________________ दिसाहत्थिकूड 2536 - अभिधानराजेन्द्रः - भाग 4 दिसाहत्थिकूड एवं णीलवंतदिसाहत्थिकूडे मंदरस्स दाहिणपुरच्छिमेणं पुरच्छिमिल्लाए सीआए दक्खिणेण, एअस्स वि नीलवंतो देवो, रायहाणी दाहिणपुरच्छिमेणं / / 2 / / एवं सुहत्थिकूडे मंदरस्स दाहिणपुरच्छिमेणं दक्खिणिल्लाए | सीओआए पुरच्छिमेणं, एअस्स वि सुहत्थी देवो, रायहाणी / दाहिण पुरच्छिमेणं / / 3 / / एवं चेव अंजणागिरदिसाहत्थिकूडे मंदरस्स दाहिणपचच्छिमेणं दक्खिणिल्लाए सीओआए पचच्छिमेणं एअस्स वि अंजणागिरी देवो, रायहाणी पञ्चच्छिमेणं / / 4 / / एवं कुमुदे वि दिसाहत्थिकूडे मंदरस्स दाहिणपञ्चच्छिमेणं पञ्चच्छिमिल्लाए सीओआए दक्खिणेणं, एअस्स वि कुमुदो, रायहाणी दाहिणपञ्चच्छिमेणं 5 / / एवं पलासे वि दिसाहत्थिकूडे मंदरस्स उत्तरपञ्चच्छिमेणं पचच्छिमिल्लाए सीओआए उत्तरेणं, एयस्सणं विपलासो देवो, रायहाणी उत्तरपञ्चच्छिमेणं 6 / / एवं वडेंसे वि दिसाहत्थिकू डे मंदरस्स उत्तरपञ्चच्छिमे उत्तरिल्लाए सीआए महाणईए पञ्चच्छिमेणं, एअस्स वि वर्मेसो देवो, रायहाणी उत्तरपच्चच्छिमेणं 7 / एवं रोअणागिरी दिसाहत्थिकूडे मंदरस्स उत्तरपुरच्छिमेणं उत्तरिल्लाए सीआए पुरच्छिमेणं, एअस्स वि रोअणगिरी देवो, रायहाणी उत्तरपुरच्छिमेणं, उत्तरिल्लाए सीआए पुरच्छिमेणं 8 / "मंदरेणं भंते ! पव्वए" इत्यादि प्रश्नसूत्रे दिक्षु ऐशान्यादि-विदिक्प्रभृतिषुहस्त्याकाराणि कूटानि दिग्रहस्तिकूटानि, कूटशब्दवाच्यानामप्येषां पर्वतत्वव्यवहार ऋषभकूटप्रकरण इव ज्ञेयः। स्थानाङ्गेऽष्टमस्थाने तु पूऽऽदिषु दिक्षु हस्त्याकाराणि / उत्तरसूत्रे पद्योत्तरेति श्लोकः / पद्मोत्तरः, नीलवान्, सुहस्ती, अञ्जनागिरिः। "अञ्जनाऽऽदीनां गिरी' / / 3 / 2 / 77 // (हेम०) इत्यादिना दीर्घः। कुमुदः, पलाशः, अवतंसः, रोचनागिरिः / अन्यत्र रोहणागिरिः, अत्रापि दीर्घत्वं प्राग्वत् / अथैषां दिगव्यवस्था पृच्छन्नाह-(कहि णमित्यादि) क भदन्त ! मेरोर्भद्रशालवने पद्मोत्तरो नाम दिग् हस्तिकूटः प्रज्ञप्तः ? गौतम ! मन्दरस्यैशान्यां पोरर याया मेरुतः पूर्वदिग्वर्तिन्याः शीताया उत्तरस्याम्। अनेनोत्तरदिगवर्तिन्याः शीताया व्यवच्छेदः कृतः / अत्रान्तरे पद्मोत्तरो नाम दिगृहस्तकूटोऽपि मेरुतः पञ्चाशद्योजनातिक्रम एव भवति, प्रासादजिनसमश्रेणिस्थितत्यात् / पञ्च योजनशतान्यू॰चत्वेन, पञ्च गव्यूतशतान्युद्वेधन, एवमुचत्यन्यायेन विष्कम्भः / अत्र विभक्तिलोपः प्राकृतः / परिक्षेपश्च भणितव्यः / तथाहि-मूले पञ्चयोजनशतानि, मध्ये त्रीणि योजनशतानि पञ्चसप्तत्यधिकानि, उपरि अर्द्धतृतीयानि योजनशतानीत्येवरूपो विष्कम्भः, तथा मूले पञ्चदश योजनशतानि एकाशीत्यधिकानि, मध्ये एकादश योजनशतानि षडशीत्यधिकानि किञ्चिदूनानि, उपरितः सप्त योजनशतान्ये कनवत्यधिकाति किशिदूनानि इति परिक्षेपः / प्रासादाऽऽदीना च एतद्वर्तिदेवसत्कानां तदेव प्रमाणमिति | गम्यं, यत् क्षुद्रहिमवत्कूटपतिप्रासादस्येति / अत्र बहुवचननिर्देशो वक्ष्यमाणदिग्रहस्तिकूटवर्तिप्रसादेष्वपि समानप्रमाणसूचनार्थम् / पद्मोत्तरदिगृहस्ती पद्मोत्तरोऽत्र देवः, तस्य राजधान्युत्तरपूर्वस्यामुत्तरविदिग्वतिकूटाधिपत्वादस्येति 1 / अथ शेषेषूक्तन्यायेन प्रदक्षिणाक्रमेण दर्शयन्नाह-“एवं नीलवंत'' इत्यादि व्यक्त, नवरम् (एवमिति) पद्योत्तरन्यायेन नीलवन्नाम्ना दिग्रहस्तिकूट / मन्दरस्य दक्षिणपूर्वस्यां पौरस्त्यायाः दक्षिणस्या, ततोऽयं प्राच्यजिनभवनाऽऽग्नेयप्रासादर्यामध्ये ज्ञेयः / एतस्यापि नीलवान देवः प्रभुः तस्य राजधानी दक्षिणपूर्वस्यामिति 2 / "एवं सुहत्थि' इत्यादि व्यक्तं, नवरं दाक्षिणात्याया मेरुतो दक्षिणदिग्वर्तिन्याः शीतोदायः पूर्वतः अनेन मेरुतः पश्चिमदिग्वार्तेन्याः शीतोदायाः व्यवच्छेदः कृतः, अत्रान्तरे सुहस्तिदिग्हस्तिकूटः / आग्नेयप्रासाददाक्षिणात्यजिनभवनमध्यवर्तीत्यर्थः / एतस्याऽपि सुहस्ती देवः, राजधानी तस्य दक्षिणपूर्वस्या, नीलवतः सुहस्तिनोरेकस्यामेव दिशिराजधानीत्यर्थः 3 / एवं समविदिगृहस्तिकूटाधिपयोरेकस्यां विदिशि राजधानीद्वयम् 2 अग्रेऽपि भाव्यम्। "एवं चेव'' इत्यादि व्यक्त, नवर दाक्षिणात्यजिनगृहनैर्ऋतप्रासादयोर्मध्ये इत्यर्थः / एवमित्यादि व्यक्त, नवर पाश्चात्यायाः पश्चिमाभिमुख वहन्त्याः शीतोदाया दक्षिणस्यामिति नैर्ऋतप्रासादपाश्चात्यजिनभवनयोर्मध्यवर्तीत्यर्थः 5 / एवमिति व्यक्त, पाश्चात्यजिनभवनवायव्यप्रासादयोरन्तरे इत्यर्थः 6 / "एवं वडेसे वि दिसाहत्थिकूड़े'' इत्यादि गतार्थ, नवरमुत्तरायां मेरुत उत्तरदिगवर्तिन्याः शीतायाः पश्चिमतः, अनेन पूर्वदिग्वतिन्याः शीताया व्यवच्छेदः कृतः, वायव्यप्रासादोत्तराहिभवनयोर्मध्यवर्तीत्यर्थः 7 / "एवं रोअणागिरी दिसाहत्थिकूडे" इत्यादि व्यक्तं, नवरम् उत्तरायाः शीतायाः पूर्वतः, उत्तराहिजिनभवनेशानप्रासादयोरन्तरलो इत्यर्थः 8 / एषु च बहुभिः पूर्वाऽऽचार्यः शाश्वतजिनभवस्तोत्रेषु जिनभवनान्युच्यन्ते, इह तु सूत्रकृता नोक्तानि, तेन तत्त्वं केवलिनो विदन्ति / इत एवोक्तं रत्नशेखरसूरिभिः स्योपज्ञक्षेत्रविचारे-"करिकूडं नइदह, कुरुकच जमलसमपि इड्ढेसु। जिणभवणविसंवाओ, जो तं जाणंति गीअत्था॥ 1 // " इति / अथैषां यापी चतुष्कप्रासादानां जिनभवनाना करिकूटानां च स्थाननियमने / अत्र वृद्धानां संप्रदायः। तथाहि-भद्रशालवने हि मेरोश्चतस्रोऽपि दिशो नदीद्वय प्रवाहै: रुद्धा अतो दिक्ष्वेव भवनानि भवन्ति, किं तु नदीतटनिकटस्थानि भवनानि, गजदन्तनिकटस्थाः प्रासादाः, भवनप्रागभावित्वात्, शीतायाः, शीतोदाऽन्तरालेष्वष्टसु करिकूटाः, अत एव विशेषतो दर्शातभरोरुत्तरपूर्वस्यामुत्तरकुरूणां बहिः शीताया उत्तरदिग्भागपञ्चाशद्योजनेभ्योऽपरः प्रासादः, तत्परिक्षेपिण्यश्चतस्रो वाप्यः / एवं शेषेष्वपि प्रासादेषु ज्ञेयम् / मेरोः पूर्वस्यां शीतायाः दक्षिणतः 50 योजनेभ्यः परतः सिद्धायतनं, मेरोदक्षिणपूर्वस्या 50 योजनातिक्रमे देवकुरुणां बहिः शीतोदाया दक्षिणतः प्रासादः, पश्चिमाया 50 योजनातिकमे शीतोदाया उत्तरतः सिद्धायतनं, मेरोरपरस्यां 50 योजनान्यवगाह्य उत्तरकुराणां बहिः शातोदायाः पश्चिमतः सिद्धायतनमिति / एतेषां चाष्टस्वन्तरेष्वष्टौ करिकूटा इति। जं० 4 वक्ष०ा स्था०।