________________ दुमपत्तय 2571 - अभिधानराजेन्द्रः - भाग 4 दुमपत्तय मिच्छत्तणिसेवए जणे, समयं गोयम ! मा पमायए।।१६।। धम्म पि हु सद्दहंतया, दुल्लहया काएण फासया। इह कामगुणेहिँ मुच्छिया, समयं गोयम ! मा पमायए।।२०।। लब्ध्वाऽपि प्राप्यापि मानुषत्वमिदं तावदतिदुर्लभमेव कथशि-- ल्लब्ध्वाऽपीत्यपिशब्दार्थः / आर्यत्वं मगधाऽऽद्यार्यदेशोत्पत्तिलक्षण, पुनरपे भूयोऽपि आकारस्त्वलाक्षणिकः / दुर्लभं दुरवापम् किमित्यत आह.-बहवः प्रभूता दस्यवो देशप्रत्यन्तवासिनश्वीराः। (मिलिक्खुय त्ति) म्लेच्छा अव्यक्तवाचो, न यदुक्तमार्यरवधार्यते. ते च शकयवनशवराऽs - दिदेशोद्भवाः, येऽथवा प्रापयापि मनुजत्वं जन्तुरुत्पद्यते, ते च सर्वेऽपि धम्म धर्मगम्यागम्यभक्ष्याभक्ष्याऽऽदिसकलाऽऽर्यव्यवहारबहिष्कृतास्तियश एव वा। इति समयमपि गौतम ! भा प्रमादीः / इत्थमार्थदेशीत्पत्तिरूपमार्यत्वमपि दुर्लभम्। तथाविधमपि लब्ध्वाऽप्यार्यत्वमुक्तरूपमहीनान्यविकलानि पञ्चेन्द्रियाणि स्पर्श नाऽऽदीनि यस्थ स तथा तद्भावोऽहीनपञ्चेन्द्रियता। हुरवधारणे भिन्नक्रपश्च, दुर्लभव : यद्वा -हु: पुनरर्थे / अहीनपश्चेन्द्रियता पुनर्दुर्लभा / इहैव हेतुमाह-विकलानि रोगाः ऽदिभिरुपहतानीन्द्रियाणि येषां तद्भावो विकलेन्द्रियता, हुरिति निपातोऽनेकार्थतया च बाहुल्यसूचकः / ततश्च यतो बाहुल्येन विकनेन्द्रियता दृश्यत, ततो दुर्लभाऽहीनपक्षेन्द्रियता, तथा च रामयमपि गौतम! मा प्रमादीः। तथा कथञ्चिदहीनपञ्चेन्द्रियतामप्युक्तन्यायताऽतिदुर्लभभामपि स इति जन्तुर्लभेत प्राप्नुयात, तथाऽप्युत्तमः प्रधानो यो धर्मर तस्य श्रुतिराकर्णना या सा तथा, हुरवधारणे भिन्यक्रमचा ततो दुर्लभव, किमिति, यतः कुत्सितानि च तानि तीर्थानि कुतीर्थानिशाक्योलूकाऽऽदिप्ररूपितानि, तानि विद्यन्ते येषामनुष्छे यतया स्वीकृतत्वात्ते कुतीर्थिनः, तानितरां संवते यः कुतीर्थिकनिषेवको जनो लोकः, कुतीर्थिनो हि यशःसत्काराऽऽद्येषिणो यदेव प्राणि प्रिय विषयाऽऽदि, तदेवोपदिशन्ति, तत्तीर्थकृतामप्येवविधत्वात / उक्त हि"सत्कारयशोलाभार्थिभिश्च मूरिहान्यतीर्थकरैः / अवसादितं जगदिद, प्रियायपश्यान्युपदिशद्भिः।।१।।" इति सुकरैव तेषा सेवा। तत्सेवनाच कुत उत्तमधर्मश्रुतिः? पठ्यतेच- "कुत्तित्थणिसेवए जणे" इति स्पष्टम् / एवं तद दुर्लभत्वमवधार्य समयमपि गौतम ! मा प्रमादीः / किं यलब्धटाऽपि उत्तमधर्मविषयत्वादुत्तमा ता श्रुतिमुक्तरूपा, श्रद्धानं तत्त्वरूचिरूपं पुनरपि दुर्लभं दुरापमपि / इहैव हेतुमाह-मिथ्याभावो मिथ्यात्वम्-अतत्त्वेऽपि तत्त्वप्रत्ययरूपं, त निषेवते यः स मिथ्यात्वनिषेवको, जनो लोकोऽनादिभवाभ्यस्ततया गुरुकतया च तत्रेव च प्रायः प्रवृत्तेः / यत एवमतः समयमपि गौतम ! मा प्रमादीः / / अन्य-धर्म, प्रक्रमात्सर्वज्ञप्रणीतम्, अपिभिन्नक्रमः, हुर्वाक्यालङ्कार / ततः श्रद्धतोऽपि कर्तुमभिलषन्तोऽपि दुर्लभकाः कायेन शरीरेण, उपलक्षणत्वाद मनसा वाचा च, स्पर्शका अनुष्ठातारः / कारणमाह-इहारिमन् जगति कामगुगेषु मूञ्छिता मूढाः, गृद्धिमन्त इत्यर्थः / जन्तव इति शेषः। प्रायेण ह्यपथ्यष्यव विषयेष्वभिष्वङ्गः प्राणिनाम्। यत उक्तम- "प्रायेण हि यद पथ्यं, तदेव चाऽऽतुरजनप्रियं भवति / विषयाऽऽतुरस्य जगतस्तथाऽनुकूलाः प्रिया विषयाः॥१॥"पाठान्तरतः कामगुणैर्मूञ्छिता इव मूञ्छिता विलुप्त धर्मविषयचैतन्यत्वात्, यतश्चैवमतो दुरापामिमामविकलां धर्मस मग्रीमवाप्य समयमपि गौतम ! मा प्रमादीरिति सूत्रपञ्चकार्थः / अन्यच्च-सति शरीरे तत्सामर्थ्य च सति धर्मस्पर्शनति तदनित्यताऽभिधानद्वारेण प्रमादोपदेशमाह परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते। से सोयबले य हायए, समयं गोयम ! मा पमायए / / 21 / / परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते। से चक्खुबले य हायए, समयं गोयम ! मा पमायए / / 22 / / परिजूरइ ते सरीरयं, . केसा पंडुरया हवंति ते। से घाणबले य हायए, समयं गोयम ! मा पमायए॥२३॥ परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते। से जिब्भबले य हायए, समयं गोयम ! मा पमायए // 24 / / परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते। से फासबले य हायए, समयं गोयम ! मा पमायए // 25 परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते। से सव्वबले य हायए, समयं गोयम ! मा पमायए।।२६|| परिजीर्यति सर्वप्रकारं वयोहानिमनुभवति 'ते' तव, शरीरमेव जराऽऽदिभिरभिभूयमानतयाऽनुकम्पनीयमिति शरीरकम् / यदा(परिजूरइ ति) "निन्देर्जूर०-" इति प्राकृतलक्षणात् परिनिन्दतीवाऽऽत्मानमिति गम्यते। यथा धिग्मां, कीदृशं यातमिति ? किमिति, यतः केशाः, शिरसिजाः, उपलक्षणत्वाल्लोमानि च, पाण्डुरा एव पाण्डुरका भवन्ति, पूर्वं जननयनहारिणोऽत्यन्तकृष्णाः, सम्प्रति शुक्लता भजन्ते, 'ते' तत्र, पुनस्तेशब्दोपादानं भिन्नवाक्यत्वादुपदेशाधिकाराचादुष्टम् / एवमुत्तस्त्रापि तथा। (से इति) तद् यत्प्रथममासीत् श्रोत्रयोः कर्णयोर्बलं दूराऽऽदिशब्दश्रवर्णसामर्थ्य श्रोत्रबल, चः समुचये। हीयते जरातः स्वयमपैति / यद्वा-शरीरजीर्णताऽवस्थाभाव्येतद्द्वयमपि योज्यं, यथा च परिजीर्यति शरीरकं तथा च सति केशाः पाण्डुरका भवन्ति / (से इति) अथ श्रोत्रबलं हीयते यतः ततः शरीरस्य तत्सामय॑स्य चास्थिरत्वात् समयमपि गौतम! मा प्रमादीः / एवं सूत्रपञ्चकमपि ज्ञेयम्, नवरमिह प्रथमतः श्रोत्रोपादानं प्रधानत्वात्, प्रधानत्वं च तस्मिन्सति शेषेन्द्रियाणामवश्यंभावात्, पटुतरक्षयोपशमजत्वाच्च तथोपदेशाधिकारादुपदेशस्य च श्रोत्रग्राह्यत्वात्। तथा सर्वबलमिति