________________ दिसा 2532 - अभिधानराजेन्द्रः - भाग 4 दिसा सत्यभावे पुनर्द्वितीयो द्वितीयभङ्गवर्ती, तस्यासति चतुर्थः / तत्र योऽसौ | चतुर्भङ्गवर्ती स्थापयितव्यो भवतिसएतादृशगुणःपयतीऍ मिउसहावं, पगतीए संमतं वि णिययं वा / नाऊण गणस्स गुरुं, छावेंति अमेनपक्खं पि / / 332 // अनेकपक्षिणमपि प्रवज्यापक्षरहिश्रुतसमानपक्षरिहतमपि प्रथमद्वितीयतृतीयभगवर्त्यसंभवे प्रकृत्या, स्वभावेन त्वकपटभावतो मृदुस्वभावमरोषणस्वभावं, तथा प्रकृत्या स्वभावेन सम्मतमभिमतं, समस्तस्याऽपि गच्छस्येति गम्यते। स्वजन-संबन्धभावतो वा निजकमात्मीयं ज्ञात्वा गणस्य गुरुः / स्थापयितव्यः। तस्य चतुर्भङ्गवर्त्तिनः सचित्ताऽऽदिषु य आभवनव्यवहारस्तमभिधित्सुराहसाहारणं तु पढमे, विइए खेत्तम्मि तइ सहदुक्खे। अणहिजंते सीसे, तेसिं एक्कारस विभागा।। 333 // प्रथमे वर्षे साधारणम्, किमुक्तं भवति? यावल्लभते तस्य तद, द्वितीय वर्षे यत्क्षेत्रे तदीय लभ्यते तद्गच्छवर्त्तिनां साधूना, शेषं गणधरस्य, तृतीये वर्षे समदुःखोपनता यद् लभन्ते तत्तेषामेव गच्छवर्त्तिनामाभावयति, शेष गणधरस्य, चतुर्थाऽऽदिषु वर्षेषु सर्व गणधरस्य, एष आभवनव्यवहारोऽनधीयाने शिष्ये / किमुक्तं भवति ? ये स्थापिताऽऽचार्यस्य समीपे न पठन्ति तान् प्रतिद्रष्टव्यः, ये पुनराचार्यस्य सभीपेन पठन्ति तेषामेकादश विभागाः। तथा चाऽऽहशेषेऽवधाने एकादश विभागाः प्रकारा आभवह्यवहारस्य। तानेव प्रतिपिपादयिषुराहपुवुद्दिढ तस्सा, पच्छुद्दिटुं पवाययंतस्स। संवच्छरम्मि पढमे, पडिच्छए जत्थ सच्चित्तं / / 334 // प्रतीच्छिके गठ्छान्तरदध्ययनार्थमधिकृतपच्छोपसंपदं प्रपन्नो यत् / आचार्यपदस्थापनातः पूर्वमुद्दिष्ट सचित्तम्, उपलक्षणमेतत-अचित्तक, वस्त्रपात्रं प्रथमे वर्षे भवति संपद्यते तत्सर्व तस्य प्रतीच्छकस्य एष प्रथमो विकल्पः। यत्पुनराचार्यपदस्थापनातः पश्चादुद्दिष्ट प्रथमे वर्षे संपद्यते सचित्ताऽऽदिकं तत्सर्व प्रवाचयतोऽधिकृतस्थापनाऽऽवार्यस्याध्यापयितुः एष द्वितीयो विकल्पः। पुव्वं पच्छुट्टि, पडिच्छए जंतु होइ सच्चित्तं। संवच्छरम्मि वितिए, तं सव्वं पवाययंतस्स / / 335 / / आचार्यपदस्थापनातः पूर्व पश्चाद्वा यदुद्दिष्ट सचित्तम, उपलक्षणमेतदचित्तं वा, द्वितीये संवत्सरे भवति संपद्यते / वेत्याह-प्रतीच्छके गच्छान्तरादागत्य सूत्रार्थस्य वा प्रतीच्छन प्रतीच्छा, तया चरति प्रतीच्छिकस्तस्मिन्, तत्सर्व प्रवाचयतोऽध्यापयितुरधिकृतस्थापिताऽऽचार्यस्य वेदितव्यम्। एष तृतीयोऽपि विकल्पः। पुव्वं पच्छुट्टि, सीसम्मि उजतु होइ सचित्तं। संवच्छरम्मि पढमे, तं सव्वं गुरुस्स आभवति / / 336 / / / आचार्यपदस्थानापनातः पूर्व पश्चाद्वा उद्दिष्ट यत् सचित्तम्, उपलक्षणत्वादस्याचितं, वस्त्राऽऽदिक, शिष्ये प्रथमवर्षे भवति संपद्यते तत् सर्व गुरोराभवति। एष चतुर्थो विभागः। पुव्वुद्दिढ तस्सा, पच्छुद्दिढे पवाययंतस्स। संपच्छरम्मि विइए, सीसम्मि उजंतु सचित्तं / / 337 / / यत्सचित्तमचित्तं वाऽऽचार्यपदस्थापनातः पूर्वमुद्दिष्ट सचित्तमचित्तं वा शिष्ये द्वितीये संवत्सरे भवति संपद्यते, तत्सर्व तस्य शिष्यस्याऽऽभवति / एष पञ्चमो विभागः / यत्पुनराचार्यपदस्थापनातः पश्चादुद्दिष्ट सचित्तमचित्तं वा शिष्ये तृतीये संवत्सरे भवति संपद्यत, तत्सर्व प्रवाचयतोऽधिकृतगुरोराभवति / एष सप्तमो विभागः / पुटवुद्दिढे तस्सा, पच्छुद्दिटुं पवायंतस्स। संवच्छरम्मि पढमे, तं सिस्सिणिए उ सच्चित्तं / / 338 / / आचार्यपदस्थापनातः पूर्वभुद्दिष्टं सचित्तमचित्तं वा प्रथम संवत्सरे शिष्यिण्याः शिष्याया आभवति। एषोऽष्टमो विभागः 8 / यत्पुनराचार्यपदस्थापनातः पश्चादुद्दिष्ट सचित्ताऽऽदिकं प्रथमे संवत्सरे शिष्यायाः संपद्यते, तत्सर्व प्रवाचयतोऽधिकृतस्य गुरोराभाव्यम् / एष नवमो विभागः। पुव्वं पच्छुट्ठि, सिस्सीए उ जंतु सचित्तं। संवच्छरम्मि वितिए, एतं सव्वं पवाययंतस्स // 336 // पूर्व पश्चादुद्धिष्ट सचित्तमचित्तं वा द्वितीये संवत्सरे शिष्यायाः संपद्यते, तत्सर्वं प्रवाचयतोऽधिकृतस्य गुरोः / एष दशमो विभागः / पुव्वं पच्छुदिटुं, पडिच्छयाए उ जंतु सच्चित्तं / संवच्छरम्मि पढमे, तं सव्वं पवाययंतस्स / / 340 / / पूर्व पश्चाद्वा यदुद्दिष्टं सचित्तमुपलक्षणमेतदचित्तं वा प्रथम वर्षे प्रातीच्छिक्याः शिष्यायाः संपद्यते, तत्सर्व प्रवाचयतोऽधिकृतस्य गुरोः / एवं न्यायेन द्वितीयाऽऽदिष्वपि संवत्सरेषूक्तः / एष एकादशोऽपि विभागः। साम्प्रतमुपसंहारमाहजम्हा एते दोसा, दुविहे वि अपक्खिए तु ठवियम्मि। तम्हा उठवेयव्वो, कमेणमेणं तु आयरिओ / / 341 // द्विविधे-अन्यपाक्षिके श्रुतप्रव्रज्यापक्षरहिते वेत्यर्थः / स्थापिते चाऽऽचार्य यस्मादेते अनन्तरोदिता दोषास्तस्मादनेनान्तरोदितेन ‘‘पढमासति तइयभग (331) इत्यादिलक्षणेन क्रमेण स्थापयितव्य आचार्य इति। अथ प्रथमभङ्गवर्ती केन विधिना स्थापयितव्यः? उच्यतेएयस्सेगदुगादी, निप्फण्णा तेसि बंधइ दिसाओ। संपुच्छणओलोयण-दाणे मिलिएण दिद्रुतो।। 342 / / एतस्य प्रथमभङ्गवर्तिनः स्थापिताऽऽचार्यस्य एकद्विकाऽऽदय एकद्वित्रिचतुरादयः शिष्या निष्पन्ना यदि भवन्ति, ततस्तेषां, दिश आचार्यत्वमुपाध्यायत्वं चेत्यर्थः / बन्धाति, तथा योऽसावाचार्यः सदिष्टोयथैष सूत्रतोऽर्थतश्च निर्माप्याऽऽचार्यपदे स्थापनीयस्तस्य स्थापितगणधरणाऽऽचार्यपदे स्थापितस्य शिष्याणां विप्रतारणार्थ संप्रच्छन्नं दानं वस्त्रपात्राऽऽदेः। एतेषां समाहारो द्वन्ट्टः, तस्मिन्नपि कृते विपरिणामाभावे मिलितेन गोपालद्वयमिलनेन दृष्टान्तो वक्तव्यो, द्वयोर्गोपालयोर्मिलितयोः प्रभूता धनवृद्विरभूत, तथा युष्माकमरमाकं च मिलितानां विहरता भूयान् ज्ञानाऽऽदिलाभो भवतीति मिलितैबिहर्तव्यमिति।