________________ दिसा 2526 - अभिधानराजेन्द्रः - भाग 4 दिसा जोपेतः, एतदगुणवयतिरिक्तो वा ? ततः कतमस्य पुरुषार्थस्य सिद्धिरति, तस्मादज्ञज्ञनमेव श्रेयः / अपि च-तुल्येऽप्यपराधे अकामकरणे लोके स्वल्पो दोषो, लोकोत्तरेऽपि आकुट्टिकानाभोगसहसाकाराऽऽदिषु क्षुल्लकभिक्षुस्थविरोपाध्यायसूरीणां यथाक्रमुत्तरोत्तर प्रायश्चित्तमित्यवभन्येष्वपि विकल्पेष्वायोज्यम्।तथा वैनियिकाना द्वात्रिंशद्भेदाः, ते चानेन विधिना भावनीयाः, सुरनृपयतिज्ञातिस्थविराधममातृपितृष्वष्टसु मनोवाक्कायप्रदानचतुर्विधविनयकरणात्। तद्यथा-देवानां विनय करोति मनासा वाचा कायेन, तथा देशकालोपपन्नेन दानेनेत्येवमादि। एते च विनयादेव स्वर्गापवर्गमार्गमभ्युपयन्ति, नीचैर्वृत्त्यनुत्सेकलक्षणो विनयः, सर्वत्र चैवंविधन विनयेन देवाऽऽदिषूपतिष्टमानः स्वर्गापवर्गभाग भवति। उक्तं च -"विणया णाणं णाणा-ओआ दसणं दसणाहि चरणं च। चरणाहिता मोक्खा, गोक्खे सोक्खं अणावाह। 1 / " अब च क्रियाधादिनामस्तित्व सत्यपि केपाश्चित्सर्वगाते नित्योऽनित्यः कर्ताऽकर्ता मूर्तोऽमूर्तः श्यामाकतण्डुलमात्रोऽड्गुठपर्वमात्रों दीपशिखापडो हृदयाधिष्ठान इत्यादिकः / अस्ति चोषपातिकश्च, अक्रियावादिनां त्वात्मेव न विद्यते, कुतः पुनरोपपातिकत्वम् ? अज्ञानिकास्तु नात्मानं प्रति विप्रतिपद्यन्ते, किं तु तज्ज्ञानमकिशित्करमेषामिति, वैनयिकानामपि नात्माऽस्तित्व विपतिपतिः किं त्वन्यन्मोक्षसाधनं विनयादृते न संभवतीति प्रतिपन्नाः / तत्रानेन सामान्याऽऽत्मस्तित्वप्रतिपादनेनाकियावादिनो निरस्ता द्रष्टव्याः। आत्मास्तित्वानभ्युपगमे च... 'शास्ता शास्त्र शिष्यः, प्रयोजनं वचनहेतुदृष्टान्ताः। सन्ति न शून्य बुवत-स्तदभावाचाप्रमाणं स्यात्।।१।। प्रतिषेद्ध्यप्रतिषधी, स्तश्चेच्छून्यं कथं भवत्सर्वम् ? / तदभावेन तु सिद्धा, अप्रतिसिद्धा जगत्यर्थाः॥ 2 // " एवं शेषाणामप्यत्रैव यथासंभवं निराकरणमुत्प्रेक्ष्यमिति // 3 // गतमानुषङ्गिकम्। प्रकृतमपुस्रियते-तत्रेह "एवनेगेसिं णो णायं भवइ ." इत्यनेन केषाञ्चिदेव संज्ञानिषेधात्केषाञ्चित्तु भवतीत्युक्तं भवति, तत्र सामान्यसंज्ञायाः प्रतिप्राणि सिद्धत्वात्ततकारणपरिज्ञानस्य चेहाकिञ्चिकरत्वाद्विशिष्टसंज्ञायास्तु केषाञ्चिदेव भावात् तस्याश्च भवान्तरगाम्यात्मस्पष्टप्रतिपादने सोपयोगित्वात् सामान्यसंज्ञाकारणप्रतिपादनमनादृत्य विशिष्टिसंज्ञायाः कारणं सूत्रकृदयितुमाह से जंपुण जाणेज्जा सहसंमइयाए परवागरणेणं अण्णेसिं अंतिए वा सोचा, तं जहा-पुरस्थिमाओ वा दिसाओ आगओ अहमंसि० जाव अण्णयरीओ दिसाओ अणुदिसाओ वा आगओ अहमंसि, एवमेगेसिं जंणायं भवति-अस्थि मे आयो उववाइए, जा इमाओ दिसाओ अणुदिसाओ वा अणुसंचरइ, सव्वाओ दिसाओ अणुदिसाओ, सोऽहं / / 4|| "से ज पुण जाणेज त्ति' सूत्रं यावत् 'सोऽहमिति।' 'स' इति निर्देशो मागधशैल्या प्रथमैकवचनान्तः, स इत्यनेन च यः प्रानिर्दिष्टो ज्ञाता विशिष्टक्षयोपशमाऽऽदिमारा प्रत्यवमश्यते, यदित्यनेनापि यत्प्राग्निर्दिष्ट दिग्विदिगागमन, तथा कोऽहमभूवमतीतजन्मनि देवो नारस्तिथग्योनो मनुष्यो वा? स्त्री पुमान्नपुंसको वा ? को वाऽमुतो मनुष्यजन्मनः प्रभ्रष्टोऽह प्रत्य देवाऽऽदिर्भविष्यामीत्येत्परामृश्यते, जानीयादवगच्छेद्, इदमुक्तं भवति-न कश्चिदनादौ संसृतौ पर्यटन्नसुमान् दिगागमनाऽऽदिकं जानीयात, यः पुनर्जानीयास्त एवम-(सह सम्मइयाए त्ति) सहशब्दः संबन्धवाची, सदिति प्रशंसायां, मतिः ज्ञानम् / अयमत्र वाक्यार्थःआत्मना सह सदा या सन्मतिर्वर्तते, तया सन्मत्या कश्चिजानीते, सह शब्दविशेषणाच सदाऽऽत्मस्वभावत्वं मतेरावेदित भवति, न पुनर्यथा वैशेषिकाणा व्यतिरिक्ता सती समवायवृत्यात्मनि समवेतेति / यदि वा (सम्मइए त्ति) स्वकीयया मत्या स्वमत्येति, तत्र भिन्नमप्यश्वाऽऽदिक स्वकीयं दृश्टमतः सहशब्दविशेषणं, सहशब्दश्चासमस्त इति, सत्यपि चाऽऽत्मनः सदा मतिसन्निधाने प्रबलज्ञानऽऽवरणाऽऽवृत्तत्वान्न सदा विशिष्टोऽवबोध इति, सा युनः सन्मतिः, स्वमतिर्वा अवधिमनः पर्यायवकंवलज्ञानजातिस्मरणभेदाच्चतुर्विधा ज्ञेयाः, तत्रावधिमनःपर्यायकेवलाना स्वरूपमन्यत्र विस्तरेणोक्त, जातिस्मरणं त्वाभिनिवाधिकविशेषः, तदेवं चतर्विधया मत्याऽत्मनः कश्चिद्विशिष्टदिग्गत्यागती जानाति, कश्चिच परस्तीर्थकृत्सर्वज्ञः,तस्यैव परमाश्रतः परशब्दवाच्यत्वात्परत्व, तस्य तेनवाव्याकरणम्-उपदेशस्तेन जीवांस्तद्भेदाश्च पृथिव्यादीन् तद्गत्यागती च जानाति, अपरः पुनरन्येषां तीर्थकरव्यतिरिक्तानामतिशयज्ञानिनामन्तिके श्रुत्वा जानातीति, यच्च जानाति तत सूत्रावयवेन दर्शयति / तद्यथा-पूर्वस्या दिश आगताकऽहमस्मि, एवं दक्षिणस्याः पश्चिमाया उत्तरस्या उर्द्धदिशोऽधोदिशोऽन्यतरस्याः दिशोऽनुदिशो वा आगतोऽहमसमीत्येवमेकेषां विशिष्टक्षयोपशमाssदिमतां तीर्थकरान्यातिशज्ञातनबोधितानां च ज्ञान भवति, तथा प्रतिविशिष्टदिगागमनपरिज्ञानान्तरमेषामेतदपि ज्ञानं भवति, यथाऽस्ति मेऽस्य शरीरकस्याधिष्ठाता ज्ञानदर्शनोपयोगलक्षण दपपादुको भवान्तरसंक्रान्तिभागसर्वगतो भोक्ता मूर्ति हितसेऽविनाशी शरीरमात्रव्यापीत्यादिगुणवानात्मेति। स च द्रव्वकषाययोगोपयोग-ज्ञानदर्शनचारित्रवीर्याऽऽत्मभेदादष्टधा, तत्रोपयोगाऽऽत्मना बाहुल्येनेहाधिकारः, शेषास्तु तदंशतयोपयुज्यन्त इति उपन्यस्ताः / तथा-अस्ति च ममाऽऽत्मा. योऽमुष्या दिशोऽनुदिशश्च कसशादनुसञ्चरति गतप्रायोग्यकोणदानादनु पश्चात् संचरत्यनुसंचरति, पाठान्तरं वा-(अणुसंसरइ त्ति) दिग्विदिशां गमनं भावदिगागमनं वा स्मरतीत्यर्थः / साम्प्रत सूत्रावयवेन पूर्वसूत्रोक्तमेवार्थमुपसंहरतिसर्वस्या दिशः सर्वस्याश्चानुदिशा य आगतोऽनुसञ्चरति, अनुसंस्मरतीति वा सः, अहमित्यात्मोल्लेखः, अहं प्रत्ययग्राह्यत्वादात्मनः, अनेन पूर्वाऽद्याः प्रज्ञापकदिशः सर्वा गृहीताः, भावदिशश्चेति। आचा०१ श्रु०१ अ०१ उ०। आ०चू० / स्था०। (अहं कस्या दिश आगत इति विचारः 'आता' शब्दे द्वितीयभागे 182 पृष्ठे निदर्शितः) द्वाभ्यां दिग्भ्यां प्रव्राजनाऽऽदि प्रवर्ततेदो दिसाओ अभिगिज्झ कप्पइ निग्गंथाणं वा णिग्गंथीणं वा पव्वावित्तए पाईणंचेव, उदीणंचेवा एवं मुंमावित्तए 1 सिक्खावित्तए 2 उवट्ठावित्तए 3 संभुंजित्तए 4 संवसित्तए 5 सज्झायं उद्दिसित्तए 6 सज्झायं समुद्दिसित्तए 7 सज्झायमणुजाणित्तए 8 आलोइत्तए पडिक्कमित्तए 10 निंदित्तए 11 गरहित्तए 12 विउट्टि--