________________ दिसा 2530 - अभिधानराजेन्द्रः - भाग 4 दिसा सिया छिण्णमुत्तावलिसंठिता पण्णत्ता / जमा जहा इंदा। ऐरई जहा अग्गेयी। एवं जहा इंदा तहा दिसा चत्तारि। जहा अग्गेयी तहा चत्तारि विदिसाओ। विमला णं भंते ! दिसा किमादिया पुच्छा? गोयमा ! जहा अग्गेयी, विमला णं दिसा रुयगादिया रुयगप्पवहा चउप्पदेसादिया दुपदेसवित्थिण्णा अणुत्तरा, लोगं पडुच्च सेसं जहा अग्गेयी, णवरं रुयगसंठिया। एवं तमा वि। (किमादिय त्ति) क आदिः प्रथमो यस्याः सा किमादिका, आदिश्च विवक्षया विपर्ययेणाऽपि स्यादित्य आह- (किंपवहति) प्रवहति प्रवर्ततेऽस्मादिलि प्रवहः कः प्रवहो यस्याः सा तथा। (कतिपएसाइय त्ति) कति प्रदेशा आदिर्यस्याः सा कतिप्रदेशाऽऽदिका। (कइपएसुतर ति) कति प्रदेशा उत्तरे वृद्धी यस्याः सा तथा / (लोगं पडुन मुरजसंठिय त्ति) लोकान्तस्य परिमण्डलाऽऽकारत्वेन मुरजसंस्थानता दिशः स्यात्ततश्च लोकान्तं प्रतीत्य मुरजसंस्थितेत्युक्तम्। एतस्य च पूर्वाऽऽदिदिश्माश्रित्य चूर्णिकारकृतेयं भावना-"पुवुत्तराए एएसहाणी तहादाहिणपुवाए रुरागदेसे भरुयहे? दिसि अते चउप्पएसा दडव्या, मज्झे य तुड हवति त्ति। (अलोगं पडुच्च रागगुद्विसंठिय ति) रुचके तुण्ड कल्पनीयम, आदी सङ्कीर्णन्चात्तत उत्तरोत्तर विस्तीर्णत्वादिति। भ० 13 104 उ०11०। स्था०। जंबुद्दीवे दीवे मंदरस्स पव्वयस्स बहुमज्झदेसभाए इमीसे रयणप्पभाए पुढवीए उवरिमहेट्ठिल्लेसु खुडुगपयरेसु एत्थ णं अट्ठपएसिए रुयगे पण्णत्ते, जओ णं इमाओ दस दिसाओ पवहति / तं जहा-पुरच्छिमा, पुरच्छिमदाहिणा, दाहिणा, दाहिणपचाच्छिमा, पचच्छिमा, पञ्चच्छिमुत्तरा, उत्तरा, उत्तरपुरच्छिमा, उड्डा, अहो / स्था 10 ठा। तुच्छस्य दरिद्रश्रावकस्य दिगाद्यपेक्षया दिश्यते यया शिष्यः सा दिगाचार्योपाध्याया। पञ्चा०५ विव०। एगपक्खियस्स भिक्खुस्स कप्पति इत्तरियं दिसंवा अण्णुदिसं वा उद्दिसित्तए, जहा वां तस्स गणस्स पत्तियं सिया। एकः समानः पक्ष एकपक्षः सोऽस्यास्तीतिएकपक्षिकः, प्रव्रज्यया श्रुतेन च स्ववर्गस्य, भिक्षोः, कल्पते इत्वरां कियत्कालभाविनीम, इत्वरग्रहणमुपलक्षणम्। यावत्कथिकां च। दिशमाचार्यत्वमुपाध्यायत्वं वा, अनुदिश वा आचार्योध्यायपदद्वितीयस्थानवर्त्तित्व, वाशब्दो विकल्पार्थः / उपदेष्टु वा, तस्य वा स्वयं धारयितुं. यथा वा तस्य गणस्य प्रीतिकं स्यात्, तथा वा दिशमनुदिशं वा उद्दिशेत् / किमुक्तं भवति ?-भिन्नपक्षिकमप्यपवादपदेन स्वगणप्रीत्याऽऽचार्याऽऽदिपदाध्यारोपितं कुर्यादिति संक्षेपार्थः / व्यासार्थ तु भाष्यकृद्विवक्षुः प्रथमतः पूर्वसूत्रेण सह संबन्धमाहनिक्खित्तम्मि उलिंग, मूलं सातिजणाएँ एहाणाऽऽदी। दिएणेसु य होइ दिसा, दुविधा वि य एस संबंधो 316 यदि लिङ्ग रजोहरणं निक्खित्त' परित्यक्त भवति, ततस्तस्मिन्निक्षिप्ते लिङ्गे , यदि वा लिङ्गापरित्यागेऽपि स्मानाऽऽदेः ''साइजमाणे'' अनुमनने, मूलं नाम प्रायश्चित्तं, दानेन समस्तपर्यायोच्छेदतः प्रदत्तेषु | व्रतेषु द्विविधाऽप्याचार्यत्वमुपाध्यायत्वरूपा दिक् दीयते, ततोऽवधावनासूत्रानन्तरं दिकसूत्रोपन्यासः, एष पूर्वसूत्रेण सहाऽरय सूत्रस्य संबन्धः। साम्प्रतमेकपक्षिकत्वं व्याख्यानयतिदुविहो य एगपक्खी, पव्वज सुए य होइ नायव्यो। सुत्तम्मि एगवायण, पव्वज्जाए कुलिव्वाऽऽदी॥३२०।। द्विविधो द्विप्रकार एकपाक्षिको भवति ज्ञातव्यः / तद्यथा-प्रव्रज्यायां, श्रुतेच। तत्र सूत्रे सूत्रविषय एकपाक्षिकवाचन एका समाना परस्परं वाचना येभ्यः स तथा, एकगुरुकुलाधीत इत्यर्थः / प्रव्रज्यया चैकपाक्षिक एककुलवती , आदिशब्दादेकगच्छवर्ति-शिष्यसहाध्यायाऽऽदिपरिग्रहः। एतदेव स्पष्टतरमाहसकुलिव्व उपव्वजा, पक्खित्तो एगवायण सुयम्मि। अब्भुज्जतपरिकम्मे, मोहे रोगे च उत्तरिओ।। 321 / / प्रवज्यापाक्षिको नाम (सकु लिव्व उत्ति) स्वकुलसंभवी, उपलक्षणमेतत्, तेन स्वगणसंभवी स्वशिष्य इत्याद्यपि द्रष्टव्यम्। श्रुते श्रुतपाक्षिकः पुनरेकवाचनः / इह सूत्रे इत्वरदिगग्रहणयावत्कथिक्यपि दिक् सूचिता / तामुभयीमपि व्याख्या नयति-(अभुझ्य इत्यादि) आचार्योऽभ्युद्यतविहारपरिकर्मकामः, उपलक्षणमेतत्, अभ्युद्यतमरणं वा प्रतिपत्तुमनाः / यावत्कथिकमाचार्यमुपाध्यायां वा स्थापयितुमाहचिकित्सां वा कर्तुकाम इत्वरम् / अक्षरयोजना त्वियम-अभ्युद्यतमरणी वा, यावत्कथिकावाचार्योपाध्यायाविति शेषः / मोहे रोग चेस्वरः, बहुवचन द्वित्वद्धपि प्राकृतत्वात्, आचार्यश्च यावत्कथिकाऽऽचार्यस्थापने द्विविधः-सापेक्षो, निरपेक्षश्च। तथा घात्र राजदृष्टान्तः, तमेवाऽऽहदिटुंतो जह राया, सावेक्खो खलु तहेव निरवेक्खो। सावेक्खो जुवनरिंदं, ठवेइ इय गच्छुवज्झायं / / 322 / / दृष्टान्तोऽत्र यथा राजा। तथाहि-राज द्विविधः-सापेक्षो, निरपेक्षश्च / तत्र यः सापेक्षः स जीवन्नेव युवराज स्थापयति, युवराजश्च स स्थापनीयो यस्मिन्ननुरक्ता परिषत् / ततः कालगतेऽपि राज्ञि न वैराग्यमुपजायते, किं तु तदवस्थमेव राज्यमनुवर्तते, यस्तु निरपेक्षः सन् स्थापयति युवराज, तरिंभश्च स्थापिते राज्ञि कालगते दायादानां परस्परकलहतो राज्य विनाशमाविशति एवमाचार्योऽपि द्विविधः सापेक्षो, निरपेक्षश्च / तत्र यो गच्छसापेक्षः स जीवन्नेव गणधरं स्थापयति, तरिमंश्च स्थापित कालगतेऽप्याचार्ये गच्छो न सीदति। तथा चाऽऽह-इति एवं सापेक्षराज इव युवनरेन्द्र, सापेक्ष आचार्यो जीवन्नेवेति वाक्यशेषः, गच्छोपाध्याय गच्छनायक स्थापयति। पुनर्गच्छनिरपेक्षः सन् आचार्य जीवन् स्थापयति। तस्मिन् कालगते परस्परकलहभावतो गच्छो विनाशमुपयाति, तस्माद् जीवत्येव गणधरे आचार्य उपाध्यायो वा स्थापयितव्यः / साम्प्रतं मिथ्यात्वं चाऽऽचार्योपाध्यायस्थापनाविषयमाह-- गणहरपाउग्गासति, पडायअट्ठाविते व कालगते। थेरण पगासेंति, जावऽणो नठावितो तत्थ / / 323 / / गणधरस्य गणधरपदस्य प्रायोग्यो गणधरप्रायोग्यस्तस्यासति अभावे। अथवा-प्रमादतोऽस्थापित एवाऽचार्ये काल