________________ जाइसरण 1445 - अभिधानराजेन्द्रः - भाग 4 जाइसरण पनयनेन निर्मलीकरणाद्भवेज्जायते जातिस्मरोऽनुभूतभवस्मर्ता पुमान् प्राणी ब्रह्मचर्यादीनां योगविशेषाणां ज्ञानावरणहासान्त रङ्गकरणत्वात्। अत्रैव प्रसङ्गसिद्धिमाहअत एव नं सर्वेषामेतदागमनेऽपि हि। परलोकात् यथैकस्मात्, स्थानात् तनुभृतामिति / / 56|| "अत एव'' इत्यादि। अत एव ब्रह्मचर्यादार्तिस्मरण हेतुत्वादेव (न) नैव सर्वेषां देहिनाम्। एतत् जातिस्मरणम्, आगमनेऽपि ह्यप्यागतोवपि किं पुनर्लोकायतमतेन तद्भाव इत्यपिहिशब्दार्थः। परलोकात् परभवात्। "यथा'' इतिदृष्टान्तार्थ एकस्मात् स्थानात् पाटलिपुत्राकादेरागमनेऽपि तनुभृताम् तत्रानुभूतार्थस्मरणम्। 'इतिः' वाक्यपरिसमाप्तौ। इदमुक्त भवति - यथैकस्मात् पाटलिपुत्राकादेः स्थानादागता नामपि सुबहूनां पथिकाना क्वचिद्विवक्षिते स्थाने च सर्वेषां प्रागनुभूतार्थस्मृतिरुपजायते, किं तु केषांचिदेव, एवं भवान्त रस्मृतावपि योजना स्यादिति न चाल्पवबहूत्वेन स्मर्तृणां दृष्टान्तदान्तिकयोर्वेषम्यमुद्भावनीयं, स्मर्तृसंभवमात्रस्य प्रतिपादयितु मिष्टत्वात् दृष्टान्तदार्शन्तिकयोः सर्वदा, साधा भावाच // 56 // एतदेव भावयन्नाहन चैतेषामपि ह्येतदुन्मादग्रहयोगतः। सर्वेषामनुभूतार्थ-स्मरणं स्याद्विशेषतः // 60il (न च) नैव। एतेषामप्येकस्थानादागतानां किं पुनर्भवान्तरा दागतानामपि इत्यपिशब्दार्थः। हिः यस्मात् एतदिदम्। उन्माद ग्रहयोगतः उन्मादो मोहावेशों ग्रहश्च भूतावशस्तत उन्मादग्रह योर्योगः संबन्धस्तस्मात्। सर्वेषां समस्तानाम्। किमित्याह-अनुभूतार्थस्मरण (स्याद्) भवेद् विशेषतः सर्वान् विशेषान प्रतीत्य किं तु सामान्येनैव // 60 // अथ दान्तिके सर्वेषां सामान्येन स्मृतिर्यथा स्यात्तयाहसामान्येन तु सर्वेषां, स्तनवृत्यादिचिहितम्। अभ्यासातिशयात् स्वप्न-वृत्तितुल्यं व्यवस्थितम्॥६१।। सामान्येन साधारणतया। तुः विशेषणार्थः। सर्वेषां समस्तानां प्राणिनाम। स्तनवृत्यादिचिन्हित स्तनवृत्तिस्तदहर्जा तानां स्तनपानरुपा। आदिशब्दात् रमणीयरुपकन्दुकाद्यवलोकनकुतूहलादिका विविधा चेष्टा गृह्यते। तथा चिन्हित व्यक्तिभावमानीतम् 'जातिस्मरणम्' इति गम्यते। कीदृशमित्याह.- (अभ्यासातिशयात्) पुनः पुनरासेवनमभ्यास स्तस्यातिशय उत्कर्षस्तस्मात्। (स्वप्नवृत्तितुल्यम्)। स्वप्नकालोपलभ्यमानदिवसानुभूतवनदेवकुलादिविहारादि व्यवहारसमम्। (व्यवस्थितम्) प्रतिष्ठितम्। यथाभ्यासतिशयात् स्वप्ने दिनानभूतोऽर्थ उपलभ्यते, एवं स्तनवृत्यादिको व्यवहारः प्राग्भवानुभूतो भवान्तर इति // 61 // ननु स्वप्नवृत्तिः पश्चादपि स्मर्यते न त्वेवं स्तनादिवृत्तिर्भवान्तर संवन्धिना इह स्मयेत इति कथम् अनयो दृष्टान्तरदान्तिकभाव इत्याशङ्कयाह - स्वप्ने वृत्तिस्तथाभ्यासा-द्धिशिष्टस्मृतिवर्जिता।। जाग्रतोऽपि कृचित्सिद्धा, सृदमबुद्धया निरुप्यताम्॥६२।। स्वप्ने प्रवृत्तिरुक्तरुपां (तथाभ्यासात्) तत्प्रकारादभ्यासात्, मन्दाभ्यासादित्यर्थः। (विशिष्टस्मृति वर्जितां) स्फुटप्रतिभासरूपस्मरणरहिता। 'क्वचित् सिद्धा" इत्युत्तरेण योगः। तथा (जाग्रतोऽपि) क्षीणनिद्रस्य कस्यचित् कि पुनरन्यस्येति क्वचित् क्षेत्रो काले वा (सिद्धा) सर्वलोक संमत्या प्रतिष्ठिता वृत्तिर्गच्छत्ततृणस्पर्शादिका तथाऽभ्यासादेव स्मृतिवर्जिता। एतदर्थप्रतीतावुपदेशमाह - (सूक्ष्मवुद्धया) निपुणाभोगेन (निरूप्यताम्) परिभाव्यतामेदन्यथा उक्तस्या प्यर्थस्य सम्यगवगमाभावात् // 62 / / अथ प्रकारान्तरत एव जातिस्मरणादात्मसिद्धिम भिधित्सुराह - श्रूयन्ते च महात्मानः, एते दृश्यन्ते इत्यपि। क्वचित्संवादिनस्तस्मा-दात्मादेर्हन्त निश्चयः // 63|| (श्रूयन्ते) समाकर्ण्यन्ते कथानकेषु भरूकच्छाद शकूनिकाजीवराजपुत्रीसुदर्शनादयः। चकारी हेत्वन्तरसमुचये। (महात्मानः) प्रशस्तस्वभावाः। (एते) जातिस्मरकाः। (दृश्यन्ते इत्यपि) दृश्यन्ति साक्षादेव क्वचित् इदानीमप्युपलभ्यन्ते। कीदृशाः? इत्याह-(संवादिनः) विसवादविकलवचनाः। ततः किमित्याह - (तस्मात्) जाति स्मरकादिसेवादात् (आत्मादेः) जीवकर्मादेरतीन्द्रियस्यापि कथचिद्। "हंत'' इति कोमलामन्त्रण। निश्चयः संपद्यते इति॥६३।। अथ निगमयन्नाहएवं च तत्वसंसिद्धेोग एवं निबन्धनम् (64) (एवम्) चोक्तन्यायेनैव (तत्वसंसिद्धेः) आत्मादृष्टादिप्रतीतेः योग एव नापरं किञ्चित् (निबन्धन) हेतुर्वर्तते। (64) यो० वि०। ननु नवमासमत्रान्तरितमपि प्राक्तनं भवं सामान्यजीवः कथं स्मरतीत्याहजायमाणस्स जं दुक्खं, मरमाणस्स वा पुणो। तेण दुक्खेण संमूढो, जाइं सरइन अप्पणो // 2 // जायमानस्य गर्भानिस्सरमाणस्य उत्पद्यमानस्य वा यत् दुःखं भवति (वा) अथवा पुनर्मियमाणस्य पञ्चत्वं कुर्वाणस्य च यत् दुःखं भवति। तेन दारुणदुःखेन समूह्ये महामोहभावं प्राप्तः जाति प्राक्तनभवमात्नीय स्वकीयं मूढात्मा प्राण। न स्मरति कोऽहं पूर्वभवे देवादिकोऽभवमिति न जानातीति ॥शता (न जानाति 'दिसा' शब्दे दृष्टान्तः।) जातिस्मरण संख्यातभवनि र्णायकं न वेति प्रश्ने, उत्तरम् - जातिस्मरणमपि समतिक्रान्तं संख्यातभवावगमस्वरुपं मतिज्ञानभेद एवेति कर्मग्रन्थवृत्या चाराङ्गवृत्यनुसारेण संख्यातभवनिर्णायकं जाति स्मरण ज्ञायत इति। 130 प्र०। सेन०१ उल्ला०) कर्म ग्रन्थवृत्तौजाति स्मरणमपि अतीतसंख्यात-भवावग स्वरूपं मतिज्ञानमेवेत्युक्त मस्ति "पुज्वभवा सो पिच्छइ, इक्क दो तिन्नि जाव नवगं वा। उवरि तस्स अधिसओ, सहावओ जाइसरणस्स / / 1 / / " इतिगाथायां तु नवैव भवाः जातिस्मरणस्य विषयास्तत्कथमिति प्रश्नानत्तरम् - जातिस्मरणवान् आचाराङ्ग-वृत्याद्यभिप्रायेणा तीतानसंख्यात् भवान् पश्यतीति ज्ञायते कर्मग्रन्थवृत्तावपि स एवाभिप्रायोऽस्ति 'पुत्वभवा सोपिछइ' इयं गाथा तु बूढितपत्रास्था न तु तथाविधग्रन्थस्था तेन निर्णायिका न भवतीति / 341 प्र० सेन०३ उल्ला०। इदानीं भ