________________ दुमपत्तय 2570 - अभिधानराजेन्द्रः - भाग 4 दुमपत्तय जीवात् पृथक् कुरु, रजः कर्म, (पुरे कडं ति) पुरा पूर्व तत्काला-पेक्षया, कृतं विहितं पुराकृतम् / तद् विधुननोपायमाह-समय मपि गौतम ! मा प्रमादीः / पठन्ति च- "एवं मणुयाण जीविए, इत्तरिए बढुपचवायए।" इति सुगममेवेति सूत्रार्थः। स्यात् पुनर्मनुष्यभावावाप्तावुद्यस्याम इत्याहदुल्लभे खलु माणुसे भवे, चिरकालेण वि सव्यपाणिणं / गाढा य विवागकम्मुणो,समयं गोयम ! मा पमायए।।४।। दुर्लभो दुरवापः, खलु विशेषणे, अकृतसुकृतानामिति विशेष द्योतयति / मानुषो मनुष्यसंबन्धी, भवो जन्म, चिरकालेनापि प्रभूतकालेनापि, आस्ताम् अल्पकाले नेत्यपिशब्दार्थः / सर्वप्राणिनां सर्वेषामपि जीवानाम् / ननु मुक्तिगमनं प्रति भव्यानामिव केषाञ्चिन्मनुजभवावाप्ति प्रति सुलभत्वविशेषोऽस्ति किमेवम्? अत आहगाढाः विनाशयितुमशक्यतया दृढाः, च इति यस्माद् (विवागकम्मुणो ति) विपाका उदयाः कर्मणां मनुष्यगतिविघातिप्रकृतिरूपाणां, यतएवमतः सभयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः। कथं पुनर्मनुजत्व दुर्लभं, यद्वा-यदुक्तं सर्वप्राणिनां दुर्लभं मनुजत्वमिति, तत्रैकेन्द्रियाऽऽदिप्राणिनां तद् दुर्लभत्वं दर्शयितुकामः कायस्थितिमाहपुढविक्कायमइगतो, उक्कोसं जीवे उ संवसे। कालं संखाईयं, समयं गोयम! मा पमायए / / 5 / / आउक्कायमइगतो,उक्कोसं जीवो उ संवसे। कालं संखाईयं, समयं गोयम ! मा पमायए।।६।। तेउक्कायमइगओ, उक्कोसं जीवो उ संवसे। कालं संखाईयं, समयं गोयम ! मा पमायए / / 7 / / वाउकायमइगओ, उक्कोसं जीयो उ संवसे। कालं संखाईयं, समयं गोयम! मा पमायए।।८|| वणस्सइकायमइगतो, उक्कोसं जीवो उ संवसे। कालमणंतदुरंतयं, समयं गोयम! मा पमायए ||6|| बेइंदियकायमइगतो, उक्कोसं जीवो उ संवसे / कालं संखेज्जसन्नियं, समयं गोयम ! मा पमायए।।१०।। तेइंदियकायमइगतो, उक्कोसं जीवो उ संवसे। कालं संखेज्जसन्नियं, समयं गोयम ! मा पमायए।११।। चउरिदियकायमइगतो, उक्कोसं जीवो उ संवसे। कालं संखेज्जसन्नियं, समयं गोयम ! मा पमायए।।१२।। पंचिंदियकायमइगतो, उक्कोसं जीवो उ संबसे। सत्तऽट्ठभवग्गहणं, समयं गोयम ! मा पमायए।।१३।। देवे नेरइय य मइगतो, उक्कोसं जीवो उ संवसे। एकेकभवग्गहणं, समयं गोयम ! मा पमायए।।१४।। पृथ्वी कटिनरूपा, सैव कायः शरीरं पृथ्वीकायः, तम, अतिशयन मृत्वा मृत्वा तदुत्पत्तिलक्षणेन, गतः प्राप्तोऽतिगतः(उक्कोसं ति) उत्कर्षतो जीवः प्राणी, तुः पूरणे, संवसेत्तद्रूपतयैवावतिष्टेत, कालं सङ्ख्याऽतीतमसङ्ख्यमित्यर्थः, यत एवमतः समयमपि गौतम ! मा प्रमादीरिति / एवमप्काय तेजस्वायतेजस्कायवायुकायसूत्रत्रयमपि व्याख्ययम्।। तथा वनस्पति सूत्र, नवरं कालमनन्तमिति। अनन्तकायिकापेक्षमतेत्, प्रत्येकवनस्पतीना कायस्थितेरसङ्ख्यातल्वात् / तथा-दुष्टोऽन्तोऽस्येति दुरन्तम्, इदमपि साधारणापेक्षयैव, ते ह्यत्यन्ताल्पबोधतया तत उद्भुता अपि न प्रायो विशिष्ट मानुषाऽऽदिभवमाप्नुवन्ति। इह च काल सङ्ख्यातीतमिति विशेषानभिधानेऽप्यसड ख्योत्सर्पिण्यवसर्पिणीमानम्, अनन्तमिति चानन्तोत्सर्पिण्यवसर्पिणीप्रमाणमित्यवगन्तव्यम् / यत आगम:"अस्संखोसप्पिणिसप्पिणीतों एगिदियाण उ चउण्हं। ता चेव अणताओ. वणस्सइए उबोधव्वा // 1 // " तथा द्वे द्विसङ्ख्ये इन्द्रिये स्पर्शनरसनाऽऽख्ये येषां ते द्वीन्द्रियाः कृम्यादयः,तत्कायमतिगत उत्कर्षतो जीवस्तु संक्सेत्काल सड़ ख्येयसंज्ञितं सङ्ख्यातवर्षसहस्राऽऽत्मकम्, अतः समयमपि गौतम! मा प्रमादीः // एवं त्रीन्द्रियचतुरिन्द्रियसूत्रे अपि भावनीये ! / तथा पञ्चेन्द्रियाणि स्पर्शनाऽऽदीनि येषां ते तथा, ते चोत्तरत्र देवनारकयोरभिधानाद मनुष्यत्वस्य दुर्लभत्वेन प्रक्रान्तत्वात्तिर्यश्च एव गृह्यन्ते, तत्कायमतिगतः, तत्कायोत्पन्न इत्यर्थः / उत्कर्पतो जीवस्तु संवसेत्सप्त वाऽष्ट वा सप्ताष्टानि तानिचतानि भवग्रहणानि च जन्मोपादानानि सप्ताष्टभवग्रहणानि, यतोऽतः समयमपि गौतम! मा प्रमादीः / तथा देवान नैरयिकांश्च अतिगत उत्कर्षतो जीवस्तु संवसेत् एकैकभवग्रहण, ततः परमवश्यं नरेषु तिर्यक्षु वोत्पादात्। यद्वा-(उक्कोसं ति) उत्कृष्यते तदन्येभ्य इत्युत्कर्षः, तमुत्कृष्टं कालं त्रयस्त्रिंशत्-सागरोपममानम्, (एक्कक्कभवग्गहणं ति) अपेर्गम्यमानत्वादेकैकभवग्रहणमपि संवसत्यतो जीवः संवसेदतः समयमपि गौतम ! मा प्रभादीरिति सूत्रदशकार्थः / उक्तमेवार्थमुपसंहर्तुमाह-- एवं भवसंसारे, संसरइ सुहासुहेहि कम्मे हिं। जीवो पमायबहुलो, समयं गोयम ! मा पमायए।।१५।। एवमुक्तप्रकारेण पृथिव्यादिकायस्थितिलक्षणेन, भव एव तिर्यगादिजन्माऽऽत्मकः संसियमाणत्वात्संसारो भवसंसारस्तस्मित्संसरति पर्यटति, शुभानि शुभप्रकृत्यात्मकानि, अशुभानि चाशुभप्रकृतिरूपाणि शुभाशुभानि, तैः कर्मभिःपृथ्वीकायाऽऽदि भवति बन्धनैर्जीवः प्राणी, प्रमादैः बहुलो व्याप्तः प्रमादबहुलः, यद्वा-बहून् भेदान् लातीति बहुलो मद्याऽऽद्यनेकभेदः प्रमादो धर्म प्रत्यनुद्यमाऽऽत्मको यस्य स बहुलप्रमादः, सूत्रे च व्यत्ययनिर्देशः प्राग्वत्। इह चायमाशयः यताऽयं जीवः प्रमादबहुलः सन् शुभाशुभानि काण्युपचिनोति, उपचित्य च तदनुरूपासु गतिष्वाभवं जीवभावमुपगम्य भ्राम्यति, ततो दुर्लभत्वात्पुनमानुषत्वस्य, प्रमादमूलत्वाच्च सकलानर्थपरम्परायाः, समरमपि गौतम! मा प्रमादीरिति सूत्रार्थः / एवं मनुजभवदुर्लभत्वमुक्तम्। इदानीं तदवाप्तावत्युत्तरोत्तरगुणावाप्तिरिति दुरापैवेत्यहलखूण वि माणुसत्तणं, आयरियत्तं पुणरावि दुल्लहं। बहवे दसुया मिलक्खुया, समयं गोयम! मा पमायए।॥१६॥ लखूण वि आरियत्तणं, अहीणपंचिंदियता हु दुल्लहा। विगलिंदियता हु दीसई, समयं गोयम ! मा पमायए।।१७।। अहीणपंचिदिंयत्तं पि से लभे, उत्तमधम्मसुती हु दुल्लहा। कुत्तित्थिणिसेवए जणे, समयं गोयम! मा पमायए / / 18|| लखूण वि उत्तमं सुई, सद्दहणा पुणरावि दुल्लहा।