________________ दीहकालिगी 2545 - अभिधानराजेन्द्रः - भाग 4 दीहदसा त्युच्यते, कालिकी चासौ संज्ञा च भूबद्भावात् 'कालिकसंज्ञा' इति द्रष्टव्यम् / यया सुदीर्घमपि कालं भूतमतीतम) स्मरति, एष्यच भविष्यद्वस्तु चिन्तयति-कथं नु नाम कर्तव्यम् ? इत्येषा चिन्तामाश्रित्य दीर्थोऽतीताऽनागतवस्तुविषयः कालो यस्यां सा दीर्घकालिकी कालिकासंज्ञोच्यत इत्यर्थः / / 508 / / विशे०। ('सण्णी' शब्द चैतया संझिनो ऐश्व्याः ) दीहकालिय त्रि०(दीर्घकालिक) दीर्घः कालो विद्यते यस्य स दीर्घ कालिकः। स्था०३ टा०१७०चिरन्तने, दशा०७ अ० दीहकालियउवएस पुं०(दीर्घकालिकोपदेश) दीर्घः कालो दीर्घकालः, सोऽस्यास्तीति दीर्घकालिकः, स चासावुपदेशश्च, उपदेशो भणन, दीर्धक लोपदेशः। दीर्घकालिके, भणने, आ०म०१ अ०६ खण्ड। दीहखद्ध त्रि०(दीर्घखद्ध) (खद्धशब्दन प्रचुरभिधीयते / प्रद०२ द्वारा; प्रचुरतरे, व्य०४ उ०। दीहगोरवपरिणाम पुं०(दीर्घगौरवपरिणाम) यत आयुः स्वभावाद जीवस्य दीर्घ दीर्घगमनतया लोकान्ताद् लोकान्तं यावद् गमनशक्तिर्भवति स दीर्घगौरवपरिणामः / अष्टमे आयुषः परिणाम, इह गौरवशब्दो गमनपर्यायः / स्था०टा०। दीहजीह (देशी) शङ्के, दे०ना०५ वर्ग 41 गाथा। दीहडक्क त्रि०(दीर्घदष्ट) सर्पदष्टे, नि०चू०१उ० दीहण पुं०(दृष्टान्त) देशीयशब्दमेतत्। उदाहरणे, दर्श०१ तत्त्व। दीहणिद्दा स्त्री०(दीर्घनिद्रा) मरणे, चिरकालव्यापिन्यां निद्रायाम, आचा०१ श्रु०२१०४ उ०। शुभ्राऽऽदित्वान्न णत्वम्। वाचा दीहणिव पुं०(दीर्घनृप) काम्पिल्यपुरराजे, यो हि ब्रह्मदत्तेन हतः।। उत्त०१३ अन दीहदंत पुं०(दीर्घदन्त) जम्बूद्वीपे द्वीपे भारते वर्षे आगमिष्यन्त्या मुत्सर्पिण्या भविष्यति द्वितीये चक्रवर्तिनि, स०। तिला ती दीहइसा स्त्री०(दीर्घदशा) व०५०। दशाध्ययने ग्रन्थविशेषे, स्थान दीहदसाणं दस अज्झयणा पण्णत्ता / तं जहा-- "चंदे सूरे य सुक्के य, सिरिदेवी पहावई। दीवसमुद्दोववत्ती, बहुपुत्ती मंदरे इय / / 1 / थेरे संभूयविजए, पम्ह उस्सासनिस्ससे।।" दीर्घदशाः स्वरूपतोऽनवगता एव, तदध्ययनानि तु कानिचिन्निरयाऽऽवलिकाश्रुतस्कन्धे उपलभ्यन्ते, तत्र चन्द्रवक्तव्यताप्रतिबद्धं चन्द्रमध्ययनम्। तथाहि-राजगृहे महावीरस्य चन्द्र ज्योतिष्कराजो वन्दनं कृत्वा नाट्यविधि चोपदर्य प्रतिगतः, गौतमश्च भगवन्तं तद्वक्तव्यतां पप्रच्छ, भगवाँश्चोवाच श्रावस्त्यामङ्ग जिन्नामाऽयं गृह-पतिरभूत्पार्श्वनाथसमीपे च प्रव्रजितो विराध्य च मनाक श्रामण्यं चन्द्रतयोत्पन्नो, महाविदहे च सेत्स्यतीति। तथा सूरवक्तव्यता–प्रतिबद्धं सूरं, सूरवक्तव्यता चन्द्रवद्, नवरं सुप्रतिष्ठो नाम्ना बभूवेति। शुक्रो गृहः तद्वक्तव्यता चैवम्-राजगृहे भगवन्तं वन्दित्वा शुक्रे प्रतिगते गौतमेन पृष्ट तथैव भगवानुवाचवाराणस्या सौमिलनामा ब्राह्मणोऽयमभवत, पार्श्वनाथ चाऽपृच्छत्-"तं / गते : जवणिज," तथा- "सरिसवया मासा कुलत्था य ते भोजा," तथा- ''एगे भवं दुवे भवं / '' इत्यादि। भगवता चतेषु विभक्तेष्याक्षिप्तः श्रावको भूत्वा पुनर्विपर्यासादारामाऽऽदिलौकिकधर्मस्थानानि कारयित्वा दिक प्रोक्षकतापसत्वेन प्रव्रज्य प्रतिषष्ठपारणकं क्रमेण पूर्वाऽऽ-- दिदिग्भ्य आनीय कन्दाऽऽदिकमभ्यवजहार / अन्यदाऽसौ यत्र वचन गर्ताऽऽदौ पतिष्यामि तत्रैव प्राणांस्त्यक्ष्याम इत्यभिग्रहमभिगृह्य काष्ठमुद्रया मुखंबद्धा उत्तराभिमुखः प्रतस्थौ, तत्र प्रथमदिवसे पराह्नसमये अशोकतरोरधो होमाऽऽदिकर्म कृत्वोवास, तत्र देवेन केनाप्युक्तः-अहो सौमिल ब्राह्मण महर्षे ! दुःप्रव्रजितते, पुनर्द्वितीयेऽहनि तथैव सप्तपर्णस्याध उषित उक्तः, तृतीयाऽऽदिषु दिनेषु अश्वत्थवटोदुम्बराणामध उषिता भणितो देवेन, ततः पञ्चमदिनेऽवादीदसौकथं नु नाम मे दुःप्रव्रजितम्? देवोऽवोचत्त्वं पार्श्वनाथस्य भगवतः समीपे अणुव्रताऽऽदिकं श्रावकधर्म प्रतिपक्षाधुनाऽन्यथा वर्तसे इति दुःप्रव्रजितं तव, ततोऽद्यापि तमेवाणुव्रताऽऽदिक धर्म प्रतिपद्यस्व, येन सुप्रवजितं तव भवतीति / एवमुक्तः तथैव चकार, ततः श्रावकत्वं प्रतिपाल्यानालोचितप्रतिक्रान्तः कालं कृत्वा शुक्रावतसके विमाने शुक्रत्वेनोत्पन्न इति / तथा श्रीदेवीसमाश्रयमध्ययनांश्रीदेवीति। तथाहि-रमा राजगृहे महावीरवन्दनाय सौधर्मादाजगाम, नाट्य दर्शयित्वा प्रतिजगाम च, गौतमस्तत्पूर्वभवं पप्रच्छ। भगवाँस्तं जगोद-राजगृहे सुदर्शन-श्रेष्ठी बभूव प्रियाभिधाना च तद्भार्या, तयोः सुता भूता नाम बृहत्कुमारिका पार्श्वनाथसमीपे प्रव्रजिता शरीरवकुशा जाता सातिचारा च मृत्वा दिवं गता, महाविदेहे च सेत्स्यतीति / तथा प्रभावती चेटकदुहिता वीतभयनगरनायकोदायनमहाराजभार्या, यया जिनबिम्बपूजाऽर्य स्नानानन्तरं चेट्या सितवसनार्पणेऽपि विभ्रमाद्रक्तवसनमुपनीतमनवसरमनयेति मन्यमानया मन्युना दर्पणेन चेटिका हता, मृता च, सा ततो वैराग्यादनशनं प्रतिपद्य देवत्वं प्रतिपन्ना, यया चोज्जयनीराजनं प्रति विक्षेपेण प्रस्थितस्य ग्रीष्मे मासि पिपासाऽभिभूतसमस्तसैन्यस्योदायनमहाराजस्य स्वच्छशीतलजलपरिपूर्णत्रिपुष्करकरणेनोपकारोऽकारीत्येवंलक्षणप्रभाक्तीचरितयुक्तमध्ययनं प्रभावतीति संभाव्यते, न चैवं निरयावलिकाश्रुतस्कन्धे दृश्यत इति पञ्चमम / तथा बहुपुत्रिकादेवीप्रतिबद्धं सैवाध्ययनमुच्यते। तथाहि-राजगृहे महावीरवन्दनार्थ सौधर्माद बहुपुत्रिकाभिधाना देवी समवततार, वन्दित्वा च प्रतिजगाम, केयमिति पृष्ट गौतमेन भगवानवादीत्-वाराणस्यां नगर्या भद्राऽभिधानस्य सार्थवाहस्य सुभद्राऽभिधाना भार्ययं बभूव, सा च बन्ध्या पुत्रार्थिनी भिक्षार्थमागतमार्या संघाटकं पुत्रलाभ पप्रच्छ / स च धर्ममचीकथत। प्रावाजीच सा बहुजनापत्येषु प्रीत्याऽभ्यङ्गोवर्तनापरायणा सातिचारा मृत्वा सौधर्ममगमत्,ततश्च्युत्वा च विमेलसंनिवेशे ब्राह्मणीत्वेनोत्पत्स्यते, ततः पितृभागिनेयभार्या भविष्यति युगलप्रसवा च, सा षोडशभिर्वर्षेत्रिंशदपत्यानि जनयिष्यति, ततोऽसौ तन्निर्वेददार्याः प्रक्ष्यति, ताश्च धर्म कथयिष्यन्ति, श्रावकत्वं च सा प्रतिपत्स्यते, कालान्तरे प्रव्रजिष्यति, सौधर्म चन्द्रसामानिकतयोत्पद्य महाविदेहे सेत्स्यतीति / तथा स्थविरः संभूतविजयो भद्रबाहुरचामिनो गुरुभ्राता स्थूलभद्रस्य सगडालपुत्रस्य दीक्षादाता, तद्वक्तव्यताप्रतिबद्धमध्ययन स एवोच्यत इति नवमम् / शेषाणि त्रीण्यप्रतीतानि / स्था०१० ठा।