनमेवेति परेणोक्ते सत्याह(तमणेगेत्यादि) तद् बहुबहुविधाऽऽदिरूपं वस्तुनोऽनेकपर्यायाणां सामान्यरूपतया ग्रहणमात्रमेव ज्ञाने उपयोगयोग्यतामात्रव्यवस्थापनमेव, एकस्मिस्तुवस्तुन्येककालमुपयोगानेकता क्वापि नास्ति, क्रमेणवोपयोगाना भावादिति // 2438|| यदुक्तं 'तणेगगहणं चिय'' इति तदुपजीव्य परःप्राहसमकमणेगग्गहणं, जइ सीओसिणदुगम्मि को दोसो? केण व भणियं दोसो, उवाओगदुगे वियारोऽयं // 2436 / / यद्याचार्य ! समकं युगपदनेकेषामर्थानां ग्रहणं त्वयाऽप्यनुज्ञायते, तदा शीतोष्णद्वये गृह्यमाणे को दोषः, येन गङ्गाभ्युपगमो दूष्यते? सूरिराह(केण वेत्यादि) केन पुनर्भणितंहन्त ! यत्समकमनेकार्थग्रहणे दोषागृह्यन्ते युगपदपि सामान्यरूपतया सेनावनग्रामनगरादिवदनेकेऽर्था इत्येतन्न निवारयामः, वयमित्यर्थः, केवलमिहोपयोगद्वये विचारोऽयं प्रस्तुतः। स चोपयोग एकदा एक एव भवति, न त्वनेक इति // 2436 / / /