________________ दीवसमुद्द 2543 - अभिधानराजेन्द्रः - भाग 4 दीवसमुद्द वणादिया समुद्दा, संठाणतो एकविहिविह णा, वित्थारतो अणेगविहिविहाणा-दुगुणा दुगुणा पडुप्पाएमाणा पडुप्पाएमाणा पवित्थरमाणा पवित्थरमाणा ओभासमाणवीइया बहुउप्पलपउमकुमुदणलिणसुभगसोगंधियपोंडरीयमहापोडरीयसतपत्तसहस्सपत्तयफुल्लकेसरोवचिया, पत्तेयं पत्तेयं पउ-- मवरवेइया परिक्खित्ता, पत्तेयं पत्तेयं वणसंडपरिक्खित्ता अस्सि तिरियलोए असंखेज्जा दीवसमुद्दा सयंभूरमणएज्जव-साणा पण्णत्ता समणाउसो! (कहि णं भंते ! दीवसमुद्दा इत्यादि) कु कस्मिन, णमिति वाक्यालङ्कारे, भदन्त ! परमकल्याणयोगिन् ! द्वीपसमुद्राः प्रज्ञप्ताः? अनेन द्वीपसमुद्राणामवस्थानं पृष्टम् / (केवइया णं भंते ! दीवसमुद्दा इति) कियन्तः कियत्संख्याकाः, भदन्त ! द्वीपसमुद्राः? अनेन द्वीपसमुद्राणा संख्यानं पृष्टम् / (के माहलया णं भंते ! दीवसमुद्दा इति) किं महानालय आश्रयो व्याप्यक्षेत्ररूपो येषां ते महालयाः, किंप्रमाणा महालयाः, णमिति प्राग्वता द्वीपसमुद्राः प्रज्ञप्ताः? किंप्रमाण द्वीपसमुद्राणां महत्वमिति पाठः / एतेन द्वीपसमुद्राणाभावामाऽऽदिपरिमाणं पृष्टम् / तथा-(किंसंठिया णं भंते! दीवसमुद्दा इति) किं संस्थितं संस्थानं येषां ते किंसंस्थिताः,णमिति पूर्ववत्। भदन्त ! द्वीपसमुद्राः प्रज्ञप्ताः? अनेन संस्थानं पप्रच्छ। (किमागारभावपडोयारा णं भंते ! दीवसमुद्दा पण्णत्ता इति) आकारभावः स्वरूपविशेषः, कस्याऽऽकारभावस्य प्रत्यवतारो येषांते किमाकारभावप्रत्यवताराः / बहुलग्रहणाद्वैयधिकरण्येऽपि समासः / णमिति पूर्ववत्। द्वीपसमुद्राः ? किं स्वरूप द्वीपसमुद्राणामिति भावः / अनेन स्वरूपविशेषविषयः प्रश्नः कृतः / भगवानाह-(गोयमेत्यादि) गौतम ! जम्बूद्वीपाऽऽदयो द्वीपाः, लवणाऽऽदिका लवणसमुद्राऽऽदिकाः समुद्राः, अनेन द्वीपानां समुद्राणां चाऽऽदिरक्तः। एतचापृष्टमपि भगवता कथितमुत्तरखोपयोगित्वात्, गुणवते शिष्यायापृष्टमपि कथनीयमिति ख्यापनार्थ च। (संढाणतो इत्यादि) संस्थानतः संस्थानमाश्रित्य (एगविहिविहाणा इति) एकविधि एकप्रकारं विधानं येषां ते एकविधिविधानाः, एकस्वरूपा इति भावः / सर्वेषां वृत्तसंस्थानसस्थितत्वात् / विस्तरतो विस्तारमधिकृत्य पुनरनेकविधिविधानाः, अनेकविधानि अनेकप्रका-राणि विधानानि येषां ते तथा, विस्तारमधिकृत्य नानारूपा इत्यर्थः / तदेव नानारूपत्यमुपदर्शयति--(दुगुणा दुगुणा पडुप्पाएमाणा पडुप्पाएमाणा पवित्थरमाणा पवित्थरमाणा इति) द्विगुणं द्विगुणं यथा भवति एवं | प्रत्युत्पद्यमानाः प्रत्युत्पद्यमानाः, गुण्यमाना इत्यर्थः / प्रविस्तरन्तः प्रविस्तरन्तः, प्रकर्षण विस्तारं गच्छन्तः। तथाहि-जम्बूद्वीप एक लक्षं, लवणसमुद्रो द्वे लक्षे, धातकीखण्डश्चत्वारि लक्षाणीत्यादि। (ओभासमाणवीइया इति) अवभासमाना वीचयः कलोल्ला येषां तेऽवभासमानवीचयः / इदं विशेषणं समुद्राणां प्रतीतमेव, द्वीपानामपि वेदितव्यम्, तेष्वपि हृदनदीतडागाऽऽदिषु कल्लोलसंभवात्। तथा बहुभिरुत्पलपद्मकुमुदनलिनसुभगसौगन्धिकपुण्डरीकमहापुण्डरीकशतपत्रसहस्रपत्रैः (फुल्ल शि) प्रफुल्लैर्विकसितैः (केसरे त्ति) केसरोपलक्षितरुपचिता उपचितशोभाका बहुत्पलपडाकुमुदनलिनसुभगसौगन्धिकपुण्डरीकमहा पुण्डरीकशतपत्रसहस्रपत्रप्रफुल्लकेसरोपचिताः, तत्र उत्पलं गर्दभक, पदा सूर्यविकाशि, कुमुदं चन्द्रविकाशि, नलिनमीषन्द्रक्तपा, सुभगं पद्मविशेषः, सौगन्धिकं कहार, पुण्डरीकं शताम्बुजं, तदेव बृहत् महापुण्डरीकं शतपत्रसहरसपत्रे पद्मविशेषौ पत्रसंख्याकृतभेदौ। (पत्तेयं पत्तेयमिति) प्रतिशब्दोऽत्राभिमुख्ये, "लक्षणेनाभिप्रती आभिमुख्ये" ||2|1 / 14 / / इति च समासः, ततो वीप्साविवक्षायां प्रत्येकशब्दस्य निर्वचन, पदावरखेदिका परिक्षिप्ताः, प्रत्येकं प्रत्येक वनखण्डपरिक्षिप्ताश्च। (सयंभूरमणपजवसाणा इति) जम्बूद्वीपाऽऽदयो द्वीपा: स्वयंभूरमणद्वीपपर्यवसानाः- लवणसमुद्राऽऽदयः स्वयंभूरमणसमुद्रपर्यवसानाः। अस्मिन् तिर्य-ग्लोके यत्र वयं स्थिता असंख्येया द्वीपसमुद्राः प्रज्ञप्ताः। हे श्रमण! हेआयुष्मन् ! इह अस्मिन् "तिरियलोए" इत्यनेन संस्थानमुक्तम्। असंख्येया इत्यनेन संख्यानम्, “दुगुणा दुगुणा'' इत्यादिना महत्त्वम्, ''संठाणतो'' इत्यादिना संस्थानम्। जी०३ प्रति०४ उ०। कियन्ति द्वीपसमुद्राणां नामधेयानीति भगवानाहकेवतिया णं मंते ! दीवसमुद्दा नामधेजेहिं पण्णत्ता? गोयमा! जावइया लोगे सुभा नामा सुभा वन्ना०जाव सुभा फासा, एवतिया दीवसमुद्दा णामधेन्जेहिं पण्णत्ता। गौतम ! यावन्ति लोके सामान्यतः शुभानि नामानि शङ्खचक्रस्वस्तिककलशश्रीयत्साऽऽदीनि, शुभाः वर्णाः, शुभा गन्धाः, शुभा रसाः, शुभाः स्पर्शाः-शुभवर्णनामानि, शुभगन्धनामानि, शुभरसनामानि, शुभस्पर्शनामानि च, एतावन्तो द्वीपसमुद्रा नामधेयैः प्रज्ञप्ताः, एतावन्ति द्वीपसमुद्राणां नामधेयानीति भावः। सागरोपमप्रमाणतो द्वीपसमुद्रपरिमाणमाहकेवइया णं भंते! दीवसमुद्दा उद्धारसमएणं पण्णत्ता? गोयमा! जावइया अड्डाइजाई उद्धारसागरोवमाणं उद्धारसमया, एवतिया दीवसमुदा उद्धारसमएणं पण्णत्ता। (केवइया ण भंते ! इत्यादि) कियन्तो भदन्त ! द्वीपसमुद्रा उद्धा-- रसमयेन उद्धारपल्योपमसागरोपमप्रामाणेन प्रज्ञप्ता? भगवानाह-गौतम! यावन्तोऽर्द्धतृतीयानामुद्धारसागरोपमाणामुद्धारसमया एकैकसूक्ष्मबालागापहारसमयाः, एतावन्तो द्वीपसमुद्रा उद्धारेण प्रज्ञप्ताः / उक्तं च"उद्धारसागराणं, अड्डाइलाण जत्तिया समया। दुगुणा दुगुणपवित्थरदीवोदहिरज्जु एवइया / / 1 / / दीवसमुद्दा णं भंते ! किं पुढवीपरिणामा,आउपरिणामा, जीवपरिणामा, पोग्गलपरिणामा? गोयमा ! पुढविपरिमाणा वि, आउपरिणामा वि, जीवपरिणामा वि,पोग्गलपरिणामा वि।। (दीवसमुद्दा ण भंते ! इत्यादि) द्वीपसमुद्राः, णमिति पूर्ववत्। भदन्त ! पृथिवीपरिणामा अप्परिणामाः ? भगवानाह-गौतम ! पृथिवीपरिणामा अपि अप्परिणामा अपि, पृथिव्य एव जीवपुद्-गलपरिणामाऽऽत्मकत्वात् सर्वद्वीपसमुद्राणाम्। दीवसमुद्देसु णं भंते ! सव्वपाणा सव्वभूया सव्वजीवा सव्वसत्ता पुढविकाइयत्ताए०जाव तसकाइयत्ताए उववण्ण-पुव्वा? हंता गोयमा! असति अदुवा अणंतखुत्तो, इति दीव-समुद्दा संमत्ता।