________________ दुमपत्तय 2574 - अभिधानराजेन्द्रः - भाग 4 दुमुह त्रार्थः / इतिः परिसमाप्तौ / ब्रवीमीति पूर्ववत् / उत्त०पाई० 10 अ०) आ०म०। आ००। स०। नि०चू०। दुमपुप्फियज्झयण न०(दुमपुष्पिकाध्ययन) द्रुमस्य पुष्पं द्रुमपुष्पम्। | अवयवलक्षणः षष्ठीसमासः / द्रुमपुष्पशब्दस्य ''प्रागिवात्कः'' / / 5 / 3 / 70 // इति वर्तमान अज्ञाते कुत्सिते संज्ञायां कनि प्रत्ययेनकारलोपे च कृते द्रुमपुष्पिक इति प्रातिपदिकस्यस्त्रीत्वविवक्षायाम् 'अजाऽऽद्यतष्टाप्" / / 4 / 1 / 4 / / इति टाप् प्रत्ययेऽनुबन्धलोपेच कृते "प्रत्ययस्थात् कात्पूर्वस्यात इदाप्यसुपः" / / 7 / 3 / 44|| इतीत्वे कृते "अकः सवर्णे दीर्घः" ||8/1 / 10 // इति दीर्घत्वे परगमने च दुमपुष्पिकेति भवति / द्रुमपुष्पोदाहरणयुक्ता द्रुमपुष्पिकेति / द्रुमपुष्पिका चासौ अध्ययनं चेति समानाऽऽधिकरणस्तत्पुरुषः / द्रुमपुष्पिकाऽध्ययनमिति। अस्य चैकार्थिकानि प्रतिपादयन्नाहदुमपुप्फिया य आहा-रएसणा गोयरे तया उछो। मेस जलूगा सप्पे, वणऽक्खइसुगोलपुत्तुदगे॥३७।। (एषां पादानामर्थस्तत्तच्छब्देषु) दशवैकालिकस्य द्रुमपुष्पोदाहरणयुक्ते, प्रथमेऽध्ययने, दश०नि०१अ०। दुमराय पुं०(द्रुमराज) प्रधानवृक्षे, स्था०४ठा०४३०॥ दुमसेण पुं०(द्रुमसेन) नवमवासुदेवबलदेवयोः पूर्वभवे स्वनामख्याते धर्माऽऽचायें , सका श्रेणिकस्य राज्ञो धारण्यां जाते स्वनामख्याते पुत्रे, स च महावीरस्वामिनोऽन्तिके प्रव्रज्य षोडशवर्षपर्यायः संलेखनया मृत्वाऽपराजिते देवलोके उपपद्य ततश्च्युक्त्वा महाविदेहे सेत्स्यतीत्यनुत्तरोपपातिकदशानां द्वितीयवर्गस्याष्टमेऽध्ययने सूचितम्। अणु०२ वर्ग १अ० दुमिय त्रि०(धवलित) श्वेतीकृते, "दुमियघट्टमढे।" 'दुमिए' सुधापङ्कधवलिते घृष्ट पाषाणाऽऽदिना उपरि घर्षिते ततो मृष्ट मसृणीकृते / सू०प्र०२० पाहुाचं०प्र० भ०। कल्प। दुमिस्स न०(द्विमिश्र) औदारिकमिश्रवैकारिकमिश्रतिके, कर्म०४ कर्म०। दुमुह पुं०(द्विमुख) स्वनामख्याते द्वितीये प्रत्येकबुद्धे, उत्त। काम्पिल्यपुरे जयवर्भराजा, तस्य गुणमाला प्रिया। अन्येधुर्जयवर्मा राजा स्थपतीनेवमाह-अद्भुतमास्थानमण्डपं कुरुत / वास्तु स्तभूमिपूजापुरस्सरं भूमिभाग परीक्ष्य सुमुहूर्ते खातं विरचितं, तत्र खाते पञ्चमदिवसे नानामणिमण्डितः खमणिरिव प्रज्वलन् मुकुटो दृष्टः (मुकुट किरीट पुन्नपुंसकमित्यमरः।) तैर्विज्ञप्तो राजा सहर्ष भूमितस्तं मुकुट जग्राह / त्रिदिवाचित्रिनिर्घोषपूर्व महतोत्सवेन त मुकुटं स्वगृहे ग्रावेशयत् / वस्त्राऽऽद्यैः सत् कृताः शिल्पिनो विमानसदृशमास्थानमण्डपंसद्यश्चक्रुः / चित्रकरैस्तत् सद्यएव विचित्रतम्। भूयःशुद्धमुहूर्ते तमुकुट मस्तके निधाय तस्मिन्नास्थानमण्डप सुसिंहासने निषण्णः, तस्मिन् मुकुटे मूर्द्धस्थिते सति राज्ञो मुखद्वयं दृश्यते, तदनुस राजा लोके द्विमुखतया विख्यातः। अथेय मुकुटकथा अवन्तीशेन चण्डप्रद्योतेन मुकुटवर्णकं श्रुत्वा स्वदूतः प्रहितः / दूतोऽपि तत्र गत्वा द्विमुखं प्रति एवमवादीत्- राजन् ! तव मुकुटमिमं चण्डप्रद्योतभूपतिर्गियति, यदि तव जीवितेन कार्य , तदा तस्याऽयं प्रेष्यः / एवं दूतवचः श्रुत्वा द्विमुख-नरेन्द्रः प्रोवाच-रे दूत ! तव स्वामिनो मम मुकुटग्रहणाभिलाषः स्वयस्तुहारणायैव जातोऽस्ति, त्वं तत्र गत्वा स्वस्वामिनं ब्रूयाः-शिवा देवी राशी 1, अनलगिरिनामा हस्ती २,अग्निभीरुनामा रथः३, लोहजङ्घनामा 4 दूतश्चेति वस्तुचतुष्टयं ममाऽर्यतामित्युक्त्वा द्विमुखनृपेण स दूतो गले धृत्वा निष्क्रासितः, उज्जयिनीं गत्वा चण्डप्रद्योताय तद्वचो निवेदयामास / क्रुद्धोऽथ चण्डप्रद्योतनृपतिर्गणनायकतुरगगजेन्द्ररथपदातिदलपरिवेष्टितः स्थाने स्थाने प्राभूतपूर्वकमभ्यागतानेकराजसैन्यवर्द्धमानबलः पञ्चालदेशसीम प्राप। द्विगुणोत्साहो द्विमुखनृपस्तैः सप्तसुतैः सैनिकलक्षैश्च परिवृतश्चण्डप्रद्योतसंमुखमगात् / तयो?रसंग्रामो बभूव / मुकुटप्रभावाद् द्विमुखराज्ञस्तदा द्विगुणं भुजबलं प्रससार।क्षणेन सकलमपि चण्डप्रद्योतबलं तेन भग्नं नष्ट च चण्डप्रद्योतं रथान्निपात्य बवा च स्वपुरं निन्ये द्विमुखनृपः, तं स्वाऽऽवासे भव्यरीत्या रक्षितवान्। अन्यदा चण्डप्रद्योतेन प्रकामस्वरूपा सलावण्यां कन्या दृष्ट्वा यामिकानामेवमुक्तम्-अस्य द्विमुखराज्ञः कल्यपत्यानि सन्ति? इयभङ्गजा चकस्य ? यामिका ऊचुः-अस्य राज्ञो वनमाला पत्नी सप्त सुतान् सुषुवे, अन्यदा तया चिन्तितम्, मम सप्त पुत्रा जाता लालिताच, पुत्रीतुनैकाऽपि जातेति स्वमनोरथपूर्तये सा मदनयक्षमारराध / अन्यदा सा कल्पद्रुमकलिकां स्वप्ने ददर्श ,क्रमेणेमा सुपुवे। यक्षोपयाचित दत्त्वाऽस्या मदनमञ्जरीति नाम कृतम् / साम्प्रतं सर्वलोकचमत्कारकारी यौवनाऽऽगमे इयं जातेतियामि-कवचनं श्रुत्वा, अप्सरोधिक तद्रूपं च दृष्ट्वा कामाऽऽर्तश्चण्डप्रद्योतश्चिन्तयति-इयं चेन्मम पत्नी स्यात्तदा मम जीवितं सफलं स्यात्, राज्यभ्रंशोऽपि मे कल्याणाय जातः, यदियं दृष्टा, चेद् द्विमुखराजा इमा मह्यं ददातु, तदाऽहमस्य यावजीवं सेवको भवामि। चण्डप्रद्योतस्येदृशः परिणामस्तस्य यामिके त्विा द्विमुखराज्ञे कथितः। राजाऽऽज्ञया यामिकैश्चण्प्रद्योतः सभायामानीतः। द्विमुखराज्ञाऽभ्युत्थानं कृत्वा चण्डप्रद्योतः स्वार्धाऽऽसने निवेशितः स प्राञ्जलीभूय एवं बभाषेमत् प्राणास्तव वशगाः सन्ति, मच्छ्यिस्त्वदायत्ताः सन्ति, त्वं मम प्रभुरसि, अहमतः परं सदैव तव सेवकाऽस्मिा अथ तद्भाववेत्ता द्विमुखराजा चण्डप्रद्योताय तदेव निजां पुत्रीं ददौ, ज्योतिविदिभः सुमुहूर्ते दत्ते चण्डप्रद्योतनृपो द्विमुखराजपुत्री परिणीतवान्, करमोक्षावसरे च तस्मै घनं द्रव्यं दत्तमवन्तीदेशं च दत्तवान् कन्यासहित चण्डप्रद्योत स्वदेशे द्विमुखो विसर्जितवान्। अन्यदा द्विमुखनरेन्द्रस्यपुरे लोकैरिन्द्रस्तम्भोऽद्भुतः कृतः, पूजितश्च, द्विमुखनृपोऽपि तं भृशं पूजितवान्, तस्मिन्महे व्यतीतेऽन्येास्तमिन्द्रस्तम्भं विलुप्तशोभममेध्यान्तःपतितं द्विमुखराजा ददर्श, एवं च चिन्तितवान्-जनर्यः पूजितो, मणिमालाकुसुमाऽऽदिभिश्च शृङ्गारितः सोऽयमिन्द्रस्तम्भः साम्प्रतमीदृशो जातः, यथाऽयं स्तम्भः पूर्वापरावस्थाभेदामाप्तः, तथा सर्वोऽपि संसारो भिन्न भिन्नामवस्थां प्राप्नोति, अवस्थाभेदकारणं रागद्वेषावेव, तत्प्रलयस्तु समताऽऽश्रयणाद्भयति, समता च ममतापरित्यागाद्भवति, ममतापरित्यागस्तु संयम विना न भवतीति वैराग्यमापत्रः शासनदेवतासमर्पितवेषः सर्वविरतिसामायिकं द्विमुखराजः स्वयं प्रतिपद्य प्रत्येकबुद्धो बभूव। उक्तञ्च- "वीक्ष्यार्चित पौरजनैः सुरेशध्वजं च लुप्त पतितं परेऽह्नि। भूर्ति त्वभूति द्विमुखो निरीक्ष्य, बुद्धः प्रपेदे जिनराजधर्मम् // 1 // " इति। उत्त०६ अ० व्य०। महागती।