________________ दुमपत्तय 2566 - अभिधानराजेन्द्रः - भाग 4 दुमपत्तय ताणं, कों डिण्णवग्गे सामि दळूण उववण्णं / गोयमसामी पुण पुरतो पकडमाणे सामी पयाहिणीकरेइ / ते वि के वलिपरिसं पहाविया / गोयमसामी भणइ-एह सामि वंदह / साभी भणइ-मा गोयमा ! केवली आसाएहि। गोयमसामी आउट्टो मिच्छादुक्कडं करेइ। ततो गोयमसामिस्स सुट ठुतरं अधिई जाया / ताहे सामी गोयम भणइ-किं देवाण वयण गज्झं, आतो जिणाण? गोयमो भणइ-जिण-वराण / तो कीस अधिई करेसि? ताहे सामी चत्तारिकडे पण्णवे तं जहा-सुट्टुकडे, विदलकडे, चम्मकडे, कंबलकडे / एवं साभी वि गोयमसामीतो केबलकडसमाणो। किं च-चिरसंसिट्ठो सि मे गोयमा ! चिरपरिचिओ सि मे गोयमा !०जाव अविसेसमणाणत्ता भविस्सामो, ताहे सामी 'दुमपत्तय' नामऽज्झयणं पाण्णवेइ। देवो वि सेससमणसामाणिओ ततो चइत्ता ण तुंबवणसण्णिवेसे धणगिरी नाम गाहावई, सो अड्डो, सो य पव्वइउकामो, तस्स य मायापियरो वारेइ, पच्छा से जत्थ जत्थ वारेति, तत्थतत्थ विपरिणामेति, जहा अहं पवइतुकामो। तरस य तयाणुरुवस्स गाहावइस्स सुणदा नाम धूया। सा भणइ-ममं देह / ताहे सा दिण्णा। तीसे य भाया अज्जसमितो नाम पुव्वपब्वइतो, तीसे य सुणंदाए कुच्छिरिस सो देवो उववण्णो / ताहे भणइ धणगिरी-एस ते गब्भो वितिज्जतो होहिइ, सो सीहगिरिस्स पासे पव्वाइओ। इतो न नवण्हं मासाणं दारओ जातो।" इत्यादि भगवद्वैरस्वामिकथा आवश्यकचूर्णितोऽवसैये-त्युक्तो नामनिष्पन्ननिक्षेपः / संप्रति स्त्राऽऽलापकनिष्पन्ननिक्षेपावसरः, स च सूत्रे सतीत्यतः सूत्रानुगमे सूत्रमुद्यारणीयम्। तचेदम्दुमपत्तएँ पंडुयए, जह निवडइ रायगणाण अच्चए। एवं मणुयाण जीवियं, समयं गोयम ! मा पमायए ||1|| द्रुमो वृक्षः, तस्य पत्रं पलाश, तदेव तथाविधावस्थाप्राप्त्याऽनुकम्पितं दुमपत्रक, (पंडुयए त्ति) आर्षत्वात् पाण्डुरकं, कालपरिणामतस्तथाविधरोगाऽऽदेर्वा प्राप्तबलक्षभावं, येन प्रकारेण यथा, निपतति शिथिलवृन्तबन्धनत्वाद्भस्यति, प्रक्रमाद्रुमत एव रात्रिगणाना, दिनगणाविनाभावित्वादुपलक्षणत्वाद्वा रात्रिन्दिवसमूहानाम्, अत्ययेऽतिक्रमे, एवमि.. त्येवंप्रकार, मनुष्याणां मनुजाना, शेषजीवोपलक्षणं चैतद, जीवितमायुः, तदपि हि रात्रिन्दिवगणानामतिक्रमे यथास्थित्या स्थितिखण्डकापहाराऽऽत्मकेनाध्यवसायाऽऽदिजनितेनोपक्रमणेन वा जीवप्रदेशेभ्यो भ्रस्थतीत्येवमुच्यते / यतश्चैवमतोऽत्यन्तनिरुद्धः कालः समयस्तम्, अपिशब्दस्य गम्यमानत्वात् समयमपि, आस्तामावलिकाऽऽदि / गौतमेति गौतमसगोत्रेस्येन्द्रभूतरामन्त्रणम्, मा प्रमादीः मा प्रमाद कृथाः, शेषशिष्योपलक्षणं च गौतमग्रहणम्। उक्तं हि नियुक्तिकृता"तन्निस्साए भगवं, सीसाण देइ अणुसहि।।" अत्र च णण्डुरकपदाऽऽक्षिप्तं यौवनस्थाप्यनित्यत्वमाविश्चिकीर्षुराह नियुक्तिकृत्परियट्टियलावण्णं, चलंतसंधिं मुयंतविंटागं। पत्तं वसणं पत्तं, कालं पत्तं भणइ गाहं // 42 / / जह तुब्भे तह अम्हे, तुब्भे वि य होहि य जहा अम्हे / अप्पाहेइ पडतं, पंडुयपत्तं किसलयाणं / / 43|| न वि अस्थि न वि य होहि इ, उल्लावो किसलपंडुपत्ताणं। / उवगा खलु एस कया, भवियजणविबोहणट्ठाए॥४४॥ परिवर्तितं कालपरिणत्याऽन्यथाकृतं, लावण्यमभिरामगुणाऽऽ-- त्मकमस्येति परिवर्तितलावण्यं, यतोऽनन्तस्य प्रागिव सौकुमार्याऽऽदि विद्यते। तथा चलन्तः शिथिलीभवन्तः सन्धयो यरिंमस्तत्तथा, अत एव (मुयंतविंटागं ति) मुञ्चत् त्यजत् सामाद वृक्षं वृन्तं पत्रबन्धनं यस्य तन्मुञ्चदवृन्तकं, वृन्तस्य च वृक्षमोचने पत्रस्यपतनमेव भवतीत्येतदित्युक्त भवति, पत्र पर्ण,व्यसनमा पदं, प्राप्त व्यसनप्राप्त, तथा कालः, प्रक्रमात् पतनप्रस्तावः, तं,प्राप्तं गतं कालप्राप्त, भणत्यभिधत्ते, गीयत इति गाथा, तां छन्दोविशेषरू-पाम् / तामेवाऽऽह-यथेति सादृश्ये,ततो यथा यूर्य संप्रति किशलयभावमनुभवन्तः स्निग्धाऽऽदिगुणैर्गर्वमुद्हन्तोऽस्मानुपहसप, तथा वयमतीतदशायां, तथा यूयमपि च भविष्यथ यथा वयमिति। जीर्णभावे हि यथा वयमिदानीं विवर्णविच्छायतयोपहास्यान्येवं यूयमपि भावीनीति। (अप्पाहेइत्ति) उक्तन्यायेनोपदिशति पितेव पुत्रस्य, पतद् भ्ररयत्पाण्डकपत्रं जीर्णपर्ण, किशलयानामभिनवपत्राणाम्। ननु किमेवं पत्रकिशलयानामुल्लापाः संभवन्ति,येनेदमुच्यते? अत आह-नैवास्ति नव विद्यते, नैव भविष्यति, उपलक्षणत्वान्नैव भूतः, कोऽसौ? उल्लापो वचन, केषाम्? किशलयपाण्डुपत्राणामुक्तरूपाणाम्। आर्षत्वाञ्च य लोपः। तदिह किमेवमुक्तमिति? आह-उपमा उपमितिः, खल्वेवकारार्थः, तत उपमैवेषानन्तरोक्ता, कृताऽभिहिता / (भवियजाणविबोहणट्टाए त्ति) प्रतीतमेव / यह किशलयानि पाण्डुपत्रेणानुशिष्यन्ते, तथा अन्योऽपि यौवनगर्वितोऽनुशासनीयः / तथा चैतदनुवादिना वाचकेनावाचि'परिभवसि किमिति लोक, जरसा परिजर्जरीकृतशरीरम् / अचिरात् त्वमपि भविष्यराि, यौवनगर्व किमुद्रहसि? / / 1 / / " तदेवं जीवितयौवनयोरनित्यत्वमवगम्य न प्रमादो विधेय इति गाथात्रयार्थः / पुनरायुषोऽनित्यत्व ख्यापयितुमाहकूसग्गे जह ओसबिंदुए, थोवं चिट्ठइ लंबमाणए। एवं मणुयाण जीवियं, समयं गोयम ! मा पमायए।।२।। कुशो दर्भसदृशस्तृणविशेषः, तनुकत्वाच्च तस्योपादानं, तस्याग्रं प्रान्तस्तस्मिन्, यथेत्युपमाप्रदर्शकः, अवश्यायः शरत्कालभावी श्लक्ष्णवर्षः, तस्य बिन्दुरेव बिन्दुकोऽवश्यायबिन्दुकः, स्तोकमल्पं, कालमिति गम्यते / तिष्ठत्यास्ते, लम्बमानको मनाग निपतन्, बद्धाऽऽस्पदो हि कदाचित् कालान्तरमपि क्षमतेत्येवं विशिष्यते / एवमित्युक्तसदृशं मनुजानां मनुष्याणां, मनुजग्रहणं च प्राग्वत्। (जीविय त्ति) जीवित, यत एक, ततः समय गौतम ! मा प्रमादीरिति सूत्रार्थः / अमुमेवार्थमुपसंहरनुपदेशमाहइइइत्तरियम्मि आउए, जीवियए बहुपचवायए। विहुणाहि रयं पुरे कडं, समयं गोयम ! मा पमायए / / 3 / / इतीत्युक्तन्यायेन, इत्वरे अयनशीले, कोऽर्थः? स्वल्पकालभाविनि, एत्युपक्रमहेतुभिरनपवर्त्यतया यथास्थित्यवानुभवनीयता गच्छतीत्यायुः, तचैवं निरुपक्रममेव, तस्मिन्, तथाऽनुकम्पितं जीवित जीवितकं, चशब्दस्य गम्यमानत्वात्तस्मिश्चार्यात् सोपक्रमाऽऽयुषि, बहवः प्रभूताः प्रत्यपाया उपघातहेतवोऽध्यवसननिमित्ताऽऽदयो यरिंमस्तत्तथा, अनेन चानुकम्पताहेतुराविष्कृतः, एवं चोक्तरूपद्रुमपत्रोदाहरणतः, कुशाग्रजलबिन्दूदाहरणतश्चे मनुजाऽऽयुर्निरुपक्रम सोपक्रम चेत्वरम्, अतोऽस्थाप्यनित्यतां मत्वा विधुनीहि