________________ दित्ति 2520 - अभिधानराजेन्द्रः - भाग 4 दिप्पा दित्ति स्त्री० [दिति(ती)] दोऽवखण्डने, तिच् वा डीप् / दैत्यमातरि कश्यपपल्याम्, भावे क्तिन्। खण्डने, वाच० / पुनर्वसुनक्षत्राधिष्ठातुदेवतायाम्, स्था०२ ठा०३ उ०। चं० प्र०। *दीप्ति स्त्री० दीप-क्तिन् / कान्तौ, "कान्तिरेव वयोभोगदेशकालगुणाऽऽदिभिः / उद्दीपिताऽतिविस्तार, प्राप्ता दीप्तिरिहोच्यते / / 1 / / " इत्युक्ते स्त्रीणां गुणभेदे, वाच / दीपने, ज्ञा०१ श्रु०१० अ०। दित्तिमं पुं० (दीप्तिमत्) परवादिनामक्षोभ्ये षड्त्रिंशत् सूरिगुणानां / चतुस्त्रिंशत्तमे गुणे, ग० 1 अधि० आचा० / प्रक०। दित्था स्त्री० (दित्सा) दातुमिच्छायाम, सूत्र०२ श्रु० 4 अ०। दिदिक्खा स्वी० (दिदृक्षा) दृष्टुमिच्छा दिदृक्षा।दर्शनेच्छायाम्, नं०1 षो०। दिदृक्षा भवबीजंचा-विद्या चाऽनादिवासना। भङ्ग यैषैवाऽऽश्रिता साङ्ख्य-शैववेदान्तिसौगतैः॥२६॥ (दिदृक्षेति) पुरुषस्य प्रकृतिविकारान् द्रष्टुमिच्छा दिदृक्षा सैवेयमिति साङ्ख्याः , भवबीजमितिशैवाः, अविद्येति वेदान्तिकाः, अनादिवासनेति सौगाताः / / 26 / / द्वा०१२ द्वा०। दिद्ध पुं० (दिग्ध) दिह-क्तः / विषाक्तवाणे, वह्नौ च / भावे क्तः / स्नेहे. लेपने, न० / कर्मणि क्तः / लिप्ते, वाच०। नि० चू०१ उ०। दिप्प त्रि० (दीप्र) प्रकाशिते, "दीप्रदीपाकुरायते।'' रत्ना० 1 परि०। दिप्पंत त्रि० (दीप्यमान) भासम्मने, नि० चू०१ उ० / दीप्यमानविमलग्रहगणसमप्रभाः। दीप्यमानो रजन्यां भास्वान्। विमलोऽत्र धूल्याद्यपगमेन ग्रहगणो ग्रहसमूहस्तेन समा प्रभा यासा ताः / जी०३ प्रति०४ उ० अनर्थे, दे० ना०५ वर्ग०३६ गाथा। दिप्पमाण त्रि० (दीप्यमान) भासमाने, औ०। कल्प० / "दिप्पमाणसोहं।" दीप्यमाना शोभा यस्य तम्। कल्प०३ क्षण। दीप्या स्त्री० (दीप्रा) दीपाप्रभासदृश्याम, ध०१अधि०। योगदृष्टिभेदे, द्वा० / प्राणायामवती दीप्रा, योगोत्थानविवर्जिता। तत्त्वश्रवणसंयुक्ता, सूक्ष्मबोधमनाश्रिता / / 16 / / प्राणावामवती प्राणायामसहिता दीप्रा दृष्टिः योगोत्थानेन विवर्जिता, प्रशान्तवाहितालाभात् / तत्त्वश्रवणेन संयुक्ता, शुश्रूषाफलभावात / सूक्ष्मबोधेन विवर्जिता, वेद्यसंवेद्यपदाप्राप्तेः // 16 // द्वा०२२ द्वा०। (प्राणायामव्याख्या पाणायाम' शब्दे द्रष्टव्या) (तत्त्वश्रुतिश्च तत्तसुइ' शब्देऽस्मिन्नेव भागे 2183 पृष्ठ गता) कर्मदजूविभेदेना-नन्तधर्मकगोचरे। वेद्यसंवेद्यपदजे, बोधे सूक्ष्मत्वमत्र न।। 23 / / (कर्मेति) कर्मव वज्रमतिदुर्भेदत्वात् तस्य विभेदेनानन्तधर्मकं भेदाभेदनित्यत्वानित्यत्वाऽऽद्यनन्तधर्मशबलं यद्वस्तु तद् गोचरे वस्तुनस्तथात्वपरिच्छदिनि, वेद्यसंवेद्यपदजे बोधं सूक्ष्मत्वं यत्तदत्र दीप्रायां दृष्टौ न भवति तदधोभूमिकारूपत्वादस्याः। तदुक्तम्-'भवाम्भोधिसमुत्तारात् कर्मवनविभेदतः। ज्ञेयव्याप्तेश्च कात्स्न्ये न, सूक्ष्मत्वं नाऽयमत्र तु॥ 1 / / / / 23 / / अवेद्यसंवेद्यपदं, चतसृष्वासु दृष्टिषु। पक्षिच्छायाजलचर-प्रवृत्त्याभं यदुल्वणम् / / 24 / / (अवेद्येति) आसु मित्राऽऽद्यासु चतसृषु दृष्टिषु यद्यस्मादवेद्यसंवेद्यपदम् उल्बणमधिकम् / पक्षिच्छायायां जलसंसर्गिण्यां जलधिया जलचरप्रवृत्तिरिवाऽऽभा वेद्यसंवेद्यसम्बन्धिनी यत्र तत्तथा। तत्र हि न तात्त्विकं वेद्यसंवेद्यपद, किं त्वारोपाधिष्ठानसंसर्गितयाऽतात्त्विकम्, अतएवानुल्वणमित्यर्थः / एतदपि चरमासु चरमयथाप्रवृत्तकरणेन एवेत्याचार्याः / तदिदमभिप्रेत्योक्तम्-''अवेद्यसंवेद्यपद, यस्मादासु तथोल्वणम् / पक्षिच्छायाजलचरप्रवृत्त्याभमतः परम्॥१॥" / / 26 // वेद्यं संवेद्यते यस्मि-नपायाऽऽदिनिबन्धनम्। पदं तद् वेद्यसंवेद्य-मन्यदेतद्विपर्यतात्।। 25 / / (वेद्यमिति) वेद्य वेदनीयं वस्तुस्थित्या, तथा भावयोगिसा मान्येनाविकल्पकज्ञानग्राह्यमित्यर्थः / संवेद्यते क्षयोपशमानुरूपं निश्चयाबुद्ध्या विज्ञायते. यस्मिन्नाशयस्थाने, अपायाऽऽदिनिबन्धनं नरकस्वर्गाऽऽदिकारण हिंसाऽऽहिंसाऽऽदि तद्वेद्यसंवेद्यपदम्, अन्यदवेद्यसंवेद्यपदमेतद्विपर्ययादुक्तलक्षणव्यत्ययात् / यद्यपि शुद्धं यथावद्वेद्यसंवेदन माषतुषाऽऽदावसम्भवि, योग्यतामात्रेण च मित्राऽऽदिदृष्टिष्पपि संभवि, तथाऽपि वेद्यसंवेद्यपदप्रवृत्तिनिमित्तं ग्रन्थिभेदजनितो रुचिविशेष एवेति न दोषः / 25 // अपायशक्तिमालिन्यं, सूक्ष्मबोधयिधातकृत् / न वेद्यसंवेद्यपदे, वज्रतण्डुलसन्निभे / / 26 / / (अपायेति) अपायशक्तिमालिन्य नरकाऽऽद्यपायशक्तिमलिनत्वं, सूक्ष्मयोधस्य विघातकृत् अपायहेल्वासेवनक्लिष्टबीजसद्भावात-स्यय सद्ज्ञानाऽऽवरणक्षयोपशमाभावनियतत्वात्। न वेद्यसंवेद्यपदे उक्तलक्षणे वज्रतण्डुलसन्निभे, प्रायो दुर्गतावपि मानसदुःखाभावेन तद्वद्वेद्यसंवेद्यपदवतो भावपाकायोगात्। एतच व्यावहारिक वेद्यसंवेद्यपदं भावमाश्रित्योक्तम् / निश्चयतस्तु प्रतिपतितसद्दर्शनानामनन्तसंसारिणां नास्त्येव वेद्यसवेद्यपदभावः। नैश्चयिक-तद्वति क्षायिकसम्यग्दृष्टौ श्रेणिकाऽऽदाविव पुनर्दुर्गत्ययोगेन तप्तलोहपदन्यासतुल्याया अपि पापप्रवृत्तेश्वरमाया एवोपपत्तेः। यथोक्तम्"अतोऽन्यदुत्तरा स्वस्मात्, पापे कर्माऽऽगतसोऽपि हि। तप्तलोहपदन्यास-तुल्या वृत्तिः क्वचिद्यदि॥१॥ वेद्यसंवेद्यपदतः, संवेगातिशयादिति। चरमैव भवत्येषा, पुनर्दुर्गत्ययोगतः।।२।।" इति // 26 // तच्छक्तिः स्थूलबोधस्य, बीजमन्यत्र चाक्षतम्। तत्र यत्पुण्यबन्धोऽपि, हन्तापायोत्तरः स्मृतः // 27 // (तच्छक्तिरिति ) अन्यत्र चावेद्यसंवेद्यपदे तच्छक्तिरपायशक्तिः स्थूलबोधस्य बीजमक्षतमनभिभूतम् / तत्रावेद्यसंवेद्यपदे यद्यस्मात् पुण्यबन्धोऽपि हन्तापायोत्तरो विघ्ननान्तरीयकः स्मृतः, ततस्तत्पुण्यस्य पापानुबन्धित्वात् / / 27 // प्रवृत्तिरपि योगस्य, वैराग्यान्मोहगर्भतः। प्रसूतेऽपायजननी-मुत्तरां मोहवासनाम् / / 28 / /