________________ दायगदोस 2502 - अभिधानराजेन्द्रः - भाग 4 दायगदोस कथमत्यासन्नेन सह भिक्षाग्रहणव्याजतोऽतिपरिचयं विदधत इति। ___ संप्रति गुर्विणीबालवत्से आश्रित्य दोषानुपदर्शयतिगुठ्विणी गन्भे संघ-ट्टणा उ उहृत-वेसमाणीए। बालाई मंसें दुग, मज्जाराई विराहिजा / / 617 / / गुर्विण्या भिक्षादानार्थमुत्तिष्ठन्त्या भिक्षां दत्त्वा स्थाने उपविशन्त्याश्च गर्भस्य संघट्टनं संवलनं भवति, तस्मान्न ततो ग्राह्यम्। (बालाई मंसें दुग त्ति) अत्राऽऽर्षत्वाद् व्यत्यासेन पदयोजना-बालमिति शिशु भूमी, मञ्चिकाऽऽदौवा निक्षिप्य यदि भिक्षांददाति, तर्हि तं बालं मार्जाराऽऽदयो विडालसारमेयाऽऽदयो मांसेन्दुकाऽऽदि मांसखण्डं शशकशिशुरिति का कृत्वा विराधयेत् विनाशयेत् / तथा-आहारखरण्टितौ शुष्को हस्तौ भवतः, ततो भिक्षां दत्त्वा पुनर्दात्र्या हस्ताभ्यां गृह्यमाणस्य बालस्य पीडा भवेत, ततो बालवत्सातोऽपि न ग्राह्यम् // 617 / / पिं०॥ किंचथणगं पिज्जमाणी य, दारगं वा कुमारियं / तं निक्खिवित्तु रोयंतं, आहरे पाणभोयणं / / 42 / / स्तनं पाययन्ती, कमित्याह-दारकं वा, कुमारिकाम् / वाशब्दस्य व्यवहितः संबन्धः। अत एव नपुंसकं वा / तद्दारकाऽऽदि, निक्षिप्य रुदद् भूम्यादौ आहरेत् पानभोजनम्। अत्रायं वृद्धसंप्रदायः-''गच्छवासी, जइ थणजीवी पियंतो णिक्खित्तो, तो न गिण्हति / रोवउ वा, मा वा, अह अन्न पि आहारेइ, तो जति ण रोवइ, तो गिण्हति, अह रोवइ, तो न गिण्हति / अह अपियंतो णिक्खित्तो थणजीवी रोवइ, तओ ण गिण्हति / अह न रोवति, तो गिण्हति / गच्छणिग्गया पुण जाव थणजीवी ताव रोवउ वा, मा वा, पिवंतओ वा, अपिवंतओ वा ण गिण्हंति / जाहे अन्न पि आहारेउ आढतो भवति, ताहे जइ पिवंतओ, तो रोवउ वा, मा वा, ण गिण्हति / अह अपिवंतओ, तो जइ रोवइ, तो परिहरति, अरोविए गेण्हति / सीसो आह-को तत्थ दोसोऽस्थि? आयरिओ भणइ-तस्स निक्खिप्पमाणस्स खरेहिं हत्थेहिं धिप्पमाणस्स अथिरत्तणेण परितावणा दोसा, मज्जाराऽऽदि वा अवहरेज / " इति सूत्रार्थः / / 42 // तं भवे भत्तपाणं तु, संजयाण अकप्पियं / दितियं पडिआइक्खे,न मे कप्पइ तारिसं // 43 // तद्भवेद् भक्तपानं त्वनन्तरोदितं संयतानामकल्पिकं, यतश्चैवमतो ददतीं प्रत्याचक्षीत, न मम कल्पते तादृशमिति सूत्रार्थः / // 43 // दश० ५अ०१3०। भुञ्जानां मथ्नन्तीं चाऽऽश्रित्य दोषानाहभुंजंती आयमणे, उदगं वोडी य लोगगरिहा य। घुसुलंती संसत्ते, करम्मि लित्ते वहे रसगा।। 616 / / भुजाना दात्री भिक्षादानार्थमाचमनं करोति, आचमने च क्रियमाणे उदकं विराध्यते, अथ न करोत्याचमनं, तर्हि लोकेबोटिरितिकृत्वा गर्दा स्यात्।तथा-''घुसुलंती' दध्यादि मथ्नन्ती यदि तद् दध्यादिसंसक्तं मथ्नाति, तर्हि तेन संसक्तदध्यादिना लिप्ते करे तस्या भिक्षा ददत्या; तेषां रराजीवानां वधो भवति, ततस्तस्या अपि हस्तान्न कल्पते। संप्रति पेषणाऽऽदिदोषानुपदर्शयति दगवीए संघट्टण, पीसणकंडदलभन्ज्जणे डहणं / पिंजंतं रुवणाई, दिन्ने लित्ते करे उदगं / / 620 // पेषणकण्डनदलनानि कुर्वतीना हस्ताद्भिक्षाग्रहणे उदकवीजसंघट्टनं स्यात् / तथाहि-पिंषन्ती यदा भिक्षादानायोत्तिष्ठति तदा पिष्यमाणतिलाऽऽदिसत्काः काश्चिन्मक्षिकाः सचित्ता अपि हस्ताऽऽदो लगिताः संभवन्ति, ततो भिक्षादानाय हस्ताऽऽदिप्रस्फोटने भिक्षां वा दहत्या भिक्षासंपर्कतस्तासां विराधना भवति / भिक्षां वा दत्त्वा भिक्षाऽवयवखरण्टितौ हस्तौ जलेन प्रक्षालयेत्। ततः पेषणे उदकबीजसंघट्टना। एवं कण्डनदलनयोरपि यथायोग भावनीयम् / तथा भर्जन भिक्षां ददत्या वेलालगनेन कडिल्लक्षिप्तगोधूमाऽऽदीनां दहनं स्यात् / तथा-पिञ्जनं, रुञ्जनमादिशब्दात्कर्तनप्रमर्दनवा कुर्वती भिक्षां दत्त्वा भिक्षाऽवयवखरण्टितौ हस्तौ जलेन प्रक्षालयेत. ततस्तत्राप्युदकं विनश्यतीति नततो भिक्षा कल्पते। सम्प्रति षट्कायव्यग्रहस्ताऽऽदिपञ्चकरवरूपं गाथाद्वयेनाऽऽहलोणदगअगणिवत्थी, फलाइ मच्छाइ सजीय हत्थम्मि। पाएणोगाहणया, संघट्टण सेसकाएणं / / 621 / / खणमाणी आरभए, मज्जऍ धोएज सिंचए किंचि / छेयविसारणमाई, बिंदइ छठे फुरफुरंते / / 622 / / इह सा षट्कायव्यग्रहस्ता उच्यते, यस्या हस्ते सजीवं लवणमुदकमग्निर्वायुपूरितो वा वस्तिः , फलाऽऽदिकं बीजपूराऽऽदिकं मत्स्याऽऽदयो वा विद्यन्ते, ततः सा यद्येतेषां सजीवलवणाऽऽदीनामन्यतमादपि श्रमणभिक्षादानार्थं भूम्यादौ निक्षिप्तः, तर्हि न कल्पते। तथा--अवगाहना नाम यत्तेषां षड्जीवनिकायाना पादेन संघट्टनं शेषकायेन हस्ताऽऽदिना संमर्दनंसंघट्टनमारभमाणा।। 621 / / कुश्यादिना भूम्यादि खनन्ती, अनेन पृथिवीकायाऽऽरम्भ उक्तः। यद्वा-मजन्ती शुद्धेन जलेन स्नाती। अथवाधावन्ती शुद्धेनोदकेन वस्त्राणि प्रक्षालयन्ती / यदि वा किञ्चिद् वृक्षवल्ल्यादि सिञ्चन्ती, एतेनाप्कायाऽऽरम्भो दर्शितः / उपलक्षणमेतत्। ज्वलयन्ती वा फूत्कारेण वैश्वानरं वस्त्यादिकं वा सचित्तवातभृतमितस्ततः प्रक्षिपन्ती, एतेनाग्निवास्तुसमारम्भ उक्तः / तथा-शाकाऽऽदेः छेदविसारणे कुर्वती। तत्र छेदः पुष्पफलाऽऽदेःखण्डनं, विशरणं तेषामेव खण्डाना शोषणायाऽऽतपे मोचनम् / आदिशब्दात्तन्दुलमुद्गाऽऽदीनां शोधनाऽऽदिपरिग्रहः / तथा-छिन्दन्ती षष्ठान् त्रसकायान् मत्स्याऽऽदीन् ‘‘फुरफुरते' इति पोस्फूर्यमाणान्, पीडयोद्वेल्लानित्यर्थः / अनेन त्रसकायाऽऽरम्भ उक्तः / इत्थं षड्जीवनिकायानारभमाणाया हस्तान्न कल्पते। संप्रति षट्कायव्यग्रहस्तेतिपदस्य व्याख्याने मतान्तरमुपदर्शयतिछक्कायवग्रहत्था, केई कोलाइ कन्नलइयाइ। सिद्धत्थगपुप्फाणि य, सिरम्मि दिन्नाअ वजेति / / 623 / / केचिदाचार्याः षट्कायव्यग्रहस्तेतिवचनतः कोलाऽऽदीनि बदराऽऽदीनि, आदिशब्दात्करीराऽऽदिपरिग्रहः / (कन्नलइया इति) कर्णे पिनद्धानि / तथा-सिद्धार्थकपुष्पाणि शिरसि दत्तानि वर्जयन्ती। अन्ने भणंति दससु वि, एसणदोसेसु अत्थि तग्गहणं / तेण न वजं भण्णइ, न तु गहणं दायर गहणे / / 62..