________________ दो किरिय 2635 - अभिधानराजेन्द्रः - भाग 4 दोकिरिय 1 हु:- एतदेवाल्लुकातीर धूलीप्राकाराऽऽवृतत्वात्खेटमुच्यते, तत्र च महागिरिशिष्यो धनगुप्तो नाम, अस्यापि शिष्य आर्यगङ्गो नामाऽऽचार्यः / अयं च नद्याः पूर्वतटे, तदाचार्यास्त्वपरतटे / ततोऽन्यदा शरत्समये सूरिवन्दनार्थ गच्छन् गङ्गो नदीमुत्तरति, स च खल्वाटः / ततस्तस्योपरिष्टादुष्णेन दह्यते खल्ली। अधस्तात्तु नद्याः शीतलजलेन शैत्यमुत्पद्यते, ततोऽत्रान्तरे कथमपि मिथ्यात्वमोहनीयोदयादसौ चिन्तितवान्-अहो ! | सिद्धान्ते युगपत्क्रियाद्वयानुभवः किल निषिद्धोऽहं त्वेकस्मिन्नेव समय शैत्यमौषायं च वेदयामि, अतोऽनुभवविरुद्धत्वान्नेदमागमोक्तं शोभनमाभातीति विचिन्त्यगुरुभ्यो निवेदयामास / ततरतैर्वक्ष्यमाणयुक्तिभिः प्रज्ञापितोऽसौ। यदा च स्वाग्रह-स्तबुद्धित्वान्न किश्चित्प्रतिपद्यते, तदा उद्घाट्य बाहाः कृतो विहरन् राजगृहनगरमागतः, तत्र च महातपस्तीरप्रभवनाम्नि प्रश्रवणे मणिनागनाम्नो नागस्य चैत्यमस्ति। तत्समीपे च स्थितो गङ्गः पर्षत्पुरः सरं युगपत्क्रियाद्वयवेदनं प्ररूपयति स्म! तच श्रुत्वा प्रकुपितो मणिनागस्तमवादीत्-अरे दुष्ट शिक्षक ! कि मेवं प्रज्ञापयसि? यतोऽत्रैव प्रदेशे समवसृतेन श्रीमद्वर्द्धमानस्वामिन एकस्मिन् समये एकस्या एवं क्रियाया वेदनं प्ररूपितम, तचेहस्थितेन मयाऽपि श्रुतम्, तत्किततोऽपिलष्टतरः प्ररूपको भवान्, येनैवंयुगपत्क्रियाद्वयवेदनं प्ररूपयसि? तत्परित्यज चैतां कूटप्ररूपणाम्, अन्यथा नाशयिष्यामि त्वाम्। इत्यादितदुदितभयवाक्यैर्युक्तिवचनैश्च प्रबुद्धोऽसौ मिथ्यादुष्कृतं दत्त्वा गुरुमूलं गत्वा प्रतिक्रान्त इति // 2425|| अत्र भाष्यम्नइमुल्लुगमुत्तरओ, सरए सीयजलमञ्जगंगस्स। सूराभितत्तसिरसो, सीउसिणवेयणोभयओ।।२४२६|| लग्गोऽयमसग्गाहो, जुगवं उभयकिरिओवओगो त्ति। जं दो वि समयमेव य, सीउसिणवेयणाओ मे / / 2527 / / गतार्थे नवरमार्यगङ्गस्यलग्नोऽयमसद्ग्रहो यदुतयुगपत्क्रियाद्यसंवेदनोपयोगोऽस्ति, यद्यस्मात् मे मम द्वे अपि शीतोष्णवेदने सनकालमेव स्तः / प्रयोगश्वात्रयुगपदुभयक्रियासंवेदनमस्ति, अनुभवसिद्धत्वात्, मम पादशिरोगतशीतोष्णक्रियासंवेदनवदिति // 2426 / 2427|| एवं गङ्गेनोक्ते किमभूदित्याहतरतमजोगेणार्य, गुरुणाऽभिहिओ तुम न लक्खेसि / समयाइसुहुमयाओ, मणोऽतिचलसुहुमयाओ य॥२४२८।। गुरुणाऽभिहितोऽसौ--हन्त ! योऽयं युगपत्क्रियाद्वयानुभवस्त्वया गीयते, सतरतमयोगेन क्रमेणैव भवतःसंपद्यते,नयुगपत. परंसदपि क्रमभवनमस्य त्वं न लक्षयसि, समयावलिकाऽऽदेः कालस्य सूक्ष्मत्वात्, तथा मनसश्चातिचलत्वेनातिसूक्ष्मत्वेनाऽऽशुसंचारित्वादिति। तस्मादनुभवसिद्धत्वादित्यसिद्धोऽयं हेतुरिति / / 2428|| हेत्वसिद्धिमेव भावयतिसुहुमासुचरं चित्तं, इंदियदेसेण जेण जं कालं। संवज्झइ तं तम्म-तनाणहेउ त्ति नो तेण / / 2426 / / उवलभए किरियाओ, जुगवं दो दूरभिन्नदेसाओ। पायसिरोगवसीउ-हवेयणाऽणुभवरूवाओ।।२४३०।। सूक्ष्मम् आशुचरं च चित्तं मनः, तत्र सूक्ष्मं सूक्ष्मातीन्द्रियपुद्गलस्कन्धनिर्वृत्तत्वादाशुचरंतु शीघ्रसंचरणशीलत्वात्। ततश्च तदेवंभूतं चित्त येन 2 कायाऽऽद्याकारस्पर्शनाऽऽदिद्रव्येन्द्रियसंबन्धिना देशेन सह यस्मिन् काले सबध्यते संयुज्यते तस्मिन् काले तस्य तन्मात्रज्ञानहेतुर्भवतियेन स्पर्शनाऽऽदिद्रव्येन्द्रियदेशेन संबध्यते तज्जन्यस्यैव शीताऽऽदिविषयस्योष्णाऽऽदिविषयस्य वा एकतरविज्ञानस्य हेतुर्जायते, न तु येनेन्द्रियदेशेन सह तत्काले स्वयं तन्न संबद्ध तज्जन्यज्ञानस्यापि हेतुरित्यर्थः / इतिशब्दो वाक्यसमाप्त्यर्थः / येनैवं, तेन कारणेन नो नैव दूरभिन्नदेशे द्वे क्रिये कोऽपि युगपदुपलभते संवेदयते इति संबन्धः। कथंभूते द्वे क्रिये इत्याह- पादशिरोगतशीतोष्णवेदनयोरनुभवनमनुभवस्तद्रूपे तदात्मके। अत्र पयोगः- इह पादशिरोगतशीतोष्णवेदने युगपन्न कोऽपि संवेदयले, भिन्नदेशत्वाद्विन्ध्यहिमवच्छिखरस्पर्शनक्रियाद्वयवदिति, अनुभवसिद्धत्वात्, इत्यसिद्धोऽयं हेतुरिति / / 2426 / 2430 / / किञ्चउवओगमओ जीवो, उवउज्झइ जेण जम्मि जं कालं / सो तम्मओवओगो, होइ जहिंदोवओगम्मि॥२४३१।। उपयोगेनैव केवलेन निवृत्त उपयोगमयो जीवः / ततः स येन केनापि स्पर्शनाऽऽदीन्द्रियदेशेन करणभूतेन यस्मिन् शीतोष्णाऽऽद्यन्यतरविषये (जं कालं ति) यस्मिन् काले उपयुज्यते सावधानो भवति तन्मयोपयोगो भवति-यत्र शीताऽऽद्यन्यतरार्थ उपयुक्तस्तन्मयोपयोग एव भवति, नान्यथोपयुक्त इत्यर्थः / उदाहरणमाह-(जहिंदो-वओगम्मि त्ति) यथा इन्द्रोपयोगे वर्तमानो माणवकस्तनमयोपयोग एव भवति, न पुनरन्तरमयोपयोगः / इदमत्र तात्पर्यम्-एकस्मिन्काले एकत्रैवार्थे उपयुक्तो जीवः संभवति, न त्वर्थान्तरे, पूर्वोक्तसाकर्याऽऽदिदोषप्रसङ्गात् / ततश्च युगपत्क्रियाद्वयोपयोगानुभवोऽसिद्ध एवेति // 2431 / / एकस्मिन्नर्थ उपयुक्तः किमित्यर्थान्तरेऽपि नोपयुज्यते? इत्याहसो तदुव ओगमेत्तो-वउत्तसत्ति त्ति तस्समं चेव। अत्यंतरोवओगं, जाउ कहं केण वंसेण?||२४३२।। स जीवः (तदुवओगमेत्तोवउत्तसत्ति त्ति) तस्य विवक्षितैकार्यस्योपयोगस्तदुपयोगः, स एव तन्मानंतत्रोपयुक्ता व्यापृता निष्ठां गता शक्तिर्यस्य स तदुपयोगमात्रोपयुक्तशक्तिरिति कृत्वा कथं तत्समकालमेवार्थान्तर उपयोगं यातु? न कथं चिदित्यर्थः, सार्याऽऽदिप्रसङ्गात्। किंच-सर्वैरपि स्वप्रदेशैरेकस्मिन्नर्थे उपयुक्तो जीवः केनोद्वरितेनांशेनार्थान्तरोपयोगं व्रजतु? नास्त्येव हि स कश्चिदुद्वारोऽशो येन तत्समकमेवार्थान्तरोपयोगमसौ गच्छेदिति भावः / / 243 // यदि समकालमेव क्रियाद्वयोपयोगो न भवति, तर्हि कथं तमहं संवेदयामि? इत्याशक्याऽऽहसमयाइसुहुमयाओ, मन्नसि जुगवं च भिन्नकालं पि। उप्पलदलसयवेहं, वजह व तदलायचक्कं ति॥२४३३।। समयावलिकाऽऽदिकालकृतविभागस्य सूक्ष्मत्वाद् भिन्नकाल - मपि कालविभागेन प्रवृत्तमपि क्रि याद्वयसंवेदनमुत्पलपत्रशतवेधवद्युगपत्प्रवृत्तमिव मन्यसे त्वम्। न हि उत्पलपत्रशतमौत्तराधर्येण व्यवस्थापितं सुतीक्ष्णयाऽपि सूच्या छे के न समर्थना