________________ दुमपत्तय 2573 - अभिधानराजेन्द्रः - भाग 4 दुमपत्तय ण्टकाश्च द्रव्यतो वब्बूलकण्टकाऽऽदयो, भावतस्तु चरकाऽऽदिपुश्रुतयः, तैराकुलः पन्थाः कण्टकपथस्तम्, ततश्चावतीर्णोऽस्यनुप्रविष्टो भवसि (पहं ति) पन्थान (महालयं ति) महान्तं महता वा आलय आश्रयों महालयः। स च द्रव्यतो राजमार्गो, भावतस्तु महद्भिरतीर्थकराऽऽदिभिरप्याश्रितः सम्यग दर्शनाऽऽदिमुक्तिमार्गस्तम्। कश्चिदवतीर्णोऽपि मार्ग न गच्छेदत आह-गच्छसि मार्ग,न पुनरवस्थित एवासि, सम्यग्दर्शनाऽऽधनुपालनेन मुक्तिमार्गगमनप्रवृत्तत्वात्। भवतस्तत्राप्यनिश्चयेऽपायप्राप्तिरेव स्यादित्याह--विशोध्येति विनिश्चित्य, तदेव प्रवृत्तः सन् समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः। एवं च पूर्वेण दर्शनविशुद्धिमनेन च मार्गप्रतिपत्तिमभिधाय ततस्तत् प्रतीतावपि कस्यचिदनुतापसंभव इति तन्निराचिकीर्षयाऽऽह अबले जह भारवाहए, मा मग्गे विसमेऽवगाहिया। पच्छा पच्छाणुतावए, समयं गोयम! मा पमायए / / 33 / / अबलोऽविद्यमानशरीरसामथ्र्यो, यथेत्यौपम्ये, भारं वहतीति भारवाहकः / गा निषेधे / (मग्गे ति) मार्ग (विरागे त्ति) विषम मन्दसत्त्वेरतिदुस्तरम्, (अवगाहिय ति) अवगाह्य प्रविश्य, त्यक्ताङ्गीकृतभारः सन्निति गम्यते / पश्चात्तत्कालानन्तरं, पश्चादनुतापकः पश्चात्तापकृत, अभूदिति शषः / इदमुक्तं भवति-यथा कश्चिद्देशान्तरगतो बहुभिरुपायैः स्वर्णाऽऽदिकमुपाय॑ स्वगृहाभिमुखमागच्छन्नतिभीरुतयाऽन्यवरत्वन्तर्हित स्वाऽऽदिकं स्वशिरस्यारोप्य कतिचिद्दिनानि सम्यगुबहति, अनन्तर च कचिदुपलाऽऽदिसंकुले पथि अहो! अहमनेन मारणाऽऽक्रान्त इति तमुत्सृज्य स्वगृहमागतोऽत्यन्तनिर्द्धनतयाऽनुतप्यते. किं मया मन्दभाग्येन तत्परित्यक्तमिति? एवं त्वमपि प्रमादपरतया त्यक्तसंयमभारः सन्नेवंविधोमा भूः, किंतु समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः। बहिदमद्यापि निस्तरणीयमल्पं च निस्तीर्णमित्यभिसंघिनोत्साहभङ्गोऽपि स्यादिति तदपनोदायाऽऽहतिण्णो हु सि अण्णवं महं, किं पुण चिट्ठसि तीरमागओ? अभितुर पारं गमित्तए, समयं गोयम ! मा पमायए // 34 // (लिण्णो हु सित्ति) तीर्ण एवास्यर्णवमिवार्णवम्. (महं ति) महान्तं गुरु, किमिति प्रश्ने, पुनरिति वाक्योपन्यासे / ततः किं पुनस्तिष्ठसि तीर पारमागतः प्राप्तः? किमुक्तं भवति? भवत उत्कृष्टस्थितीनि च कर्माणि भावतोऽर्णव उच्यते, स च द्विविधोऽपि त्वयोत्तीर्णप्राय एवेति केन हेतुना तीरप्राप्तेऽप्यौदासान्यं भजसे? नैवेद तवोचितमित्याशयः, किंतु अभितरन्ति अभ्याभिमुख्येन त्वरस्व शीघ्रो भव पारं परतीरं भावतो मुक्तिपदम्,( गमेत्तए त्ति) गन्तुम्। अतश्च समयमपि गौतम ! मा प्रमादीरिति सुत्रार्थः। अथापि स्याद् मम पारप्राप्तियोग्यतैव न समस्त्यत आह। अथवा शेषशिष्यापेक्षया किमस्याप्रमादस्य फलं, यत पुनरयमुपदिश्यत इयाह अकडेवरसेणिमुस्सिया, सिद्धिं गोयम ! लोयं गच्छसि / खेमं च सिवं अणुत्तरं, समयं गोयम! मा पमायए।।३।। कडेवर शरीरम्, अविद्यमान कडेवरडेषामकमेवराः सिद्धाः,तेषां श्रेणिरिव श्रेणिरकडवर श्रेणिः,ययोत्तरोत्तरशुभपरिणामप्राप्तिरूपया ते सिद्धिपदमारोहन्ति, क्षपक श्रेणिमित्यर्थः / यद्वा-कडेव-राण्येकेन्द्रियशरीराणि, तन्मयत्वेन तेषां श्रेणिः कडेवर श्रेणिः वंशाऽऽदिविरचिता प्रासादाऽऽदिष्वारोहणहेतुः, तथा च या नसाऽकड़ेवर श्रेणिरनन्तरोक्तरुपैव, ताम् (उस्सिय त्ति) उच्छ्रितां गमिष्यसीति संबन्धः / यद्वा(उस्सिय त्ति) उच्छ्रित्येवोच्छ्रितोत्तरसंयमस्थानावाप्त्या तामुच्छ्रितामिव कृत्वा, सिद्धिमिति सिद्धिनामानं, गौतम! (लोयं गच्छसि त्ति)प्राग्वत्। लोक गमिष्यसि, संशयव्यवच्छेदफलत्वाचास्य गमिष्यस्येव, क्षेमं परचक्राऽऽद्युपद्रवरहितम्। चःसमुच्चये, भिन्नक्रमश्च / शिवमनुत्तरं च, तत्र शिवमशेषदुरितोपशमनेन, अनुत्तर नास्योत्तरमन्यत्प्रधानमस्तीत्यनुत्तर, सर्वोत्कृष्टमित्यर्थः / यतश्चैवं ततः समयमपि गौतम! मा प्रमादीरिति सूत्रार्थः। सम्प्रति निगमयन्नुपदेशसर्वस्वमाहबुद्धे परिनिव्वुडे चरे, गामगए नगरे व संजए। संतीमग्गं च बूहए, समयं गोमय ! मा पमायए।।३६|| बुद्धोऽवगतहेयाऽऽदिविभागः,परिनिर्वृतः कषायाऽऽद्युपशमतः समन्ताच्छीतीभूतः, चरेरासेवस्व, संयममिति शेषः / (गाम त्ति) सुपो लोपाद् ग्रामे गतः स्थितो, नगरे वा, उपलक्षणत्वादरण्याऽऽदिषु च / किमुक्तं भवति? सर्वरिनन्त्रभिष्वगवान् सम्यग्यतः पापस्थानेभ्य उपरतः संयतः, शाम्यन्त्यस्यां सर्वदुरितानीति शान्तिः निर्वाणं, तस्या मार्गः पन्थाः / यद्वा-शान्तिरुपशमः, सैव मुक्तिः तस्या हेतुर्मार्गः शान्तिमार्गो, दशविधधर्मोपलक्षण शान्तिग्रहणम्। तम्, चशब्दो भिन्नक्रमः , ततो बृहयस्व भव्यजनप्ररूपणया वृद्धि नयेः, ततः समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः। इत्थं भगवदभिहितमिदमाकर्ण्य गौतमो यत् कृतवांस्तदाह-- बुद्धस्स निसम्म भासियं, सुकहियमट्ठपओवसोहियं / / रागं दोसं च छिंदिया, सिद्धिगई गए गोयमे (त्ति बेमि) // 37 // बुद्धस्य केवलाऽऽलोकादवलोकितसमस्तवस्तुतत्त्वस्य, प्रक्रमात श्रीमहावीरस्य, निशम्याऽऽकर्ण्य, भाषितमुक्तं , सुष्टु शोभने न नयानुगततत्त्वाऽऽदिना प्रकारेण, कथितं प्रबन्धेन प्रतिपादितं सुकथितम् / अत एवार्थप्रधानानि पदान्यर्थपदानि, तैरुपशोभित जातशोभमर्थपदोपशोभितम्, राग विषयाऽऽद्यभिष्वङ्गविषयम्, द्वेषमपकारिण्यप्रीतिलक्षणं चः समुचेय। छित्त्वाऽपनीय, सिद्धिगति गतः प्राप्तो गौतम इन्द्रभूतिनामा भगवत्प्रथमगणधर इति सू