________________ दिसा 2525 - अभिधानराजेन्द्रः - भाग 4 दिसा प्यष्टौ प्रत्येक विंशतिभेदा भवन्ति। ततश्च नव विंशतयः शतमशीत्युत्तरं भवति 180 / तत्र स्वत इति स्वेनैव रूपेण जीवोऽस्ति, न परोपाध्यपेक्षया हू सवत्वदीर्घत्वे इव, नित्यःशाश्वतो न क्षणिकः, पूर्वोत्तरकालयोरवस्थिततत्वात, कालत इति काल एव विश्वस्य स्थित्युत्पत्तिप्रलयकारणम्। उक्तं च-''कालः पचति भूतानि, कालः संहरते प्रजाः। कालः पचति भूतानि, कालः संहरतेप्रजाः। कालः सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः // 1 // ‘स चातीन्द्रियो युगपचिरक्षिप्रक्रियाऽभिव्यङ्गयो हिमोष्णवर्षाव्यवस्थाहेतुः क्षणलवमुहूर्तयामाहोरात्रमासत्रयनसंवत्सरयुगकल्पपल्यापडसागरोयमोत्सपिण्यवसर्पिणी पुद्गलपरावर्तातीतानागतवर्तमानसर्वाद्धाऽऽदिव्यवहाररूपः॥ 1 // द्वितीयविकल्पेतु कालादेवऽऽत्मनोऽस्तित्वमभ्युपेयं, किं त्वनित्योऽसाविति विशेषोऽय पूर्वविकल्पात् ॥२॥तृतीयविकल्पे तु परत एवास्तित्वमभ्युपगम्यते, कथं पुनः परतोऽस्तित्वमात्मनोऽभ्युपेयते? नन्वेतत्प्रसिऽमेव सर्वपदार्थाना परपदार्थस्वरूपापेक्षया स्वरूपपरिच्छेदो, यथा दीर्घत्वापेक्षया हस्वत्वपरिच्छेदो, ह्रस्वत्वापेक्षया च दीर्घत्यस्थेति। एवमेव चानात्मनस्तम्भकुम्भाऽऽदीन् समीक्ष्य तद्वयतिकरते वस्तुन्यात्मबुद्धिः प्रवर्त्तत इति, अतो यदात्मनः स्वरूपं तत्परत एवावधार्यते, न स्वत इति / / 3 / / चतुर्थविकल्पोऽपि प्राग्वादिति चत्वारो विकल्पाः // 4 // तथाऽन्ये नियतित एवाऽऽत्मनः स्वरूपवधारयन्ति, का पुनरियं नियतिरिति ? उच्यते-पदार्थानाभवश्यतया यद्यथीवने प्रयोजनकी नियतिः / उक्त च–'प्राप्तट्यो नियतिबलाऽश्रयेण योऽर्थः, सोऽवइयं भवति नृणां शुभोऽशुभो वा / भूताना महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः॥१॥ " इयं च मस्करिपरिव्राण्डमतानुसारिणी प्राय इति। अपरे पुनः स्वभावादेव संसारव्यवस्थामभ्युपयन्ति, कः पुनरयं स्वभावः ? वस्तुनः स्वत एव तथापरिणतिभावः स्वभावः। उक्तंच"कः कण्टकानां प्रकरोति तैक्ष्ण्य, विचित्रभावं मृगपक्षिणां च। स्वभावतः सर्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः प्रयत्नः? // 1 // स्वभावतः प्रवृत्तानां, निवृत्तानां स्वभावतः। नाहं कर्तेति भूतानां, यः पश्यति स पश्यति॥२॥ केनाञ्चितानि नयनानि मृगाड्गनाना, कोऽलङ्करोति रुचिराङ्हान मयूरान्। कश्चोत्पलेषु दलसन्निचयं करोति, को वा दधाति विनयं कुलजेषु पुंसु ? // 3 / / " तथाऽन्येऽभिदधते-समस्तमेतज्जीवादीश्वरात्प्रसूतं, तस्मादेव स्वरूपेऽवतिष्ठते, कः पुरयमीश्वरः ? अणिमाऽऽद्यैश्वर्ययोगादीश्वरः / उक्तं च-"अज्ञो जन्तुरनीशः स्यादात्मनः सुखदुःखयोः। ईश्वरप्रेरितो गच्छेच्छवभं वा स्वर्गमेव वा / / 1 // " तथाऽन्ये बुवतेन जीवाऽऽदयः पदार्थाः कालाऽऽदिभ्यः स्वरूपं प्रतिपद्यन्ते, किं तर्हि ? आत्मनः कः पुनरयात्मा ? आत्माद्वैतवीदिना विश्वपरिणतिरूपः। उक्तश्च-"एक एव हि भूताऽऽत्मा, भूते भूते व्यवस्थितः / एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् // 1 // " तथा "पुरुष एवेदं सर्व यद् भूतं यच भाव्यम्' इत्यादि / एवमस्त्यजीवः स्वतः नित्यः कालत इत्येवं सर्वत्र योज्यम् / तथा अक्रियावादिनोनास्तित्ववादिनः, तेषमपि जीवाजीवाऽऽश्रवबन्धसंबरनिर्जरामाक्षाऽऽख्याः सप्त पदार्थाः स्वपरभेदद्वेयन तथा कालयदृच्छानियतिस्वभावेश्वराऽऽत्मभिः षड्भिश्चिन्त्यमानाश्चतुरशीतिविकल्पा भवन्ति / तद्यथा-नास्ति जीवः स्वतः कालतः, नास्ति जीवः परतः कालतः, इति कालेन द्वौ लब्धी, एवं यदृच्छानियत्यादिष्वपिद्वौ द्वौ भेदौ प्रत्येकं भवतः, सर्वेऽपि जीवपदार्थे द्वादशभवन्ति, एवम जीवाऽऽदिष्वपि प्रत्येक द्वादशैते सप्त द्वादशकाश्चतुरशीतिरिति 84 / अत्रमत्रार्थः-नास्ति जीवः कालत इति, इह पदार्थानां लक्षणेन सत्ता निश्चीयते, कार्यतो वा ? न चाऽऽत्मनस्तादृगस्ति किञ्चिलक्षणं, येन सत्ता प्रतिपद्येमहि, नाऽपि कार्यमणूनामिव महीध्राऽऽदि संभवति, यच लक्षणकार्याभ्यां नाभिगम्यते वस्तु तन्नास्त्येव वियदिन्दीवरत्, तस्मानास्त्यात्मेति / द्वितीयविकल्पोऽपि यच्च स्वतो नात्मानं विभति गगनारविन्दाऽऽदिकं तत्परतोऽपि नास्त्येव, अथ वा सर्वपदार्थानामेव परभागादर्शनात्सर्वाऽर्वाग्भागसूक्ष्मत्वाचोभयानुपलब्धेः सर्वानुपलब्धितो नास्तित्वमध्यवसीयते। उक्तंच-"यावद्दृश्यं परस्तावद्भागः स च न दृश्यते " इत्यादि। तथा "यदृच्छातोऽपि नास्तित्वमात्मनः, का पुनर्यदृच्छा ? अनभिसन्धिपूविकाऽर्थप्राप्तिर्यदृच्छा।" "अतर्कितोपस्थितमेव सर्व .. चित्रं जनानां सुखदुःखजातम्। काकस्य तालेन यथाऽभिघातो, न बुद्धिपूर्वोत्र वृथऽभिमानः॥१॥ सत्यं पिशाचाः स्म वने वसामो, भेरी करागैरपि न स्पृशामः। यदृच्छया सिद्धयति लोकयात्रा, भेरी पिशाचाः परिताडयन्ति / / 2 // " यथा काकतालीयमबुद्धिपूर्वकं, न काकस्य बुद्धिरस्तिमयि तालं पतिष्यति, नापि तालस्याभिप्रायः-काकोपरि पतिष्यामि, अथ च तत्तथैव भवति, एवमन्यदप्यतर्कितोपनतमजाकृपाणीयमातुरभेषजीयमन्धकण्टकीयमित्यादि द्रष्टव्यम्, एवं सर्वं जातिजरामरणाऽऽदिक लोके यादृच्छिकं काकतालीयाऽऽदिकल्पमवसेयमिति / एवं नियतिस्वभावेश्वराऽऽत्मभिरप्यात्मा निराकर्तव्यः / तथा-ज्ञानिकांना राप्तष-ष्टिर्भेदाः / ते चामीजीवाऽऽदयो नव पदार्थाः, उत्पत्श्चि दशमी, सत्, असत्, सदसत्, अवक्तव्यः,सदवक्तव्यः, असदवक्तव्यः, सदसदवक्तव्यः, इत्येतैः सप्तभिः प्रकारौविंज्ञातुं न शक्यन्ते, न च विज्ञातैः प्रयोजनमस्ति / भावना चेयम्-सन् जीव को वेत्ति, किंवा तेन ज्ञातेन? असन्जीव इति को जानाति ? किंवा ज्ञातेनेत्यादि। एवमजीवाऽऽदिष्वपि प्रत्येक सप्त विकल्पाः,नव सप्तकास्त्रिषष्टिः, अमी चान्ये चत्वारस्रिषष्टिमध्ये प्रक्षिप्यन्ते / तद्यथा- सति भावोत्पत्तिरिति को जानाति? किं वाऽनया ज्ञातया ? एवमसति सदसती अवक्तव्या भावोत्पत्तिरिति को वेत्ति ? किं वाऽनया ज्ञातयेति, शेषविकल्पत्रयमुत्पत्युत्तरकालं पदार्थावयंवापेक्षमतोऽत्र न संभवतीति नोक्तम् , एतचतुष्टयप्रक्षेपात्सप्तषष्टिर्भवन्ति। तत्र सन् जीव इति को वेत्ति ? इत्यस्यायमर्थ:- न कस्यचिद्विशिष्ट ज्ञानमस्ति, योऽतीन्द्रियान् जीवाऽऽदीनभोत्स्यते, न च तैतिः किं चित्फलमस्ति / तथाहि-यदि नित्यः सर्वगतो मूर्ती ज्ञानाऽऽदिगु